| |
|

This overlay will guide you through the buttons:

इन्द्रस्य मन्महे शश्वदिदस्य मन्महे वृत्रघ्न स्तोमा उप मेम आगुः ।यो दाशुषः सुकृतो हवमेति स नो मुञ्चत्वंहसः ॥१॥
इन्द्रस्य मन्महे शश्वदिदस्य मन्महे वृत्र-घ्नः स्तोमाः उप मा इमे आ अगुः ।यः दाशुषः सु कृतः हवम् एति स नः मुञ्चतु अंहसः ॥१॥
indrasya manmahe śaśvadidasya manmahe vṛtra-ghnaḥ stomāḥ upa mā ime ā aguḥ .yaḥ dāśuṣaḥ su kṛtaḥ havam eti sa naḥ muñcatu aṃhasaḥ ..1..

य उग्रीणामुग्रबाहुर्ययुर्यो दानवानां बलमारुरोज ।येन जिताः सिन्धवो येन गावः स नो मुञ्चत्वंहसः ॥२॥
यः उग्रीणाम् उग्र-बाहुः ययुः यः दानवानाम् बलम् आरुरोज ।येन जिताः सिन्धवः येन गावः स नः मुञ्चतु अंहसः ॥२॥
yaḥ ugrīṇām ugra-bāhuḥ yayuḥ yaḥ dānavānām balam āruroja .yena jitāḥ sindhavaḥ yena gāvaḥ sa naḥ muñcatu aṃhasaḥ ..2..

यश्चर्षणिप्रो वृषभः स्वर्विद्यस्मै ग्रावाणः प्रवदन्ति नृम्णम् ।यस्याध्वरः सप्तहोता मदिष्ठः स नो मुञ्चत्वंहसः ॥३॥
यः चर्षणि-प्रः वृषभः स्वर्-विद् यस्मै ग्रावाणः प्रवदन्ति नृम्णम् ।यस्य अध्वरः सप्त-होता मदिष्ठः स नः मुञ्चतु अंहसः ॥३॥
yaḥ carṣaṇi-praḥ vṛṣabhaḥ svar-vid yasmai grāvāṇaḥ pravadanti nṛmṇam .yasya adhvaraḥ sapta-hotā madiṣṭhaḥ sa naḥ muñcatu aṃhasaḥ ..3..

यस्य वशास ऋषभास उक्षणो यस्मै मीयन्ते स्वरवः स्वर्विदे ।यस्मै शुक्रः पवते ब्रह्मशुम्भितः स नो मुञ्चत्वंहसः ॥४॥
यस्य वशासः ऋषभासः उक्षणः यस्मै मीयन्ते स्वरवः स्वर्विदे ।यस्मै शुक्रः पवते ब्रह्म-शुम्भितः स नः मुञ्चतु अंहसः ॥४॥
yasya vaśāsaḥ ṛṣabhāsaḥ ukṣaṇaḥ yasmai mīyante svaravaḥ svarvide .yasmai śukraḥ pavate brahma-śumbhitaḥ sa naḥ muñcatu aṃhasaḥ ..4..

यस्य जुष्टिं सोमिनः कामयन्ते यं हवन्त इषुमन्तं गविष्टौ ।यस्मिन्न् अर्कः शिश्रिये यस्मिन्न् ओजः स नो मुञ्चत्वंहसः ॥५॥
यस्य जुष्टिम् सोमिनः कामयन्ते यम् हवन्ते इषुमन्तम् गविष्टौ ।यस्मिन् अर्कः शिश्रिये यस्मिन् ओजः स नः मुञ्चतु अंहसः ॥५॥
yasya juṣṭim sominaḥ kāmayante yam havante iṣumantam gaviṣṭau .yasmin arkaḥ śiśriye yasmin ojaḥ sa naḥ muñcatu aṃhasaḥ ..5..

यः प्रथमः कर्मकृत्याय जज्ञे यस्य वीर्यं प्रथमस्यानुबुद्धम् ।येनोद्यतो वज्रोऽभ्यायताहिं स नो मुञ्चत्वंहसः ॥६॥
यः प्रथमः कर्म-कृत्याय जज्ञे यस्य वीर्यम् प्रथमस्य अनुबुद्धम् ।येन उद्यतः वज्रः अभ्यायत अहिम् स नः मुञ्चतु अंहसः ॥६॥
yaḥ prathamaḥ karma-kṛtyāya jajñe yasya vīryam prathamasya anubuddham .yena udyataḥ vajraḥ abhyāyata ahim sa naḥ muñcatu aṃhasaḥ ..6..

यः संग्रामान् नयति सं युधे वशी यः पुष्टानि संसृजति द्वयानि ।स्तौमीन्द्रं नाथितो जोहवीमि स नो मुञ्चत्वंहसः ॥७॥
यः संग्रामान् नयति सम् युधे वशी यः पुष्टानि संसृजति द्वयानि ।स्तौमि इन्द्रम् नाथितः जोहवीमि स नः मुञ्चतु अंहसः ॥७॥
yaḥ saṃgrāmān nayati sam yudhe vaśī yaḥ puṣṭāni saṃsṛjati dvayāni .staumi indram nāthitaḥ johavīmi sa naḥ muñcatu aṃhasaḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In