| |
|

This overlay will guide you through the buttons:

आ यातु मित्र ऋतुभिः कल्पमानः संवेशयन् पृथिवीमुस्रियाभिः ।अथास्मभ्यं वरुणो वायुरग्निर्बृहद्राष्ट्रं संवेश्यं दधातु ॥१॥
आ यातु मित्रः ऋतुभिः कल्पमानः संवेशयन् पृथिवीम् उस्रियाभिः ।अथ अस्मभ्यम् वरुणः वायुः अग्निः बृहद्राष्ट्रम् संवेश्यम् दधातु ॥१॥
ā yātu mitraḥ ṛtubhiḥ kalpamānaḥ saṃveśayan pṛthivīm usriyābhiḥ .atha asmabhyam varuṇaḥ vāyuḥ agniḥ bṛhadrāṣṭram saṃveśyam dadhātu ..1..

धाता रातिः सवितेदं जुशन्तामिन्द्रस्त्वष्टा प्रति हर्यन्तु मे वचः ।हुवे देवीमदितिं शूरपुत्रां सजातानां मध्यमेष्ठा यथासानि ॥२॥
धाता रातिः सविता इदम् जुशन्ताम् इन्द्रः त्वष्टा प्रति हर्यन्तु मे वचः ।हुवे देवीम् अदितिम् शूर-पुत्राम् सजातानाम् मध्यमेष्ठाः यथा असानि ॥२॥
dhātā rātiḥ savitā idam juśantām indraḥ tvaṣṭā prati haryantu me vacaḥ .huve devīm aditim śūra-putrām sajātānām madhyameṣṭhāḥ yathā asāni ..2..

हुवे सोमं सवितारं नमोभिर्विश्वान् आदित्यामहमुत्तरत्वे ।अयमग्निर्दीदायद्दीर्घमेव सजातैरिद्धोऽप्रतिब्रुवद्भिः ॥३॥
हुवे सोमम् सवितारम् नमोभिः विश्वान् आदित्याम् अहम् उत्तर-त्वे ।अयम् अग्निः दीदायत् दीर्घम् एव सजातैः इद्धः अ प्रतिब्रुवद्भिः ॥३॥
huve somam savitāram namobhiḥ viśvān ādityām aham uttara-tve .ayam agniḥ dīdāyat dīrgham eva sajātaiḥ iddhaḥ a pratibruvadbhiḥ ..3..

इहेदसाथ न परो गमाथेर्यो गोपाः पुष्टपतिर्व आजत्।अस्मै कामायोप कामिनीर्विश्वे वो देवा उपसंयन्तु ॥४॥
इह इदसा अथ न परस् गमाथ इर्यः गोपाः पुष्ट-पतिः वः आजत्।अस्मै कामाय उप कामिनीः विश्वे वः देवाः उपसंयन्तु ॥४॥
iha idasā atha na paras gamātha iryaḥ gopāḥ puṣṭa-patiḥ vaḥ ājat.asmai kāmāya upa kāminīḥ viśve vaḥ devāḥ upasaṃyantu ..4..

सं वो मनांसि सं व्रता समाकूतीर्नमामसि ।अमी ये विव्रता स्थन तान् वः सं नमयामसि ॥५॥
सम् वः मनांसि सम् व्रता सम् आकूतीः नमामसि ।अमी ये विव्रताः स्थन तान् वः सम् नमयामसि ॥५॥
sam vaḥ manāṃsi sam vratā sam ākūtīḥ namāmasi .amī ye vivratāḥ sthana tān vaḥ sam namayāmasi ..5..

अहं गृभ्णामि मनसा मनांसि मम चित्तमनु चित्तेभिरेत ।मम वशेषु हृदयानि वः कृणोमि मम यातमनुवर्त्मान एत ॥६॥
अहम् गृभ्णामि मनसा मनांसि मम चित्तम् अनु चित्तेभिः एत ।मम वशेषु हृदयानि वः कृणोमि मम यातम् अनुवर्त्मानः एत ॥६॥
aham gṛbhṇāmi manasā manāṃsi mama cittam anu cittebhiḥ eta .mama vaśeṣu hṛdayāni vaḥ kṛṇomi mama yātam anuvartmānaḥ eta ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In