| |
|

This overlay will guide you through the buttons:

यस्ते मन्योऽविधद्वज्र सायक सह ओजः पुष्यति विश्वमानुषक्।साह्याम दासमार्यं त्वया युजा वयं सहस्कृतेन सहसा सहस्वता ॥१॥
यः ते मन्यो अविधत् वज्र सायक सहः ओजः पुष्यति विश्व-मानुषक्।साह्याम दासम् आर्यम् त्वया युजा वयम् सहस्कृतेन सहसा सहस्वता ॥१॥
yaḥ te manyo avidhat vajra sāyaka sahaḥ ojaḥ puṣyati viśva-mānuṣak.sāhyāma dāsam āryam tvayā yujā vayam sahaskṛtena sahasā sahasvatā ..1..

मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणो जातवेदाः ।मन्युं विश ईडते मानुषीर्याः पहि नो मन्यो तपसा सजोषाः ॥२॥
मन्युः इन्द्रः मन्युः एव आस देवः मन्युः होता वरुणः जातवेदाः ।मन्युम् विशः ईडते मानुषीर्याः पहि नः मन्यो तपसा सजोषाः ॥२॥
manyuḥ indraḥ manyuḥ eva āsa devaḥ manyuḥ hotā varuṇaḥ jātavedāḥ .manyum viśaḥ īḍate mānuṣīryāḥ pahi naḥ manyo tapasā sajoṣāḥ ..2..

अभीहि मन्यो तवसस्तवीयान् तपसा युजा वि जहि शत्रून् ।अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं नः ॥३॥
अभीहि मन्यो तवसः तवीयान् तपसा युजा वि जहि शत्रून् ।अमित्र-हा वृत्र-हा दस्यु-हा च विश्वा वसूनि या भर त्वम् नः ॥३॥
abhīhi manyo tavasaḥ tavīyān tapasā yujā vi jahi śatrūn .amitra-hā vṛtra-hā dasyu-hā ca viśvā vasūni yā bhara tvam naḥ ..3..

त्वं हि मन्यो अभिभूत्योजाः स्वयंभूर्भामो अभिमातिषाहः ।विश्वचर्षणिः सहुरिः सहीयान् अस्मास्वोजः पृतनासु धेहि ॥४॥
त्वम् हि मन्यो अभिभूति-ओजाः स्वयंभूः भामः अभिमातिषाहः ।विश्वचर्षणिः सहुरिः सहीयान् अस्मासु ओजः पृतनासु धेहि ॥४॥
tvam hi manyo abhibhūti-ojāḥ svayaṃbhūḥ bhāmaḥ abhimātiṣāhaḥ .viśvacarṣaṇiḥ sahuriḥ sahīyān asmāsu ojaḥ pṛtanāsu dhehi ..4..

अभागः सन्न् अप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः ।तं त्वा मन्यो अक्रतुर्जिहीडाहं स्वा तनूर्बलदावा न एहि ॥५॥
अ भागः सन् अप परेतः अस्मि तव क्रत्वा तविषस्य प्रचेतः ।तम् त्वा मन्यो अक्रतुः जिहीड अहम् स्वा तनूः बल-दावा नः एहि ॥५॥
a bhāgaḥ san apa paretaḥ asmi tava kratvā taviṣasya pracetaḥ .tam tvā manyo akratuḥ jihīḍa aham svā tanūḥ bala-dāvā naḥ ehi ..5..

अयं ते अस्म्युप न एह्यर्वाङ्प्रतीचीनः सहुरे विश्वदावन् ।मन्यो वज्रिन्न् अभि न आ ववृत्स्व हनाव दस्यूंरुत बोध्यापेः ॥६॥
अयम् ते अस्मि उप नः एहि अर्वाङ् प्रतीचीनः सहुरे विश्व-दावन् ।मन्यो वज्रिन् अभि नः आ ववृत्स्व हनाव दस्यूंरुत बोध्यापेः ॥६॥
ayam te asmi upa naḥ ehi arvāṅ pratīcīnaḥ sahure viśva-dāvan .manyo vajrin abhi naḥ ā vavṛtsva hanāva dasyūṃruta bodhyāpeḥ ..6..

अभि प्रेहि दक्षिणतो भवा नोऽधा वृत्राणि जङ्घनाव भूरि ।जुहोमि ते धरुणं मध्वो अग्रमुभावुपांशु प्रथमा पिबाव ॥७॥
अभि प्रेहि दक्षिणतस् भव नः अधा वृत्राणि जङ्घनाव भूरि ।जुहोमि ते धरुणम् मध्वः अग्रम् उभौ उपांशु प्रथमा पिबाव ॥७॥
abhi prehi dakṣiṇatas bhava naḥ adhā vṛtrāṇi jaṅghanāva bhūri .juhomi te dharuṇam madhvaḥ agram ubhau upāṃśu prathamā pibāva ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In