| |
|

This overlay will guide you through the buttons:

य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः ।योऽस्येशे द्विपदो यश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥१॥
यः आत्म-दाः बल-दाः यस्य विश्वे उपासते प्रशिषम् यस्य देवाः ।यः अस्य ईशे द्विपदः यः चतुष्पदः कस्मै देवाय हविषा विधेम ॥१॥
yaḥ ātma-dāḥ bala-dāḥ yasya viśve upāsate praśiṣam yasya devāḥ .yaḥ asya īśe dvipadaḥ yaḥ catuṣpadaḥ kasmai devāya haviṣā vidhema ..1..

यः प्राणतो निमिषतो महित्वैको राजा जगतो बभूव ।यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥२॥
यः प्राणतः निमिषतः महित्वा एकः राजा जगतः बभूव ।यस्य छाया अमृतम् यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥२॥
yaḥ prāṇataḥ nimiṣataḥ mahitvā ekaḥ rājā jagataḥ babhūva .yasya chāyā amṛtam yasya mṛtyuḥ kasmai devāya haviṣā vidhema ..2..

यं क्रन्दसी अवतश्चस्कभाने भियसाने रोदसी अह्वयेथाम् ।यस्यासौ पन्था रजसो विमानः कस्मै देवाय हविषा विधेम ॥३॥
यम् क्रन्दसी अवतः चस्कभाने भियसाने रोदसी अह्वयेथाम् ।यस्य असौ पन्थाः रजसः विमानः कस्मै देवाय हविषा विधेम ॥३॥
yam krandasī avataḥ caskabhāne bhiyasāne rodasī ahvayethām .yasya asau panthāḥ rajasaḥ vimānaḥ kasmai devāya haviṣā vidhema ..3..

यस्य द्यौरुर्वी पृथिवी च मही यस्याद उर्वन्तरिक्षम् ।यस्यासौ सूरो विततो महित्वा कस्मै देवाय हविषा विधेम ॥४॥
यस्य द्यौः उर्वी पृथिवी च मही यस्य अदः उरु अन्तरिक्षम् ।यस्य असौ सूरः विततः महित्वा कस्मै देवाय हविषा विधेम ॥४॥
yasya dyauḥ urvī pṛthivī ca mahī yasya adaḥ uru antarikṣam .yasya asau sūraḥ vitataḥ mahitvā kasmai devāya haviṣā vidhema ..4..

यस्य विश्वे हिमवन्तो महित्वा समुद्रे यस्य रसामिदाहुः ।इमाश्च प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥५॥
यस्य विश्वे हिमवन्तः महित्वा समुद्रे यस्य रसामिध् आहुः ।इमाः च प्रदिशः यस्य बाहू कस्मै देवाय हविषा विधेम ॥५॥
yasya viśve himavantaḥ mahitvā samudre yasya rasāmidh āhuḥ .imāḥ ca pradiśaḥ yasya bāhū kasmai devāya haviṣā vidhema ..5..

आपो अग्रे विश्वमावन् गर्भं दधाना अमृता ऋतज्ञाः ।यासु देवीष्वधि देव आसीत्कस्मै देवाय हविषा विधेम ॥६॥
आपः अग्रे विश्वम् आवन् गर्भम् दधानाः अमृताः ऋत-ज्ञाः ।यासु देवीषु अधि देवः आसीत् कस्मै देवाय हविषा विधेम ॥६॥
āpaḥ agre viśvam āvan garbham dadhānāḥ amṛtāḥ ṛta-jñāḥ .yāsu devīṣu adhi devaḥ āsīt kasmai devāya haviṣā vidhema ..6..

हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्।स दाधार पृथिवीमुत द्यां कस्मै देवाय हविषा विधेम ॥७॥
हिरण्य-गर्भः समवर्तत अग्रे भूतस्य जातः पतिः एकः आसीत्।स दाधार पृथिवीम् उत द्याम् कस्मै देवाय हविषा विधेम ॥७॥
hiraṇya-garbhaḥ samavartata agre bhūtasya jātaḥ patiḥ ekaḥ āsīt.sa dādhāra pṛthivīm uta dyām kasmai devāya haviṣā vidhema ..7..

आपो वत्सं जनयन्तीर्गर्भमग्रे समैरयन् ।तस्योत जायमानस्योल्ब आसीद्धिरण्ययः कस्मै देवाय हविषा विधेम ॥८॥
आपः वत्सम् जनयन्तीः गर्भम् अग्रे समैरयन् ।तस्य उत जायमानस्य उल्बः आसीत् हिरण्ययः कस्मै देवाय हविषा विधेम ॥८॥
āpaḥ vatsam janayantīḥ garbham agre samairayan .tasya uta jāyamānasya ulbaḥ āsīt hiraṇyayaḥ kasmai devāya haviṣā vidhema ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In