| |
|

This overlay will guide you through the buttons:

इममिन्द्र वर्धय क्षत्रियं मे इमं विशामेकवृषं कृणु त्वम् ।निरमित्रान् अक्ष्णुह्यस्य सर्वांस्तान् रन्धयास्मा अहमुत्तरेषु ॥१॥
इमम् इन्द्र वर्धय क्षत्रियम् मे इमम् विशाम् एक-वृषम् कृणु त्वम् ।निरमित्रान् अक्ष्णुह्यस्य सर्वान् तान् रन्धय अस्मै अहम् उत्तरेषु ॥१॥
imam indra vardhaya kṣatriyam me imam viśām eka-vṛṣam kṛṇu tvam .niramitrān akṣṇuhyasya sarvān tān randhaya asmai aham uttareṣu ..1..

एमं भज ग्रामे अश्वेषु गोषु निष्टं भज यो अमित्रो अस्य ।वर्ष्म क्षत्राणामयमस्तु राजेन्द्र शत्रुं रन्धय सर्वमस्मै ॥२॥
आ इमम् भज ग्रामे अश्वेषु गोषु निः तम् भज यः अमित्रः अस्य ।वर्ष्म क्षत्राणाम् अयम् अस्तु राज-इन्द्र शत्रुम् रन्धय सर्वम् अस्मै ॥२॥
ā imam bhaja grāme aśveṣu goṣu niḥ tam bhaja yaḥ amitraḥ asya .varṣma kṣatrāṇām ayam astu rāja-indra śatrum randhaya sarvam asmai ..2..

अयमस्तु धनपतिर्धनानामयं विशां विश्पतिरस्तु राजा ।अस्मिन्न् इन्द्र महि वर्चांसि धेह्यवर्चसं कृणुहि शत्रुमस्य ॥३॥
अयम् अस्तु धनपतिः धनानाम् अयम् विशाम् विश्पतिः अस्तु राजा ।अस्मिन् इन्द्र महि वर्चांसि धेहि अवर्चसम् कृणुहि शत्रुमस्य ॥३॥
ayam astu dhanapatiḥ dhanānām ayam viśām viśpatiḥ astu rājā .asmin indra mahi varcāṃsi dhehi avarcasam kṛṇuhi śatrumasya ..3..

अस्मै द्यावापृथिवी भूरि वामं दुहाथां घर्मदुघे इव धेनू ।अयं राजा प्रिय इन्द्रस्य भूयात्प्रियो गवामोषधीनां पशूनाम् ॥४॥
अस्मै द्यावापृथिवी भूरि वामम् दुहाथाम् घर्म-दुघे इव धेनू ।अयम् राजा प्रियः इन्द्रस्य भूयात् प्रियः गवाम् ओषधीनाम् पशूनाम् ॥४॥
asmai dyāvāpṛthivī bhūri vāmam duhāthām gharma-dughe iva dhenū .ayam rājā priyaḥ indrasya bhūyāt priyaḥ gavām oṣadhīnām paśūnām ..4..

युनज्मि त उत्तरावन्तमिन्द्रं येन जयन्ति न पराजयन्ते ।यस्त्वा करदेकवृषं जनानामुत राज्ञामुत्तमं मानवानाम् ॥५॥
युनज्मि ते उत्तरावन्तम् इन्द्रम् येन जयन्ति न पराजयन्ते ।यः त्वा करत् एक-वृषम् जनानाम् उत राज्ञाम् उत्तमम् मानवानाम् ॥५॥
yunajmi te uttarāvantam indram yena jayanti na parājayante .yaḥ tvā karat eka-vṛṣam janānām uta rājñām uttamam mānavānām ..5..

उत्तरस्त्वमधरे ते सपत्ना ये के च राजन् प्रतिशत्रवस्ते ।एकवृष इन्द्रसखा जिगीवां छत्रूयतामा भरा भोजनानि ॥६॥
उत्तरः त्वम् अधरे ते सपत्नाः ये के च राजन् प्रतिशत्रवः ते ।एकवृषः इन्द्र-सखा जिगीवान् शत्रूयताम् आ भर भोजनानि ॥६॥
uttaraḥ tvam adhare te sapatnāḥ ye ke ca rājan pratiśatravaḥ te .ekavṛṣaḥ indra-sakhā jigīvān śatrūyatām ā bhara bhojanāni ..6..

सिंहप्रतीको विशो अद्धि सर्वा व्याघ्रप्रतीकोऽव बाधस्व शत्रून् ।एकवृष इन्द्रसखा जिगीवां छत्रूयतामा खिदा भोजनानि ॥७॥
सिंह-प्रतीकः विशः अद्धि सर्वाः व्याघ्र-प्रतीकः अव बाधस्व शत्रून् ।एकवृषः इन्द्र-सखाः जिगीवान् शत्रूयतामा आ खिदा भोजनानि ॥७॥
siṃha-pratīkaḥ viśaḥ addhi sarvāḥ vyāghra-pratīkaḥ ava bādhasva śatrūn .ekavṛṣaḥ indra-sakhāḥ jigīvān śatrūyatāmā ā khidā bhojanāni ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In