| |
|

This overlay will guide you through the buttons:

पुमान् पुंसः परिजातोऽश्वत्थः खदिरादधि ।स हन्तु शत्रून् मामकान् यान् अहं द्वेष्मि ये च माम् ॥१॥
पुमान् पुंसः परिजातः अश्वत्थः खदिरात् अधि ।स हन्तु शत्रून् मामकान् यान् अहम् द्वेष्मि ये च माम् ॥१॥
pumān puṃsaḥ parijātaḥ aśvatthaḥ khadirāt adhi .sa hantu śatrūn māmakān yān aham dveṣmi ye ca mām ..1..

तान् अश्वत्थ निः शृणीहि शत्रून् वैबाधदोधतः ।इन्द्रेण वृत्रघ्ना मेदी मित्रेण वरुणेन च ॥२॥
तान् अश्वत्थ निः शृणीहि शत्रून् वैबाध-दोधतः ।इन्द्रेण वृत्र-घ्ना मेदी मित्रेण वरुणेन च ॥२॥
tān aśvattha niḥ śṛṇīhi śatrūn vaibādha-dodhataḥ .indreṇa vṛtra-ghnā medī mitreṇa varuṇena ca ..2..

यथाश्वत्थ निरभनोऽन्तर्महत्यर्णवे ।एवा तान्त्सर्वान् निर्भङ्ग्धि यान् अहं द्वेष्मि ये च माम् ॥३॥
यथा अश्वत्थ अन्तर् महति अर्णवे ।एव तान् सर्वान् निर्भङ्ग्धि यान् अहम् द्वेष्मि ये च माम् ॥३॥
yathā aśvattha antar mahati arṇave .eva tān sarvān nirbhaṅgdhi yān aham dveṣmi ye ca mām ..3..

यः सहमानश्चरसि सासहान इव ऋषभः ।तेनाश्वत्थ त्वया वयं सपत्नान्त्सहिषीमहि ॥४॥
यः सहमानः चरसि सासहानः इव ऋषभः ।तेन अश्वत्थ त्वया वयम् सपत्नान् सहिषीमहि ॥४॥
yaḥ sahamānaḥ carasi sāsahānaḥ iva ṛṣabhaḥ .tena aśvattha tvayā vayam sapatnān sahiṣīmahi ..4..

सिनात्वेनान् निर्ऋतिर्मृत्योः पाशैरमोक्यैः ।अश्वत्थ शत्रून् मामकान् यान् अहं द्वेष्मि ये च माम् ॥५॥
सिनातु एनान् निरृतिः मृत्योः पाशैः अमोक्यैः ।अश्वत्थ शत्रून् मामकान् यान् अहम् द्वेष्मि ये च माम् ॥५॥
sinātu enān nirṛtiḥ mṛtyoḥ pāśaiḥ amokyaiḥ .aśvattha śatrūn māmakān yān aham dveṣmi ye ca mām ..5..

यथाश्वत्थ वानस्पत्यान् आरोहन् कृणुषेऽधरान् ।एवा मे शत्रोर्मूर्धानं विष्वग्भिन्द्धि सहस्व च ॥६॥
यथा अश्वत्थ वानस्पत्यान् आरोहन् कृणुषे अधरान् ।एव मे शत्रोः मूर्धानम् विष्वक् भिन्द्धि सहस्व च ॥६॥
yathā aśvattha vānaspatyān ārohan kṛṇuṣe adharān .eva me śatroḥ mūrdhānam viṣvak bhinddhi sahasva ca ..6..

तेऽधराञ्चः प्र प्लवन्तां छिन्ना नौरिव बन्धनात्।न वैबाधप्रणुत्तानां पुनरस्ति निवर्तनम् ॥७॥
ते अधराञ्चः प्र प्लवन्ताम् छिन्ना नौः इव बन्धनात्।न वैबाध-प्रणुत्तानाम् पुनर् अस्ति निवर्तनम् ॥७॥
te adharāñcaḥ pra plavantām chinnā nauḥ iva bandhanāt.na vaibādha-praṇuttānām punar asti nivartanam ..7..

प्रैणान् नुदे मनसा प्र चित्तेनोत ब्रह्मणा ।प्रैणान् वृक्षस्य शाखयाश्वत्थस्य नुदामहे ॥८॥
प्र एनान् नुदे मनसा प्र चित्तेन उत ब्रह्मणा ।प्र एनान् वृक्षस्य शाखया अश्वत्थस्य नुदामहे ॥८॥
pra enān nude manasā pra cittena uta brahmaṇā .pra enān vṛkṣasya śākhayā aśvatthasya nudāmahe ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In