| |
|

This overlay will guide you through the buttons:

वायोः सवितुर्विदथानि मन्महे यावात्मन्वद्विशथो यौ च रक्षथः ।यौ विश्वस्य परिभू बभूवथुस्तौ नो मुञ्चतमंहसः ॥१॥
वायोः सवितुः विदथानि मन्महे यौ आत्मन्वत् विशथः यौ च रक्षथः ।यौ विश्वस्य परिभू बभूवथुः तौ नः मुञ्चतम् अंहसः ॥१॥
vāyoḥ savituḥ vidathāni manmahe yau ātmanvat viśathaḥ yau ca rakṣathaḥ .yau viśvasya paribhū babhūvathuḥ tau naḥ muñcatam aṃhasaḥ ..1..

ययोः संख्याता वरिमा पार्हिवानि याभ्यां रजो युपितमन्तरिक्षे ।ययोः प्रायं नान्वानशे कश्चन तौ नो मुञ्चतमंहसः ॥२॥
ययोः संख्याता वरिमा पार्हिवानि याभ्याम् रजः युपितम् अन्तरिक्षे ।ययोः प्रायम् न अन्वानशे कश्चन तौ नः मुञ्चतम् अंहसः ॥२॥
yayoḥ saṃkhyātā varimā pārhivāni yābhyām rajaḥ yupitam antarikṣe .yayoḥ prāyam na anvānaśe kaścana tau naḥ muñcatam aṃhasaḥ ..2..

तव व्रते नि विशन्ते जनासस्त्वय्युदिते प्रेरते चित्रभानो ।युवं वायो सविता च भुवनानि रक्षथस्तौ नो मुञ्चतमंहसः ॥३॥
तव व्रते नि विशन्ते जनासः त्वयि उदिते प्रेरते चित्रभानो ।युवम् वायो सविता च भुवनानि रक्षथः तौ नः मुञ्चतम् अंहसः ॥३॥
tava vrate ni viśante janāsaḥ tvayi udite prerate citrabhāno .yuvam vāyo savitā ca bhuvanāni rakṣathaḥ tau naḥ muñcatam aṃhasaḥ ..3..

अपेतो वायो सविता च दुष्कृतमप रक्षांसि शिमिदां च सेधतम् ।सं ह्यूर्जया सृजथः सं बलेन तौ नो मुञ्चतमंहसः ॥४॥
अप इतस् वायो सविता च दुष्कृतम् अप रक्षांसि शिमिदाम् च सेधतम् ।सम् हि ऊर्जया सृजथः सम् बलेन तौ नः मुञ्चतम् अंहसः ॥४॥
apa itas vāyo savitā ca duṣkṛtam apa rakṣāṃsi śimidām ca sedhatam .sam hi ūrjayā sṛjathaḥ sam balena tau naḥ muñcatam aṃhasaḥ ..4..

रयिं मे पोषं सवितोत वायुस्तनू दक्षमा सुवतां सुशेवम् ।अयक्ष्मतातिं मह इह धत्तं तौ नो मुञ्चतमंहसः ॥५॥
रयिम् मे पोषम् सविता उत वायुः तनू दक्षम् आ सुवताम् सु शेवम् ।अ यक्ष्मतातिम् महः इह धत्तम् तौ नः मुञ्चतम् अंहसः ॥५॥
rayim me poṣam savitā uta vāyuḥ tanū dakṣam ā suvatām su śevam .a yakṣmatātim mahaḥ iha dhattam tau naḥ muñcatam aṃhasaḥ ..5..

प्र सुमतिं सवितर्वाय ऊतये महस्वन्तं मत्सरं मादयाथः ।अर्वाग्वामस्य प्रवतो नि यच्छतं तौ नो मुञ्चतमंहसः ॥६॥
प्र सुमतिम् सवितर् वायो ऊतये महस्वन्तम् मत्सरम् मादयाथः ।अर्वाक् वामस्य प्रवतः नि यच्छतम् तौ नः मुञ्चतम् अंहसः ॥६॥
pra sumatim savitar vāyo ūtaye mahasvantam matsaram mādayāthaḥ .arvāk vāmasya pravataḥ ni yacchatam tau naḥ muñcatam aṃhasaḥ ..6..

उप श्रेष्ठा न आशिषो देवयोर्धामन्न् अस्थिरन् ।स्तौमि देवं सवितारं च वायुं तौ नो मुञ्चन्त्वंहसः ॥७॥
उप श्रेष्ठाः नः आशिषः देवयोः धामन् अस्थिरन् ।स्तौमि देवम् सवितारम् च वायुम् तौ नः मुञ्चन्तु अंहसः ॥७॥
upa śreṣṭhāḥ naḥ āśiṣaḥ devayoḥ dhāman asthiran .staumi devam savitāram ca vāyum tau naḥ muñcantu aṃhasaḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In