| |
|

This overlay will guide you through the buttons:

समं ज्योतिः सूर्येणाह्ना रात्री समावती ।कृणोमि सत्यमूतयेऽरसाः सन्तु कृत्वरीः ॥१॥
समम् ज्योतिः सूर्येण अह्ना रात्री समावती ।कृणोमि सत्यम् ऊतये अरसाः सन्तु कृत्वरीः ॥१॥
samam jyotiḥ sūryeṇa ahnā rātrī samāvatī .kṛṇomi satyam ūtaye arasāḥ santu kṛtvarīḥ ..1..

यो देवाः कृत्यां कृत्वा हरादविदुषो गृहम् ।वत्सो धारुरिव मातरं तं प्रत्यगुप पद्यताम् ॥२॥
यः देवाः कृत्याम् कृत्वा हरात् अ विदुषः गृहम् ।वत्सः धारुः इव मातरम् तम् प्रत्यक् उप पद्यताम् ॥२॥
yaḥ devāḥ kṛtyām kṛtvā harāt a viduṣaḥ gṛham .vatsaḥ dhāruḥ iva mātaram tam pratyak upa padyatām ..2..

अमा कृत्वा पाप्मानं यस्तेनान्यं जिघांसति ।अश्मानस्तस्यां दग्धायां बहुलाः फट्करिक्रति ॥३॥
अमा कृत्वा पाप्मानम् यः तेन अन्यम् जिघांसति ।अश्मानः तस्याम् दग्धायाम् बहुलाः फट् करिक्रति ॥३॥
amā kṛtvā pāpmānam yaḥ tena anyam jighāṃsati .aśmānaḥ tasyām dagdhāyām bahulāḥ phaṭ karikrati ..3..

सहस्रधामन् विशिखान् विग्रीवां छायया त्वम् ।प्रति स्म चक्रुषे कृत्यां प्रियां प्रियावते हर ॥४॥
सहस्र-धामन् विशिखान् विग्रीवाम् छायय त्वम् ।प्रति स्म चक्रुषे कृत्याम् प्रियाम् प्रियावते हर ॥४॥
sahasra-dhāman viśikhān vigrīvām chāyaya tvam .prati sma cakruṣe kṛtyām priyām priyāvate hara ..4..

अनयाहमोषध्या सर्वाः कृत्या अदूदुषम् ।यां क्षेत्रे चक्रुर्यां गोषु यां वा ते पुरुषेषु ॥५॥
अनया अहम् ओषध्या सर्वाः कृत्याः अदूदुषम् ।याम् क्षेत्रे चक्रुः याम् गोषु याम् वा ते पुरुषेषु ॥५॥
anayā aham oṣadhyā sarvāḥ kṛtyāḥ adūduṣam .yām kṣetre cakruḥ yām goṣu yām vā te puruṣeṣu ..5..

यश्चकार न शशाक कर्तुं शश्रे पादमङ्गुरिम् ।चकार भद्रमस्मभ्यमात्मने तपनं तु सः ॥६॥
यः चकार न शशाक कर्तुम् शश्रे पादम् अङ्गुरिम् ।चकार भद्रम् अस्मभ्यम् आत्मने तपनम् तु सः ॥६॥
yaḥ cakāra na śaśāka kartum śaśre pādam aṅgurim .cakāra bhadram asmabhyam ātmane tapanam tu saḥ ..6..

अपामार्गोऽप मार्ष्टु क्षेत्रियं शपथश्च यः ।अपाह यातुधानीरप सर्वा अराय्यः ॥७॥
अपामार्गः अप मार्ष्टु क्षेत्रियम् शपथः च यः ।अप अह यातुधानीः अप सर्वाः अराय्यः ॥७॥
apāmārgaḥ apa mārṣṭu kṣetriyam śapathaḥ ca yaḥ .apa aha yātudhānīḥ apa sarvāḥ arāyyaḥ ..7..

अपमृज्य यातुधानान् अप सर्वा अराय्यः ।अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥८॥
अपमृज्य यातुधानान् अप सर्वाः अराय्यः ।अपामार्ग त्वया वयम् सर्वम् तत् अप मृज्महे ॥८॥
apamṛjya yātudhānān apa sarvāḥ arāyyaḥ .apāmārga tvayā vayam sarvam tat apa mṛjmahe ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In