| |
|

This overlay will guide you through the buttons:

मरुतां मन्वे अधि मे ब्रुवन्तु प्रेमं वाजं वाजसाते अवन्तु ।आशून् इव सुयमान् अह्व ऊतये ते नो मुञ्चन्त्वंहसः ॥१॥
मरुताम् मन्वे अधि मे ब्रुवन्तु प्र इमम् वाजम् वाजसाते अवन्तु ।आशून् इव सु यमान् अह्वे ऊतये ते नः मुञ्चन्तु अंहसः ॥१॥
marutām manve adhi me bruvantu pra imam vājam vājasāte avantu .āśūn iva su yamān ahve ūtaye te naḥ muñcantu aṃhasaḥ ..1..

उत्समक्षितं व्यचन्ति ये सदा य आसिञ्चन्ति रसमोषधीषु ।पुरो दधे मरुतः पृश्निमातॄंस्ते नो मुञ्चन्त्वंहसः ॥२॥
उत्सम् अक्षितम् व्यचन्ति ये सदा ये आसिञ्चन्ति रसम् ओषधीषु ।पुरस् दधे मरुतः पृश्नि-मातॄन् ते नः मुञ्चन्तु अंहसः ॥२॥
utsam akṣitam vyacanti ye sadā ye āsiñcanti rasam oṣadhīṣu .puras dadhe marutaḥ pṛśni-mātṝn te naḥ muñcantu aṃhasaḥ ..2..

पयो धेनूनां रसमोषधीनां जवमर्वतां कवयो य इन्वथ ।शग्मा भवन्तु मरुतो नः स्योनास्ते नो मुञ्चन्त्वंहसः ॥३॥
पयः धेनूनाम् रसम् ओषधीनाम् जवम् अर्वताम् कवयः ये इन्वथ ।शग्माः भवन्तु मरुतः नः स्योनाः ते नः मुञ्चन्तु अंहसः ॥३॥
payaḥ dhenūnām rasam oṣadhīnām javam arvatām kavayaḥ ye invatha .śagmāḥ bhavantu marutaḥ naḥ syonāḥ te naḥ muñcantu aṃhasaḥ ..3..

अपः समुद्राद्दिवमुद्वहन्ति दिवस्पृथिवीमभि ये सृजन्ति ।ये अद्भिरीशाना मरुतश्चरन्ति ते नो मुञ्चन्त्वंहसः ॥४॥
अपः समुद्रात् दिवम् उद्वहन्ति दिवः पृथिवीम् अभि ये सृजन्ति ।ये अद्भिः ईशानाः मरुतः चरन्ति ते नः मुञ्चन्तु अंहसः ॥४॥
apaḥ samudrāt divam udvahanti divaḥ pṛthivīm abhi ye sṛjanti .ye adbhiḥ īśānāḥ marutaḥ caranti te naḥ muñcantu aṃhasaḥ ..4..

ये कीलालेन तर्पयन्ति ये घृतेन ये वा वयो मेदसा संसृजन्ति ।ये अद्भिरीशाना मरुतो वर्षयन्ति ते नो मुञ्चन्त्वंहसः ॥५॥
ये कीलालेन तर्पयन्ति ये घृतेन ये वा वयः मेदसा संसृजन्ति ।ये अद्भिः ईशानाः मरुतः वर्षयन्ति ते नः मुञ्चन्तु अंहसः ॥५॥
ye kīlālena tarpayanti ye ghṛtena ye vā vayaḥ medasā saṃsṛjanti .ye adbhiḥ īśānāḥ marutaḥ varṣayanti te naḥ muñcantu aṃhasaḥ ..5..

यदीदिदं मरुतो मारुतेन यदि देवा दैव्येनेदृगार ।यूयमीशिध्वे वसवस्तस्य निष्कृतेस्ते नो मुञ्चन्त्वंहसः ॥६॥
यदि इद् इदम् मरुतः मारुतेन यदि देवाः दैव्येन ईदृश् आर ।यूयम् ईशिध्वे वसवः तस्य निष्कृतेः ते नः मुञ्चन्तु अंहसः ॥६॥
yadi id idam marutaḥ mārutena yadi devāḥ daivyena īdṛś āra .yūyam īśidhve vasavaḥ tasya niṣkṛteḥ te naḥ muñcantu aṃhasaḥ ..6..

तिग्ममनीकं विदितं सहस्वन् मारुतं शर्धः पृतनासूग्रम् ।स्तौमि मरुतो नाथितो जोहवीमि ते नो मुञ्चन्त्वंहसः ॥७॥
तिग्मम् अनीकम् विदितम् सहस्वत् मारुतम् शर्धः पृतनासु उग्रम् ।स्तौमि मरुतः नाथितः जोहवीमि ते नः मुञ्चन्तु अंहसः ॥७॥
tigmam anīkam viditam sahasvat mārutam śardhaḥ pṛtanāsu ugram .staumi marutaḥ nāthitaḥ johavīmi te naḥ muñcantu aṃhasaḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In