| |
|

This overlay will guide you through the buttons:

बृहन्न् एषामधिष्ठाता अन्तिकादिव पश्यति ।य स्तायन् मन्यते चरन्त्सर्वं देवा इदं विदुः ॥१॥
बृहन् एषाम् अधिष्ठाता अन्तिकात् इव पश्यति ।यः स्तायन् मन्यते चरन् सर्वम् देवाः इदम् विदुः ॥१॥
bṛhan eṣām adhiṣṭhātā antikāt iva paśyati .yaḥ stāyan manyate caran sarvam devāḥ idam viduḥ ..1..

यस्तिष्ठति चरति यश्च वञ्चति यो निलायं चरति यः प्रतङ्कम् ।द्वौ संनिषद्य यन् मन्त्रयेते राजा तद्वेद वरुणस्तृतीयः ॥२॥
यः तिष्ठति चरति यः च वञ्चति यः निलायम् चरति यः प्रतङ्कम् ।द्वौ संनिषद्य यत् मन्त्रयेते राजा तत् वेद वरुणः तृतीयः ॥२॥
yaḥ tiṣṭhati carati yaḥ ca vañcati yaḥ nilāyam carati yaḥ prataṅkam .dvau saṃniṣadya yat mantrayete rājā tat veda varuṇaḥ tṛtīyaḥ ..2..

उतेयं भूमिर्वरुणस्य राज्ञ उतासौ द्यौर्बृहती दूरेअन्ता ।उतो समुद्रौ वरुणस्य कुक्षी उतास्मिन्न् अल्प उदके निलीनः ॥३॥
उत इयम् भूमिः वरुणस्य राज्ञः उत असौ द्यौः बृहती दूरेअन्ता ।उत उ समुद्रौ वरुणस्य कुक्षी उत अस्मिन् अल्पे उदके निलीनः ॥३॥
uta iyam bhūmiḥ varuṇasya rājñaḥ uta asau dyauḥ bṛhatī dūreantā .uta u samudrau varuṇasya kukṣī uta asmin alpe udake nilīnaḥ ..3..

उत यो द्यामतिसर्पात्परस्तान् न स मुच्यातै वरुणस्य राज्ञः ।दिव स्पशः प्र चरन्तीदमस्य सहस्राक्षा अति पश्यन्ति भूमिम् ॥४॥
उत यः द्याम् अतिसर्पात् परस्तात् न स मुच्यातै वरुणस्य राज्ञः ।दिवः स्पशः प्र चरन्ति इदमस्य सहस्र-अक्षाः अति पश्यन्ति भूमिम् ॥४॥
uta yaḥ dyām atisarpāt parastāt na sa mucyātai varuṇasya rājñaḥ .divaḥ spaśaḥ pra caranti idamasya sahasra-akṣāḥ ati paśyanti bhūmim ..4..

सर्वं तद्राजा वरुणो वि चष्टे यदन्तरा रोदसी यत्परस्तात्।संख्याता अस्य निमिषो जनानामक्षान् इव श्वघ्नी नि मिनोति तानि ॥५॥
सर्वम् तत् राजा वरुणः वि चष्टे यत् अन्तरा रोदसी यत् परस्तात्।संख्याताः अस्य निमिषः जनानाम् अक्षान् इव श्वघ्नी नि मिनोति तानि ॥५॥
sarvam tat rājā varuṇaḥ vi caṣṭe yat antarā rodasī yat parastāt.saṃkhyātāḥ asya nimiṣaḥ janānām akṣān iva śvaghnī ni minoti tāni ..5..

ये ते पाशा वरुण सप्तसप्त त्रेधा तिष्ठन्ति विषिता रुषन्तः ।छिनन्तु सर्वे अनृतं वदन्तं यः सत्यवाद्यति तं सृजन्तु ॥६॥
ये ते पाशाः वरुण सप्त-सप्त त्रेधा तिष्ठन्ति विषिताः रुषन्तः ।छिनन्तु सर्वे अनृतम् वदन्तम् यः सत्य-वाद्यति तम् सृजन्तु ॥६॥
ye te pāśāḥ varuṇa sapta-sapta tredhā tiṣṭhanti viṣitāḥ ruṣantaḥ .chinantu sarve anṛtam vadantam yaḥ satya-vādyati tam sṛjantu ..6..

शतेन पाशैरभि धेहि वरुणैनं मा ते मोच्यनृतवाङ्नृचक्षः ।आस्तां जाल्म उदरं श्रंशयित्वा कोश इवाबन्धः परिकृत्यमानः ॥७॥
शतेन पाशैः अभि धेहि वरुण एनम् मा ते मोचि अनृत-वाच् नृ-चक्षः ।आस्ताम् जाल्मः उदरम् श्रंशयित्वा कोशे इव आबन्धः परिकृत्यमानः ॥७॥
śatena pāśaiḥ abhi dhehi varuṇa enam mā te moci anṛta-vāc nṛ-cakṣaḥ .āstām jālmaḥ udaram śraṃśayitvā kośe iva ābandhaḥ parikṛtyamānaḥ ..7..

यः समाभ्यो वरुणो यो व्याभ्यो यः संदेश्यो वरुणो यो विदेश्यो ।यो दैवो वरुणो यश्च मानुषः ॥८॥
यः समाभ्यः वरुणः यः व्याभ्यः यः संदेश्यः वरुणः यः विदेश्यः ।यः दैवः वरुणः यः च मानुषः ॥८॥
yaḥ samābhyaḥ varuṇaḥ yaḥ vyābhyaḥ yaḥ saṃdeśyaḥ varuṇaḥ yaḥ videśyaḥ .yaḥ daivaḥ varuṇaḥ yaḥ ca mānuṣaḥ ..8..

तैस्त्वा सर्वैरभि ष्यामि पाशैरसावामुष्यायणामुष्याः पुत्र ।तान् उ ते सर्वान् अनुसंदिशामि ॥९॥
तैः त्वा सर्वैः अभि स्यामि पाशैः असौ आमुष्यायण अमुष्याः पुत्र ।तान् उ ते सर्वान् अनुसंदिशामि ॥९॥
taiḥ tvā sarvaiḥ abhi syāmi pāśaiḥ asau āmuṣyāyaṇa amuṣyāḥ putra .tān u te sarvān anusaṃdiśāmi ..9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In