| |
|

This overlay will guide you through the buttons:

उतो अस्यबन्धुकृदुतो असि नु जामिकृत्।उतो कृत्याकृतः प्रजां नदमिवा छिन्धि वार्षिकम् ॥१॥
उत उ असि अबन्धु-कृत् उत उ असि नु जामि-कृत्।उत उ कृत्या-कृतः प्रजाम् नदम् इव आ छिन्द्धि वार्षिकम् ॥१॥
uta u asi abandhu-kṛt uta u asi nu jāmi-kṛt.uta u kṛtyā-kṛtaḥ prajām nadam iva ā chinddhi vārṣikam ..1..

ब्राह्मणेन पर्युक्तासि कण्वेन नार्षदेन ।सेनेवैषि त्विषीमती न तत्र भयमस्ति यत्र प्राप्नोष्योषधे ॥२॥
ब्राह्मणेन पर्युक्ता असि कण्वेन नार्षदेन ।सेना इव एषि त्विषीमती न तत्र भयम् अस्ति यत्र प्राप्नोषि ओषधे ॥२॥
brāhmaṇena paryuktā asi kaṇvena nārṣadena .senā iva eṣi tviṣīmatī na tatra bhayam asti yatra prāpnoṣi oṣadhe ..2..

अग्रमेष्योषधीनां ज्योतिषेवाभिदीपयन् ।उत त्रातासि पाकस्याथो हन्तासि रक्षसः ॥३॥
अग्रमेषि-ओषधीनाम् ज्योतिषा इव अभिदीपयन् ।उत त्राता असि पाकस्य अथ उ हन्ता असि रक्षसः ॥३॥
agrameṣi-oṣadhīnām jyotiṣā iva abhidīpayan .uta trātā asi pākasya atha u hantā asi rakṣasaḥ ..3..

यददो देवा असुरांस्त्वयाग्रे निरकुर्वत ।ततस्त्वमध्योषधेऽपामार्गो अजायथाः ॥४॥
यत् अदः देवाः असुरान् त्वया अग्रे निरकुर्वत ।ततस् त्वम् अध्योषधे अपामार्गः अजायथाः ॥४॥
yat adaḥ devāḥ asurān tvayā agre nirakurvata .tatas tvam adhyoṣadhe apāmārgaḥ ajāyathāḥ ..4..

विभिन्दती शतशाखा विभिन्दन् नाम ते पिता ।प्रत्यग्वि भिन्धि त्वं तं यो अस्मामभिदासति ॥५॥
विभिन्दती शत-शाखा विभिन्दन् नाम ते पिता ।प्रत्यग्वि भिन्धि त्वम् तम् यः अस्माम् अभिदासति ॥५॥
vibhindatī śata-śākhā vibhindan nāma te pitā .pratyagvi bhindhi tvam tam yaḥ asmām abhidāsati ..5..

असद्भूम्याः समभवत्तद्यामेति महद्व्यचः ।तद्वै ततो विधूपायत्प्रत्यक्कर्तारमृच्छतु ॥६॥
असत् भूम्याः समभवत् तत् याम इति महत् व्यचः ।तत् वै ततस् विधूपायत् प्रत्यक् कर्तारम् ऋच्छतु ॥६॥
asat bhūmyāḥ samabhavat tat yāma iti mahat vyacaḥ .tat vai tatas vidhūpāyat pratyak kartāram ṛcchatu ..6..

प्रत्यङ्हि संबभूविथ प्रतीचीनफलस्त्वम् ।सर्वान् मच्छपथामधि वरीयो यावया वधम् ॥७॥
प्रत्यङ् हि संबभूविथ प्रतीचीन-फलः त्वम् ।सर्वान् मत् शपथाम् अधि वरीयः यावय वधम् ॥७॥
pratyaṅ hi saṃbabhūvitha pratīcīna-phalaḥ tvam .sarvān mat śapathām adhi varīyaḥ yāvaya vadham ..7..

शतेन मा परि पाहि सहस्रेणाभि रक्षा मा ।इन्द्रस्ते वीरुधां पत उग्र ओज्मानमा दधत्॥८॥
शतेन मा परि पाहि सहस्रेण अभि रक्ष मा ।इन्द्रः ते वीरुधाम् पते उग्रः ओज्मानम् आ दधत्॥८॥
śatena mā pari pāhi sahasreṇa abhi rakṣa mā .indraḥ te vīrudhām pate ugraḥ ojmānam ā dadhat..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In