| |
|

This overlay will guide you through the buttons:

अनड्वान् दाधार पृथिवीमुत द्यामनड्वान् दाधारोर्वन्तरिक्षम् ।अनड्वान् दाधार प्रदिशः षडुर्वीरनड्वान् विश्वं भुवनमा विवेश ॥१॥
अनड्वान् दाधार पृथिवीम् उत द्याम् अनड्वान् दाधार उरु अन्तरिक्षम् ।अनड्वान् दाधार प्रदिशः षड् उर्वीः अनड्वान् विश्वम् भुवनम् आ विवेश ॥१॥
anaḍvān dādhāra pṛthivīm uta dyām anaḍvān dādhāra uru antarikṣam .anaḍvān dādhāra pradiśaḥ ṣaḍ urvīḥ anaḍvān viśvam bhuvanam ā viveśa ..1..

अनड्वान् इन्द्रः स पशुभ्यो वि चष्टे त्रयां छक्रो वि मिमीते अध्वनः ।भूतं भविष्यद्भुवना दुहानः सर्वा देवानां चरति व्रतानि ॥२॥
अनड्वान् इन्द्रः स पशुभ्यः वि चष्टे त्रयाम् शक्रः वि मिमीते अध्वनः ।भूतम् भविष्यत्-भुवना दुहानः सर्वा देवानाम् चरति व्रतानि ॥२॥
anaḍvān indraḥ sa paśubhyaḥ vi caṣṭe trayām śakraḥ vi mimīte adhvanaḥ .bhūtam bhaviṣyat-bhuvanā duhānaḥ sarvā devānām carati vratāni ..2..

इन्द्रो जातो मनुष्येष्वन्तर्घर्मस्तप्तश्चरति शोशुचानः ।सुप्रजाः सन्त्स उदारे न सर्षद्यो नाश्नीयादनडुहो विजानन् ॥३॥
इन्द्रः जातः मनुष्येषु अन्तर् घर्मः तप्तः चरति शोशुचानः ।सु प्रजाः सन् सः उदारे न सर्षद्यः यः न अश्नीयात् अनडुहः विजानन् ॥३॥
indraḥ jātaḥ manuṣyeṣu antar gharmaḥ taptaḥ carati śośucānaḥ .su prajāḥ san saḥ udāre na sarṣadyaḥ yaḥ na aśnīyāt anaḍuhaḥ vijānan ..3..

अनड्वान् दुहे सुकृतस्य लोक ऐनं प्याययति पवमानः पुरस्तात्।पर्जन्यो धारा मरुत ऊधो अस्य यज्ञः पयो दक्षिणा दोहो अस्य ॥४॥
अनड्वान् दुहे सुकृतस्य लोके आ एनम् प्याययति पवमानः पुरस्तात्।पर्जन्यः धारा मरुतः ऊधर् अस्य यज्ञः पयः दक्षिणा दोहः अस्य ॥४॥
anaḍvān duhe sukṛtasya loke ā enam pyāyayati pavamānaḥ purastāt.parjanyaḥ dhārā marutaḥ ūdhar asya yajñaḥ payaḥ dakṣiṇā dohaḥ asya ..4..

यस्य नेशे यज्ञपतिर्न यज्ञो नास्य दातेशे न प्रतिग्रहीता ।यो विश्वजिद्विश्वभृद्विश्वकर्मा घर्मं नो ब्रूत यतमश्चतुष्पात्॥५॥
यस्य न ईशे यज्ञपतिः न यज्ञः न अस्य दाता ईशे न प्रतिग्रहीता ।यः विश्व-जित् विश्व-भृत् विश्व-कर्मा घर्मम् नः ब्रूत यतमः चतुष्पाद्॥५॥
yasya na īśe yajñapatiḥ na yajñaḥ na asya dātā īśe na pratigrahītā .yaḥ viśva-jit viśva-bhṛt viśva-karmā gharmam naḥ brūta yatamaḥ catuṣpād..5..

