| |
|

This overlay will guide you through the buttons:

भवाशर्वौ मन्वे वां तस्य वित्तं ययोर्वामिदं प्रदिशि यद्विरोचते ।यावस्येशाथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥१॥
भवाशर्वौ मन्वे वाम् तस्य वित्तम् ययोः वाम् इदम् प्रदिशि यत् विरोचते ।यौ अस्य ईशाथे द्विपदः यौ चतुष्पदः तौ नः मुञ्चतम् अंहसः ॥१॥
bhavāśarvau manve vām tasya vittam yayoḥ vām idam pradiśi yat virocate .yau asya īśāthe dvipadaḥ yau catuṣpadaḥ tau naḥ muñcatam aṃhasaḥ ..1..

ययोरभ्यभ्व उत यद्दूरे चिद्यौ विदिताविषुभृतामसिष्ठौ ।यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥२॥
ययोः अभि अभ्वे उत यत् दूरे चित् यौ विदितौ इषुभृताम् असिष्ठौ ।यौ अस्य ईशथे द्विपदः यौ चतुष्पदः तौ नः मुञ्चतम् अंहसः ॥२॥
yayoḥ abhi abhve uta yat dūre cit yau viditau iṣubhṛtām asiṣṭhau .yau asya īśathe dvipadaḥ yau catuṣpadaḥ tau naḥ muñcatam aṃhasaḥ ..2..

सहस्राक्षौ वृत्रहना हुवेहं दूरेगव्यूती स्तुवन्न् एम्युग्रौ ।यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥३॥
सहस्र-अक्षौ वृत्र-हना हुवे इहम् दूरेगव्यूती स्तुवन् एमि उग्रौ ।यौ अस्य ईशथे द्विपदः यौ चतुष्पदः तौ नः मुञ्चतम् अंहसः ॥३॥
sahasra-akṣau vṛtra-hanā huve iham dūregavyūtī stuvan emi ugrau .yau asya īśathe dvipadaḥ yau catuṣpadaḥ tau naḥ muñcatam aṃhasaḥ ..3..

यावारेभाथे बहु साकमग्रे प्र चेदस्राष्ट्रमभिभां जनेषु ।यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥४॥
यौ आरेभाथे बहु साकम् अग्रे प्र चेद् अस्राष्ट्रम् अभिभाम् जनेषु ।यौ अस्य ईशथे द्विपदः यौ चतुष्पदः तौ नः मुञ्चतम् अंहसः ॥४॥
yau ārebhāthe bahu sākam agre pra ced asrāṣṭram abhibhām janeṣu .yau asya īśathe dvipadaḥ yau catuṣpadaḥ tau naḥ muñcatam aṃhasaḥ ..4..

ययोर्वधान् नापपद्यते कश्चनान्तर्देवेषूत मानुषेषु ।यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥५॥
ययोः वधात् न अपपद्यते कश्चन अन्तर् देवेषु उत मानुषेषु ।यौ अस्य ईशथे द्विपदः यौ चतुष्पदः तौ नः मुञ्चतम् अंहसः ॥५॥
yayoḥ vadhāt na apapadyate kaścana antar deveṣu uta mānuṣeṣu .yau asya īśathe dvipadaḥ yau catuṣpadaḥ tau naḥ muñcatam aṃhasaḥ ..5..

यः कृत्याकृन् मूलकृद्यातुधानो नि तस्मिन् धत्तं वज्रमुग्रौ ।यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥६॥
यः कृत्या-कृत् मूल-कृत् यातुधानः नि तस्मिन् धत्तम् वज्रम् उग्रौ ।यौ अस्य ईशथे द्विपदः यौ चतुष्पदः तौ नः मुञ्चतम् अंहसः ॥६॥
yaḥ kṛtyā-kṛt mūla-kṛt yātudhānaḥ ni tasmin dhattam vajram ugrau .yau asya īśathe dvipadaḥ yau catuṣpadaḥ tau naḥ muñcatam aṃhasaḥ ..6..

अधि नो ब्रूतं पृतनासूग्रौ सं वज्रेण सृजतं यः किमीदी ।स्तौमि भवाशर्वौ नाथितो जोहवीमि तौ नो मुञ्चतमंहसः ॥७॥
अधि नः ब्रूतम् पृतनासु उग्रौ सम् वज्रेण सृजतम् यः किमीदी ।स्तौमि भवाशर्वौ नाथितः जोहवीमि तौ नः मुञ्चतम् अंहसः ॥७॥
adhi naḥ brūtam pṛtanāsu ugrau sam vajreṇa sṛjatam yaḥ kimīdī .staumi bhavāśarvau nāthitaḥ johavīmi tau naḥ muñcatam aṃhasaḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In