| |
|

This overlay will guide you through the buttons:

आ पश्यति प्रति पश्यति परा पश्यति पश्यति ।दिवमन्तरिक्षमाद्भूमिं सर्वं तद्देवि पश्यति ॥१॥
आ पश्यति प्रति पश्यति परा पश्यति पश्यति ।दिवम् अन्तरिक्षम् आत् भूमिम् सर्वम् तत् देवि पश्यति ॥१॥
ā paśyati prati paśyati parā paśyati paśyati .divam antarikṣam āt bhūmim sarvam tat devi paśyati ..1..

तिस्रो दिवस्तिस्रः पृथिवीः षट्चेमाः प्रदिशाः पृथक्।त्वयाहं सर्वा भूतानि पश्यानि देव्योषधे ॥२॥
तिस्रः दिवः तिस्रः पृथिवीः षड् च इमाः प्रदिशाः पृथक्।त्वया अहम् सर्वा भूतानि पश्यानि देवि ओषधे ॥२॥
tisraḥ divaḥ tisraḥ pṛthivīḥ ṣaḍ ca imāḥ pradiśāḥ pṛthak.tvayā aham sarvā bhūtāni paśyāni devi oṣadhe ..2..

दिव्यस्य सुपर्णस्य तस्य हासि कनीनिका ।सा भूमिमा रुरोहिथ वह्यं श्रान्ता वधूरिव ॥३॥
दिव्यस्य सुपर्णस्य तस्य ह असि कनीनिका ।सा रुरोहिथ वह्यम् श्रान्ता वधूः इव ॥३॥
divyasya suparṇasya tasya ha asi kanīnikā .sā rurohitha vahyam śrāntā vadhūḥ iva ..3..

तां मे सहस्राक्षो देवो दक्षिणे हस्त आ दधत्।तयाहं सर्वं पश्यामि यश्च शूद्र उतार्यः ॥४॥
ताम् मे सहस्राक्षः देवः दक्षिणे हस्ते आ दधत्।तया अहम् सर्वम् पश्यामि यः च शूद्रः उत आर्यः ॥४॥
tām me sahasrākṣaḥ devaḥ dakṣiṇe haste ā dadhat.tayā aham sarvam paśyāmi yaḥ ca śūdraḥ uta āryaḥ ..4..

आविष्कृणुष्व रूपानि मात्मानमप गूहथाः ।अथो सहस्रचक्षो त्वं प्रति पश्याः किमीदिनः ॥५॥
आविष्कृणुष्व रूपानि मा आत्मानम् अप गूहथाः ।अथो सहस्र-चक्षो त्वम् प्रति पश्याः किमीदिनः ॥५॥
āviṣkṛṇuṣva rūpāni mā ātmānam apa gūhathāḥ .atho sahasra-cakṣo tvam prati paśyāḥ kimīdinaḥ ..5..

दर्शय मा यातुधानान् दर्शय यातुधान्यः ।पिशाचान्त्सर्वान् दर्शयेति त्वा रभ ओषधे ॥६॥
दर्शय मा यातुधानान् दर्शय यातुधान्यः ।पिशाचान् सर्वान् दर्शय इति त्वा रभे ओषधे ॥६॥
darśaya mā yātudhānān darśaya yātudhānyaḥ .piśācān sarvān darśaya iti tvā rabhe oṣadhe ..6..

कश्यपस्य चक्षुरसि शुन्याश्च चतुरक्ष्याः ।वीध्रे सूर्यमिव सर्पन्तं मा पिशाचं तिरस्करः ॥७॥
कश्यपस्य चक्षुः असि शुन्याः च चतुर्-अक्ष्याः ।वीध्रे सूर्यम् इव सर्पन्तम् मा पिशाचम् तिरस्करः ॥७॥
kaśyapasya cakṣuḥ asi śunyāḥ ca catur-akṣyāḥ .vīdhre sūryam iva sarpantam mā piśācam tiraskaraḥ ..7..

उदग्रभं परिपाणाद्यातुधानं किमीदिनम् ।तेनाहं सर्वं पश्याम्युत शूद्रमुतार्यम् ॥८॥
उदग्रभम् परिपाणात् यातुधानम् किमीदिनम् ।तेन अहम् सर्वम् पश्यामि उत शूद्रम् उत आर्यम् ॥८॥
udagrabham paripāṇāt yātudhānam kimīdinam .tena aham sarvam paśyāmi uta śūdram uta āryam ..8..

यो अन्तरिक्षेण पतति दिवं यश्च अतिसर्पति ।भूमिं यो मन्यते नाथं तं पिशाचं प्र दर्शय ॥९॥
यः अन्तरिक्षेण पतति दिवम् यः च अतिसर्पति ।भूमिम् यः मन्यते नाथम् तम् पिशाचम् प्र दर्शय ॥९॥
yaḥ antarikṣeṇa patati divam yaḥ ca atisarpati .bhūmim yaḥ manyate nātham tam piśācam pra darśaya ..9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In