| |
|

This overlay will guide you through the buttons:

समुत्पतन्तु प्रदिशो नभस्वतीः समभ्राणि वातजूतानि यन्तु ।महऋषभस्य नदतो नभस्वतो वाश्रा आपः पृथिवीं तर्पयन्तु ॥१॥
समुत्पतन्तु प्रदिशः नभस्वतीः समभ्राणि वात-जूतानि यन्तु ।महत्-ऋषभस्य नदतः नभस्वतः वाश्राः आपः पृथिवीम् तर्पयन्तु ॥१॥
samutpatantu pradiśaḥ nabhasvatīḥ samabhrāṇi vāta-jūtāni yantu .mahat-ṛṣabhasya nadataḥ nabhasvataḥ vāśrāḥ āpaḥ pṛthivīm tarpayantu ..1..

समीक्षयन्तु तविषाः सुदानवोऽपां रसा ओषधीभिः सचन्ताम् ।वर्षस्य सर्गा महयन्तु भूमिं पृथग्जायन्तामोषधयो विश्वरूपाः ॥२॥
समीक्षयन्तु तविषाः सुदानवः अपाम् रसाः ओषधीभिः सचन्ताम् ।वर्षस्य सर्गाः महयन्तु भूमिम् पृथक् जायन्ताम् ओषधयः विश्व-रूपाः ॥२॥
samīkṣayantu taviṣāḥ sudānavaḥ apām rasāḥ oṣadhībhiḥ sacantām .varṣasya sargāḥ mahayantu bhūmim pṛthak jāyantām oṣadhayaḥ viśva-rūpāḥ ..2..

समीक्षयस्व गायतो नभांस्यपां वेगासः पृथगुद्विजन्ताम् ।वर्षस्य सर्गा महयन्तु भूमिं पृथग्जायन्तां वीरुधो विश्वरूपाः ॥३॥
समीक्षयस्व गायतः नभांसि अपाम् वेगासः पृथक् उद्विजन्ताम् ।वर्षस्य सर्गाः महयन्तु भूमिम् पृथक् जायन्ताम् वीरुधः विश्व-रूपाः ॥३॥
samīkṣayasva gāyataḥ nabhāṃsi apām vegāsaḥ pṛthak udvijantām .varṣasya sargāḥ mahayantu bhūmim pṛthak jāyantām vīrudhaḥ viśva-rūpāḥ ..3..

गणास्त्वोप गायन्तु मारुताः पर्जन्य घोषिणः पृथक्।सर्गा वर्षस्य वर्षतो वर्षन्तु पृथिवीमनु ॥४॥
गणाः त्वा उप गायन्तु मारुताः पर्जन्य घोषिणः पृथक्।सर्गाः वर्षस्य वर्षतः वर्षन्तु पृथिवीम् अनु ॥४॥
gaṇāḥ tvā upa gāyantu mārutāḥ parjanya ghoṣiṇaḥ pṛthak.sargāḥ varṣasya varṣataḥ varṣantu pṛthivīm anu ..4..

उदीरयत मरुतः समुद्रतस्त्वेषो अर्को नभ उत्पातयाथ ।महऋषभस्य नदतो नभस्वतो वाश्रा आपः पृथिवीं तर्पयन्तु ॥५॥
उदीरयत मरुतः समुद्रतः त्वेषः अर्कः नभः उत्पातयाथ ।महत्-ऋषभस्य नदतः नभस्वतः वाश्राः आपः पृथिवीम् तर्पयन्तु ॥५॥
udīrayata marutaḥ samudrataḥ tveṣaḥ arkaḥ nabhaḥ utpātayātha .mahat-ṛṣabhasya nadataḥ nabhasvataḥ vāśrāḥ āpaḥ pṛthivīm tarpayantu ..5..

अभि क्रन्द स्तनयार्दयोदधिं भूमिं पर्जन्य पयसा समङ्धि ।त्वया सृष्टं बहुलमैतु वर्षमाशारैषी कृशगुरेत्वस्तम् ॥६॥
अभि क्रन्द स्तनय अर्दय उदधिम् भूमिम् पर्जन्य पयसा समङ्धि ।त्वया सृष्टम् बहुलम् ऐतु वर्षम् आशा-रैषी कृश-गुरा एतु अस्तम् ॥६॥
abhi kranda stanaya ardaya udadhim bhūmim parjanya payasā samaṅdhi .tvayā sṛṣṭam bahulam aitu varṣam āśā-raiṣī kṛśa-gurā etu astam ..6..

सं वोऽवन्तु सुदानव उत्सा अजगरा उत ।मरुद्भिः प्रच्युता मेघा वर्षन्तु पृथिवीमनु ॥७॥
सम् वः अवन्तु सुदानवः उत्साः अजगराः उत ।मरुद्भिः प्रच्युताः मेघाः वर्षन्तु पृथिवीम् अनु ॥७॥
sam vaḥ avantu sudānavaḥ utsāḥ ajagarāḥ uta .marudbhiḥ pracyutāḥ meghāḥ varṣantu pṛthivīm anu ..7..

आशामाशां वि द्योततां वाता वान्तु दिशोदिशः ।मरुद्भिः प्रच्युता मेघाः सं यन्तु पृथिवीमनु ॥८॥
आशाम् आशाम् वि द्योतताम् वाताः वान्तु दिशः दिशः ।मरुद्भिः प्रच्युताः मेघाः सम् यन्तु पृथिवीम् अनु ॥८॥
āśām āśām vi dyotatām vātāḥ vāntu diśaḥ diśaḥ .marudbhiḥ pracyutāḥ meghāḥ sam yantu pṛthivīm anu ..8..

