| |
|

This overlay will guide you through the buttons:

ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः ।स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च वि वः ॥१॥
ब्रह्म जज्ञानम् प्रथमम् पुरस्तात् वि सीमतः सु रुचः वेनः आवः ।स बुध्न्याः उपमाः अस्य विष्ठाः सतः च योनिम् असतः च वि वर् ॥१॥
brahma jajñānam prathamam purastāt vi sīmataḥ su rucaḥ venaḥ āvaḥ .sa budhnyāḥ upamāḥ asya viṣṭhāḥ sataḥ ca yonim asataḥ ca vi var ..1..

इयं पित्र्या राष्ट्र्येत्वग्रे प्रथमाय जनुषे भुवनेष्ठाः ।तस्मा एतं सुरुचं ह्वारमह्यं घर्मं श्रीणन्तु प्रथमाय धास्यवे ॥२॥
इयम् पित्र्या राष्ट्री एतु अग्रे प्रथमाय जनुषे भुवनेष्ठाः ।तस्मै एतम् सु रुचम् ह्वार-मह्यम् घर्मम् श्रीणन्तु प्रथमाय धास्यवे ॥२॥
iyam pitryā rāṣṭrī etu agre prathamāya januṣe bhuvaneṣṭhāḥ .tasmai etam su rucam hvāra-mahyam gharmam śrīṇantu prathamāya dhāsyave ..2..

प्र यो जज्ञे विद्वान् अस्य बन्धुर्विश्वा देवानां जनिमा विवक्ति ।ब्रह्म ब्रह्मण उज्जभार मध्यान् निचैरुच्चैः स्वधा अभि प्र तस्थौ ॥३॥
प्र यः जज्ञे विद्वान् अस्य बन्धुः विश्वा देवानाम् जनिमा विवक्ति ।ब्रह्म ब्रह्मणः उज्जभार मध्यात् निचैस् उच्चैस् स्वधाः अभि प्र तस्थौ ॥३॥
pra yaḥ jajñe vidvān asya bandhuḥ viśvā devānām janimā vivakti .brahma brahmaṇaḥ ujjabhāra madhyāt nicais uccais svadhāḥ abhi pra tasthau ..3..

स हि विदः स पृथिव्या ऋतस्था मही क्षेमं रोदसी अस्कभायत्।महान् मही अस्कभायद्वि जातो द्यां सद्म पार्थिवं च रजः ॥४॥
स हि विदः स पृथिव्याः ऋत-स्थाः मही क्षेमम् रोदसी अस्कभायत्।महान् मही अस्कभायत् वि जातः द्याम् सद्म पार्थिवम् च रजः ॥४॥
sa hi vidaḥ sa pṛthivyāḥ ṛta-sthāḥ mahī kṣemam rodasī askabhāyat.mahān mahī askabhāyat vi jātaḥ dyām sadma pārthivam ca rajaḥ ..4..

स भुध्न्यादाष्ट्र जनुषोऽभ्यग्रं बृहस्पतिर्देवता तस्य सम्राट्।अहर्यच्छुक्रं ज्योतिषो जनिष्टाथ द्युमन्तो वि वसन्तु विप्राः ॥५॥
स जनुषः अभ्यग्रम् बृहस्पतिः देवता तस्य सम्राज्।अहर् यत् शुक्रम् ज्योतिषः जनिष्ट अथ द्युमन्तः वि वसन्तु विप्राः ॥५॥
sa januṣaḥ abhyagram bṛhaspatiḥ devatā tasya samrāj.ahar yat śukram jyotiṣaḥ janiṣṭa atha dyumantaḥ vi vasantu viprāḥ ..5..

नूनं तदस्य काव्यो हिनोति महो देवस्य पूर्व्यस्य धाम ।एष जज्ञे बहुभिः साकमित्था पूर्वे अर्धे विषिते ससन् नु ॥६॥
नूनम् तत् अस्य काव्यः हिनोति महः देवस्य पूर्व्यस्य धाम ।एष जज्ञे बहुभिः साकम् इत्था पूर्वे अर्धे विषिते ससन् नु ॥६॥
nūnam tat asya kāvyaḥ hinoti mahaḥ devasya pūrvyasya dhāma .eṣa jajñe bahubhiḥ sākam itthā pūrve ardhe viṣite sasan nu ..6..

योऽथर्वाणं पितरं देवबन्धुं बृहस्पतिं नमसाव च गछात्।त्वं विश्वेषां जनिता यथासः कविर्देवो न दभायत्स्वधावान् ॥७॥
यः अथर्वाणम् पितरम् देव-बन्धुम् बृहस्पतिम् नमसा अव च गच्छात्।त्वम् विश्वेषाम् जनिता यथा असः कविः देवः न दभायत्-स्वधावान् ॥७॥
yaḥ atharvāṇam pitaram deva-bandhum bṛhaspatim namasā ava ca gacchāt.tvam viśveṣām janitā yathā asaḥ kaviḥ devaḥ na dabhāyat-svadhāvān ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In