| |
|

This overlay will guide you through the buttons:

ईशाणां त्वा भेषजानामुज्जेष आ रभामहे ।चक्रे सहस्रवीर्यं सर्वस्मा ओषधे त्वा ॥१॥
ईशानाम् त्वा भेषजानाम् उज्जेषे आ रभामहे ।चक्रे सहस्र-वीर्यम् सर्वस्मै ओषधे त्वा ॥१॥
īśānām tvā bheṣajānām ujjeṣe ā rabhāmahe .cakre sahasra-vīryam sarvasmai oṣadhe tvā ..1..

सत्यजितं शपथयावनीं सहमानां पुनःसराम् ।सर्वाः समह्व्योषधीरितो नः पारयादिति ॥२॥
सत्य-जितम् शपथ-यावनीम् सहमानाम् पुनःसराम् ।सर्वाः समह्व्यै ओषधीः इतस् नः पारयात् इति ॥२॥
satya-jitam śapatha-yāvanīm sahamānām punaḥsarām .sarvāḥ samahvyai oṣadhīḥ itas naḥ pārayāt iti ..2..

या शशाप शपनेन याघं मूरमादधे ।या रसस्य हरणाय जातमारेभे तोकमत्तु सा ॥३॥
या शशाप शपनेन या अघम् मूरम् आदधे ।या रसस्य हरणाय जातम् आरेभे तोकम् अत्तु सा ॥३॥
yā śaśāpa śapanena yā agham mūram ādadhe .yā rasasya haraṇāya jātam ārebhe tokam attu sā ..3..

यां ते चक्रुरामे पात्रे यां चक्रुर्नीललोहिते ।आमे मांसे कृत्यां यां चक्रुस्तया कृत्याकृतो जहि ॥४॥
याम् ते चक्रुः आमे पात्रे याम् चक्रुः नील-लोहिते ।आमे मांसे कृत्याम् याम् चक्रुः तया कृत्या-कृतः जहि ॥४॥
yām te cakruḥ āme pātre yām cakruḥ nīla-lohite .āme māṃse kṛtyām yām cakruḥ tayā kṛtyā-kṛtaḥ jahi ..4..

दौष्वप्न्यं दौर्जीवित्यं रक्षो अभ्वमराय्यः ।दुर्णाम्नीः सर्वा दुर्वाचस्ता अस्मन् नाशयामसि ॥५॥
दौष्वप्न्यम् दौर्जीवित्यम् रक्षः अभ्व-मराय्यः ।दुर्णाम्नीः सर्वाः दुर्वाचः ताः अस्मत् नाशयामसि ॥५॥
dauṣvapnyam daurjīvityam rakṣaḥ abhva-marāyyaḥ .durṇāmnīḥ sarvāḥ durvācaḥ tāḥ asmat nāśayāmasi ..5..

क्षुधामारं तृष्णामारमगोतामनपत्यताम् ।अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥६॥
क्षुधा-मारम् तृष्णा-मारम् अ गो-ताम् अन् अपत्य-ताम् ।अपामार्ग त्वया वयम् सर्वम् तत् अप मृज्महे ॥६॥
kṣudhā-māram tṛṣṇā-māram a go-tām an apatya-tām .apāmārga tvayā vayam sarvam tat apa mṛjmahe ..6..

तृष्णामारं क्षुधामारमथो अक्षपराजयम् ।अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥७॥
तृष्णा-मारम् क्षुधा-मारम् अथो अक्ष-पराजयम् ।अपामार्ग त्वया वयम् सर्वम् तत् अप मृज्महे ॥७॥
tṛṣṇā-māram kṣudhā-māram atho akṣa-parājayam .apāmārga tvayā vayam sarvam tat apa mṛjmahe ..7..

अपामार्ग ओषधीनां सर्वासामेक इद्वशी ।तेन ते मृज्म आस्थितमथ त्वमगदश्चर ॥८॥
अपामार्गः ओषधीनाम् सर्वासाम् एकः इद् वशी ।तेन ते मृज्मः आस्थितम् अथ त्वम् अगदः चर ॥८॥
apāmārgaḥ oṣadhīnām sarvāsām ekaḥ id vaśī .tena te mṛjmaḥ āsthitam atha tvam agadaḥ cara ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In