आपो विद्युदभ्रं वर्षं सं वोऽवन्तु सुदानव उत्सा अजगरा उत ।मरुद्भिः प्रच्युता मेघाः प्रावन्तु पृथिवीमनु ॥९॥
आपः विद्युत् अभ्रम् वर्षम् सम् वः अवन्तु सुदानवः उत्साः अजगराः उत ।मरुद्भिः प्रच्युताः मेघाः प्रावन्तु पृथिवीम् अनु ॥९॥
āpaḥ vidyut abhram varṣam sam vaḥ avantu sudānavaḥ utsāḥ ajagarāḥ uta .marudbhiḥ pracyutāḥ meghāḥ prāvantu pṛthivīm anu ..9..

अपामग्निस्तनूभिः संविदानो य ओषधीनामधिपा बभूव ।स नो वर्षं वनुतां जातवेदाः प्राणं प्रजाभ्यो अमृतं दिवस्परि ॥१०॥
अपाम् अग्निः तनूभिः संविदानः यः ओषधीनाम् अधिपाः बभूव ।स नः वर्षम् वनुताम् जातवेदाः प्राणम् प्रजाभ्यः अमृतम् दिवः परि ॥१०॥
apām agniḥ tanūbhiḥ saṃvidānaḥ yaḥ oṣadhīnām adhipāḥ babhūva .sa naḥ varṣam vanutām jātavedāḥ prāṇam prajābhyaḥ amṛtam divaḥ pari ..10..

प्रजापतिः सलिलादा समुद्रादाप ईरयन्न् उदधिमर्दयाति ।प्र प्यायतां वृष्णो अश्वस्य रेतोऽर्वान् एतेन स्तनयित्नुनेहि ॥११॥
प्रजापतिः सलिलात् आ समुद्रात् अपः ईरयन् उदधिम् अर्दयाति ।प्र प्यायताम् वृष्णः अश्वस्य रेतः-अर्वान् एतेन स्तनयित्नुना इहि ॥११॥
prajāpatiḥ salilāt ā samudrāt apaḥ īrayan udadhim ardayāti .pra pyāyatām vṛṣṇaḥ aśvasya retaḥ-arvān etena stanayitnunā ihi ..11..

अपो निषिञ्चन्न् असुरः पिता नः श्वसन्तु गर्गरा अपां वरुणाव नीचीरपः सृज ।वदन्तु पृश्निबाहवो मण्डूका इरिणानु ॥१२॥
अपः निषिञ्चन् असुरः पिता नः श्वसन्तु गर्गराः अपाम् वरुण अव नीचीः अपः सृज ।वदन्तु पृश्नि-बाहवः मण्डूकाः इरिणा अनु ॥१२॥
apaḥ niṣiñcan asuraḥ pitā naḥ śvasantu gargarāḥ apām varuṇa ava nīcīḥ apaḥ sṛja .vadantu pṛśni-bāhavaḥ maṇḍūkāḥ iriṇā anu ..12..

संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः ।वाचं पर्जन्यजिन्वितां प्र मण्डूका अवादिषुः ॥१३॥
संवत्सरम् शशयानाः ब्राह्मणाः व्रत-चारिणः ।वाचम् पर्जन्य-जिन्विताम् प्र मण्डूकाः अवादिषुः ॥१३॥
saṃvatsaram śaśayānāḥ brāhmaṇāḥ vrata-cāriṇaḥ .vācam parjanya-jinvitām pra maṇḍūkāḥ avādiṣuḥ ..13..

उपप्रवद मण्डूकि वर्षमा वद तादुरि ।मध्ये ह्रदस्य प्लवस्व विगृह्य चतुरः पदः ॥१४॥
उपप्रवद मण्डूकि वर्षमा वद तादुरि ।मध्ये ह्रदस्य प्लवस्व विगृह्य चतुरः पदः ॥१४॥
upapravada maṇḍūki varṣamā vada tāduri .madhye hradasya plavasva vigṛhya caturaḥ padaḥ ..14..

खण्वखा३ खैमखा३ मध्ये तदुरि ।वर्षं वनुध्वं पितरो मरुतां मन इच्छत ॥१५॥
खण्वखः खैमखः मध्ये तदुरि ।वर्षम् वनुध्वम् पितरः मरुताम् मनः इच्छत ॥१५॥
khaṇvakhaḥ khaimakhaḥ madhye taduri .varṣam vanudhvam pitaraḥ marutām manaḥ icchata ..15..

महान्तं कोशमुदचाभि षिञ्च सविद्युतं भवतु वातु वातः ।तन्वतां यज्ञं बहुधा विसृष्टा आनन्दिनीरोषधयो भवन्तु ॥१६॥
महान्तम् कोशम् उदचा अभि सिञ्च सविद्युतम् भवतु वातु वातः ।तन्वताम् यज्ञम् बहुधा विसृष्टाः आनन्दिनीः ओषधयः भवन्तु ॥१६॥
mahāntam kośam udacā abhi siñca savidyutam bhavatu vātu vātaḥ .tanvatām yajñam bahudhā visṛṣṭāḥ ānandinīḥ oṣadhayaḥ bhavantu ..16..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In