| |
|

This overlay will guide you through the buttons:

कर्शफस्य विशफस्य द्यौः पिता पृथिवी माता ।यथाभिचक्र देवास्तथाप कृणुता पुनः ॥१॥
कर्शफस्य विशफस्य द्यौः पिता पृथिवी माता ।यथा अभिचक्र देवाः तथा अप कृणुत पुनर् ॥१॥
karśaphasya viśaphasya dyauḥ pitā pṛthivī mātā .yathā abhicakra devāḥ tathā apa kṛṇuta punar ..1..

अश्रेष्माणो अधारयन् तथा तन् मनुना कृतम् ।कृणोमि वध्रि विष्कन्धं मुष्काबर्हो गवामिव ॥२॥
अश्रेष्माणः अधारयन् तथा तत् मनुना कृतम् ।कृणोमि वध्रि विष्कन्धम् मुष्काबर्हः गवाम् इव ॥२॥
aśreṣmāṇaḥ adhārayan tathā tat manunā kṛtam .kṛṇomi vadhri viṣkandham muṣkābarhaḥ gavām iva ..2..

पिशङ्गे सूत्रे खृगलं तदा बध्नन्ति वेधसः ।श्रवस्युं शुष्मं काबवं वध्रिं कृण्वन्तु बन्धुरः ॥३॥
पिशङ्गे सूत्रे खृगलम् तदा बध्नन्ति वेधसः ।श्रवस्युम् शुष्मम् काबवम् वध्रिम् कृण्वन्तु बन्धुरः ॥३॥
piśaṅge sūtre khṛgalam tadā badhnanti vedhasaḥ .śravasyum śuṣmam kābavam vadhrim kṛṇvantu bandhuraḥ ..3..

येना श्रवस्यवश्चरथ देवा इवासुरमायया ।शुनां कपिरिव दूषणो बन्धुरा काबवस्य च ॥४॥
येन श्रवस्यवः चरथ देवाः इव असुर-मायया ।शुनाम् कपिः इव दूषणः बन्धुरा काबवस्य च ॥४॥
yena śravasyavaḥ caratha devāḥ iva asura-māyayā .śunām kapiḥ iva dūṣaṇaḥ bandhurā kābavasya ca ..4..

दुष्ट्यै हि त्वा भत्स्यामि दूषयिष्यामि काबवम् ।उदाशवो रथा इव शपथेभिः सरिष्यथ ॥५॥
दुष्ट्यै हि त्वा दूषयिष्यामि काबवम् ।उदाशवः रथाः इव शपथेभिः सरिष्यथ ॥५॥
duṣṭyai hi tvā dūṣayiṣyāmi kābavam .udāśavaḥ rathāḥ iva śapathebhiḥ sariṣyatha ..5..

एकशतं विष्कन्धानि विष्ठिता पृथिवीमनु ।तेषां त्वामग्रे उज्जहरुर्मणिं विष्कन्धदूषणम् ॥६॥
एकशतम् विष्कन्धानि विष्ठिता पृथिवीम् अनु ।तेषाम् त्वाम् अग्रे उज्जहरुः मणिम् विष्कन्ध-दूषणम् ॥६॥
ekaśatam viṣkandhāni viṣṭhitā pṛthivīm anu .teṣām tvām agre ujjaharuḥ maṇim viṣkandha-dūṣaṇam ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In