| |
|

This overlay will guide you through the buttons:

आ गावो अग्मन्न् उत भद्रमक्रन्त्सीदन्तु गोष्ठे रणयन्त्वस्मे ।प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः ॥१॥
आ गावः अग्मन् उत भद्रम् अक्रन् सीदन्तु गोष्ठे रणयन्तु अस्मे ।प्रजावतीः पुरु-रूपाः इह स्युः इन्द्राय पूर्वीः उषसः दुहानाः ॥१॥
ā gāvaḥ agman uta bhadram akran sīdantu goṣṭhe raṇayantu asme .prajāvatīḥ puru-rūpāḥ iha syuḥ indrāya pūrvīḥ uṣasaḥ duhānāḥ ..1..

इन्द्रो यज्वने गृणते च शिक्षत उपेद्ददाति न स्वं मुषायति ।भूयोभूयो रयिमिदस्य वर्धयन्न् अभिन्ने खिल्ये नि दधाति देवयुम् ॥२॥
इन्द्रः यज्वने गृणते च शिक्षते उप इद् ददाति न स्वम् मुषायति ।भूयस् भूयस् रयिमिदस्य वर्धयन् अभिन्ने खिल्ये नि दधाति देवयुम् ॥२॥
indraḥ yajvane gṛṇate ca śikṣate upa id dadāti na svam muṣāyati .bhūyas bhūyas rayimidasya vardhayan abhinne khilye ni dadhāti devayum ..2..

न ता नशन्ति न दभाति तस्करो नासामामित्रो व्यथिरा दधर्षति ।देवांश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सह ॥३॥
न ताः नशन्ति न दभाति तस्करः न आसाम् आमित्रः व्यथिरा दधर्षति ।देवान् च याभिः यजते ददाति च ज्योक् इद् ताभिः सचते गोपतिः सह ॥३॥
na tāḥ naśanti na dabhāti taskaraḥ na āsām āmitraḥ vyathirā dadharṣati .devān ca yābhiḥ yajate dadāti ca jyok id tābhiḥ sacate gopatiḥ saha ..3..

न ता अर्वा रेणुककाटोऽश्नुते न संस्कृतत्रमुप यन्ति ता अभि ।उरुगायमभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः ॥४॥
न ताः अर्वा रेणु-ककाटः अश्नुते न संस्कृतत्रम् उप यन्ति ताः अभि ।उरु-गायम् अभयम् तस्य ताः अनु गावः मर्तस्य वि चरन्ति यज्वनः ॥४॥
na tāḥ arvā reṇu-kakāṭaḥ aśnute na saṃskṛtatram upa yanti tāḥ abhi .uru-gāyam abhayam tasya tāḥ anu gāvaḥ martasya vi caranti yajvanaḥ ..4..

गावो भगो गाव इन्द्रो म इछाद्गाव सोमस्य प्रथमस्य भक्षः ।इमा या गावः स जनास इन्द्र इछामि हृदा मनसा चिदिन्द्रम् ॥५॥
गावः भगः गावः इन्द्रः मे इछात् गावः सोमस्य प्रथमस्य भक्षः ।इमाः याः गावः स जनासः इन्द्रः इछामि हृदा मनसा चित् इन्द्रम् ॥५॥
gāvaḥ bhagaḥ gāvaḥ indraḥ me ichāt gāvaḥ somasya prathamasya bhakṣaḥ .imāḥ yāḥ gāvaḥ sa janāsaḥ indraḥ ichāmi hṛdā manasā cit indram ..5..

यूयं गावो मेदयथ कृशं चिदश्रीरं चित्कृणुथा सुप्रतीकम् ।भद्रं गृहं कृणुथ भद्रवाचो बृहद्वो वय उच्यते सभासु ॥६॥
यूयम् गावः मेदयथ कृशम् चित् अश्रीरम् चित् कृणुथ सु प्रतीकम् ।भद्रम् गृहम् कृणुथ भद्र-वाचः बृहत् वः वयः उच्यते सभासु ॥६॥
yūyam gāvaḥ medayatha kṛśam cit aśrīram cit kṛṇutha su pratīkam .bhadram gṛham kṛṇutha bhadra-vācaḥ bṛhat vaḥ vayaḥ ucyate sabhāsu ..6..

प्रजावतीः सूयवसे रुशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः ।मा व स्तेन ईशत माघशंसः परि वो रुद्रस्य हेतिर्वृणक्तु ॥७॥
प्रजावतीः सूयवसे रुशन्तीः शुद्धाः अपः सु प्रपाणे पिबन्तीः ।मा वः स्तेनः ईशत मा अघ-शंसः परि वः रुद्रस्य हेतिः वृणक्तु ॥७॥
prajāvatīḥ sūyavase ruśantīḥ śuddhāḥ apaḥ su prapāṇe pibantīḥ .mā vaḥ stenaḥ īśata mā agha-śaṃsaḥ pari vaḥ rudrasya hetiḥ vṛṇaktu ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In