| |
|

This overlay will guide you through the buttons:

उत देवा अवहितं देवा उन् नयथा पुनः ।उतागश्चक्रुषं देवा देवा जीवयथा पुनः ॥१॥
उत देवाः अवहितम् देवाः उद् नयथा पुनर् ।उत आगः चक्रुषम् देवाः देवाः जीवयथा पुनर् ॥१॥
uta devāḥ avahitam devāḥ ud nayathā punar .uta āgaḥ cakruṣam devāḥ devāḥ jīvayathā punar ..1..

द्वाविमौ वातौ वात आ सिन्धोरा परावतः ।दक्षं ते अन्य आवातु व्यन्यो वातु यद्रपः ॥२॥
द्वौ इमौ वातौ वातः आ सिन्धोः आ परावतः ।दक्षम् ते अन्यः आ वातु वि अन्यः वातु यत् रपः ॥२॥
dvau imau vātau vātaḥ ā sindhoḥ ā parāvataḥ .dakṣam te anyaḥ ā vātu vi anyaḥ vātu yat rapaḥ ..2..

आ वात वाहि भेषजं वि वात वाहि यद्रपः ।त्वं हि विश्वभेषज देवानां दूत ईयसे ॥३॥
आ वात वाहि भेषजम् वि वात वाहि यत् रपः ।त्वम् हि विश्व-भेषज देवानाम् दूतः ईयसे ॥३॥
ā vāta vāhi bheṣajam vi vāta vāhi yat rapaḥ .tvam hi viśva-bheṣaja devānām dūtaḥ īyase ..3..

त्रायन्तामिमं देवास्त्रायन्तां मरुतां गणाः ।त्रायन्तां विश्वा भूतानि यथायमरपा असत्॥४॥
त्रायन्ताम् इमम् देवाः त्रायन्ताम् मरुताम् गणाः ।त्रायन्ताम् विश्वा भूतानि यथा अयम् अरपाः असत्॥४॥
trāyantām imam devāḥ trāyantām marutām gaṇāḥ .trāyantām viśvā bhūtāni yathā ayam arapāḥ asat..4..

आ त्वागमं शंतातिभिरथो अरिष्टतातिभिः ।दक्षं त उग्रमाभारिषं परा यक्ष्मं सुवामि ते ॥५॥
आ त्वा अगमम् शंतातिभिः अथो अरिष्टतातिभिः ।दक्षम् ते उग्रम् आभारिषम् परा यक्ष्मम् सुवामि ते ॥५॥
ā tvā agamam śaṃtātibhiḥ atho ariṣṭatātibhiḥ .dakṣam te ugram ābhāriṣam parā yakṣmam suvāmi te ..5..

अयं मे हस्तो भगवान् अयं मे भगवत्तरः ।अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः ॥६॥
अयम् मे हस्तः भगवान् अयम् मे भगवत्तरः ।अयम् मे विश्व-भेषजः अयम् शिव-अभिमर्शनः ॥६॥
ayam me hastaḥ bhagavān ayam me bhagavattaraḥ .ayam me viśva-bheṣajaḥ ayam śiva-abhimarśanaḥ ..6..

हस्ताभ्यां दशशाखाभ्यां जिह्वा वाचः पुरोगवी ।अनामयित्नुभ्यां हस्ताभ्यां ताभ्यां त्वाभि मृशामसि ॥७॥
हस्ताभ्याम् दश-शाखाभ्याम् जिह्वा वाचः पुरोगवी ।अनामयित्नुभ्याम् हस्ताभ्याम् ताभ्याम् त्वा अभि मृशामसि ॥७॥
hastābhyām daśa-śākhābhyām jihvā vācaḥ purogavī .anāmayitnubhyām hastābhyām tābhyām tvā abhi mṛśāmasi ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In