| |
|

This overlay will guide you through the buttons:

अजो ह्यग्नेरजनिष्ट शोकात्सो अपश्यज्जनितारमग्रे ।तेन देवा देवतामग्रा आयन् तेन रोहान् रुरुहुर्मेध्यासः ॥१॥
अजः हि अग्नेः अजनिष्ट शोकात् सः अपश्यत् जनितारम् अग्रे ।तेन देवाः देवताम् अग्राः आयन् तेन रोहान् रुरुहुः मेध्यासः ॥१॥
ajaḥ hi agneḥ ajaniṣṭa śokāt saḥ apaśyat janitāram agre .tena devāḥ devatām agrāḥ āyan tena rohān ruruhuḥ medhyāsaḥ ..1..

क्रमध्वमग्निना नाकमुख्यान् हस्तेषु बिभ्रतः ।दिवस्पृष्ठं स्वर्गत्वा मिश्रा देवेभिराध्वम् ॥२॥
क्रमध्वम् अग्निना नाक-मुख्यान् हस्तेषु बिभ्रतः ।दिव-स्पृष्ठम् स्वर् गत्वा मिश्राः देवेभिः आध्वम् ॥२॥
kramadhvam agninā nāka-mukhyān hasteṣu bibhrataḥ .diva-spṛṣṭham svar gatvā miśrāḥ devebhiḥ ādhvam ..2..

पृष्ठात्पृथिव्या अहमन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहम् ।दिवो नाकस्य पृष्ठात्स्वर्ज्योतिरगामहम् ॥३॥
पृष्ठात् पृथिव्याः अहम् अन्तरिक्षम् आरुहम् अन्तरिक्षात् दिवम् आरुहम् ।दिवः नाकस्य पृष्ठात् स्वर्-ज्योतिः अगाम् अहम् ॥३॥
pṛṣṭhāt pṛthivyāḥ aham antarikṣam āruham antarikṣāt divam āruham .divaḥ nākasya pṛṣṭhāt svar-jyotiḥ agām aham ..3..

स्वर्यन्तो नापेक्षन्त आ द्यां रोहन्ति रोदसी ।यज्ञं ये विश्वतोधारं सुविद्वांसो वितेनिरे ॥४॥
स्वर्यन्तः न अपेक्षन्ते आ द्याम् रोहन्ति रोदसी ।यज्ञम् ये विश्वतस् धारम् सु विद्वांसः वितेनिरे ॥४॥
svaryantaḥ na apekṣante ā dyām rohanti rodasī .yajñam ye viśvatas dhāram su vidvāṃsaḥ vitenire ..4..

अग्ने प्रेहि प्रथमो देवतानां चक्षुर्देवानामुत मानुषानाम् ।इयक्षमाणा भृगुभिः सजोषाः स्वर्यन्तु यजमानाः स्वस्ति ॥५॥
अग्ने प्रेहि प्रथमः देवतानाम् चक्षुः देवानाम् उत मानुषानाम् ।इयक्षमाणाः भृगुभिः सजोषाः स्वर् यन्तु यजमानाः स्वस्ति ॥५॥
agne prehi prathamaḥ devatānām cakṣuḥ devānām uta mānuṣānām .iyakṣamāṇāḥ bhṛgubhiḥ sajoṣāḥ svar yantu yajamānāḥ svasti ..5..

अजमनज्मि पयसा घृतेन दिव्यं सुपर्णं पयसं बृहन्तम् ।तेन गेष्म सुकृतस्य लोकं स्वरारोहन्तो अभि नाकमुत्तमम् ॥६॥
अजम् अनज्मि पयसा घृतेन दिव्यम् सुपर्णम् पयसम् बृहन्तम् ।तेन गेष्म सुकृतस्य लोकम् स्वर् आरोहन्तः अभि नाकम् उत्तमम् ॥६॥
ajam anajmi payasā ghṛtena divyam suparṇam payasam bṛhantam .tena geṣma sukṛtasya lokam svar ārohantaḥ abhi nākam uttamam ..6..

पञ्चौदनं पञ्चभिरङ्गुलिभिर्दर्व्योद्धर पञ्चधैतमोदनम् ।प्राच्यां दिशि शिरो अजस्य धेहि दक्षिणायां दिशि दक्षिणं धेहि पार्श्वम् ॥७॥
पञ्च-ओदनम् पञ्चभिः अङ्गुलिभिः दर्व्या उद्धर पञ्चधा एतम् ओदनम् ।प्राच्याम् दिशि शिरः अजस्य धेहि दक्षिणायाम् दिशि दक्षिणम् धेहि पार्श्वम् ॥७॥
pañca-odanam pañcabhiḥ aṅgulibhiḥ darvyā uddhara pañcadhā etam odanam .prācyām diśi śiraḥ ajasya dhehi dakṣiṇāyām diśi dakṣiṇam dhehi pārśvam ..7..

प्रतीच्यां दिशि भसदमस्य धेह्युत्तरस्यां दिश्युत्तरं धेहि पार्श्वम् ।ऊर्ध्वायां दिश्यजस्यानूकं धेहि दिशि ध्रुवायां धेहि पाजस्यमन्तरिक्षे मध्यतो मध्यमस्य ॥८॥
प्रतीच्याम् दिशि भसदम् अस्य धेहि उत्तरस्याम् दिशि उत्तरम् धेहि पार्श्वम् ।ऊर्ध्वायाम् दिशि अजस्य अनूकम् धेहि दिशि ध्रुवायाम् धेहि पाजस्यम् अन्तरिक्षे मध्यतस् मध्यमस्य ॥८॥
pratīcyām diśi bhasadam asya dhehi uttarasyām diśi uttaram dhehi pārśvam .ūrdhvāyām diśi ajasya anūkam dhehi diśi dhruvāyām dhehi pājasyam antarikṣe madhyatas madhyamasya ..8..

शृतमजं शृतया प्रोर्णुहि त्वचा सर्वैरङ्गैः संभृतं विश्वरूपम् ।स उत्तिस्ठेतो अभि नाकमुत्तमं पद्भिश्चतुर्भिः प्रति तिष्ठ दिक्षु ॥९॥
शृतम् अजम् शृतया प्रोर्णुहि त्वचा सर्वैः अङ्गैः संभृतम् विश्व-रूपम् ।सः उत्तिस्ठ इतस् अभि नाकम् उत्तमम् पद्भिः चतुर्भिः प्रति तिष्ठ दिक्षु ॥९॥
śṛtam ajam śṛtayā prorṇuhi tvacā sarvaiḥ aṅgaiḥ saṃbhṛtam viśva-rūpam .saḥ uttisṭha itas abhi nākam uttamam padbhiḥ caturbhiḥ prati tiṣṭha dikṣu ..9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In