येन देवाः स्वरारुरुहुर्हित्वा शरीरममृतस्य नाभिम् ।तेन गेष्म सुकृतस्य लोकं घर्मस्य व्रतेन तपसा यशस्यवः ॥६॥
येन देवाः स्वर् आरुरुहुः हित्वा शरीरम् अमृतस्य नाभिम् ।तेन गेष्म सुकृतस्य लोकम् घर्मस्य व्रतेन तपसा यशस्यवः ॥६॥
yena devāḥ svar āruruhuḥ hitvā śarīram amṛtasya nābhim .tena geṣma sukṛtasya lokam gharmasya vratena tapasā yaśasyavaḥ ..6..

इन्द्रो रूपेणाग्निर्वहेन प्रजापतिः परमेष्ठी विराट्।विश्वानरे अक्रमत वैश्वानरे अक्रमतानडुह्यक्रमत ।सोऽदृंहयत सोऽधारयत ॥७॥
इन्द्रः रूपेण अग्निः वहेन प्रजापतिः परमेष्ठी विराज्।विश्वानरे अक्रमत वैश्वानरे अक्रमत अनडुहि अक्रमत ।सः अदृंहयत सः अधारयत ॥७॥
indraḥ rūpeṇa agniḥ vahena prajāpatiḥ parameṣṭhī virāj.viśvānare akramata vaiśvānare akramata anaḍuhi akramata .saḥ adṛṃhayata saḥ adhārayata ..7..

मध्यमेतदनडुहो यत्रैष वह आहितः ।एतावदस्य प्राचीनं यावान् प्रत्यङ्समाहितः ॥८॥
मध्यम् एतत् अनडुहः यत्र एष वहः आहितः ।एतावत् अस्य प्राचीनम् यावान् प्रत्यङ् समाहितः ॥८॥
madhyam etat anaḍuhaḥ yatra eṣa vahaḥ āhitaḥ .etāvat asya prācīnam yāvān pratyaṅ samāhitaḥ ..8..

यो वेदानडुहो दोहान्त्सप्तानुपदस्वतः ।प्रजां च लोकं चाप्नोति तथा सप्तऋषयो विदुः ॥९॥
यः वेद अनडुहः दोहान् सप्त अनुपदस्वतः ।प्रजाम् च लोकम् च आप्नोति तथा सप्त-ऋषयः विदुः ॥९॥
yaḥ veda anaḍuhaḥ dohān sapta anupadasvataḥ .prajām ca lokam ca āpnoti tathā sapta-ṛṣayaḥ viduḥ ..9..

पद्भिः सेदिमवक्रामन्न् इरां जङ्घाभिरुत्खिदन् ।श्रमेणानड्वान् कीलालं कीनाशश्चाभि गच्छतः ॥१०॥
पद्भिः सेदिम् अवक्रामन् इराम् जङ्घाभिः उत्खिदन् ।श्रमेण अनड्वान् कीलालम् कीनाशः च अभि गच्छतः ॥१०॥
padbhiḥ sedim avakrāman irām jaṅghābhiḥ utkhidan .śrameṇa anaḍvān kīlālam kīnāśaḥ ca abhi gacchataḥ ..10..

द्वादश वा एता रात्रीर्व्रत्या आहुः प्रजापतेः ।तत्रोप ब्रह्म यो वेद तद्वा अनडुहो व्रतम् ॥११॥
द्वादश वै एताः रात्रीः व्रत्याः आहुः प्रजापतेः ।तत्र उप ब्रह्म यः वेद तत् वै अनडुहः व्रतम् ॥११॥
dvādaśa vai etāḥ rātrīḥ vratyāḥ āhuḥ prajāpateḥ .tatra upa brahma yaḥ veda tat vai anaḍuhaḥ vratam ..11..

दुहे सायं दुहे प्रातर्दुहे मध्यंदिनं परि ।दोहा ये अस्य संयन्ति तान् विद्मानुपदस्वतः ॥१२॥
दुहे सायम् दुहे प्रातर्दुहे मध्यंदिनम् परि ।दोहाः ये अस्य संयन्ति तान् विद्म अनुपदस्वतः ॥१२॥
duhe sāyam duhe prātarduhe madhyaṃdinam pari .dohāḥ ye asya saṃyanti tān vidma anupadasvataḥ ..12..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In