| |
|

This overlay will guide you through the buttons:

ब्रह्मास्य शीर्षं बृहदस्य पृष्ठं वामदेव्यमुदरमोदनस्य ।छन्दांसि पक्षौ मुखमस्य सत्यं विष्टारी जातस्तपसोऽधि यज्ञः ॥१॥
ब्रह्म अस्य शीर्षम् बृहत् अस्य पृष्ठम् वामदेव्यम् उदरम् ओदनस्य ।छन्दांसि पक्षौ मुखम् अस्य सत्यम् विष्टारी जातः तपसः अधि यज्ञः ॥१॥
brahma asya śīrṣam bṛhat asya pṛṣṭham vāmadevyam udaram odanasya .chandāṃsi pakṣau mukham asya satyam viṣṭārī jātaḥ tapasaḥ adhi yajñaḥ ..1..

अनस्थाः पूताः पवनेन शुद्धाः शुचयः शुचिमपि यन्ति लोकम् ।नैषां शिश्नं प्र दहति जातवेदाः स्वर्गे लोके बहु स्त्रैणमेषाम् ॥२॥
अनस्थाः पूताः पवनेन शुद्धाः शुचयः शुचिम् अपि यन्ति लोकम् ।न एषाम् शिश्नम् प्र दहति जातवेदाः स्वर्गे लोके बहु स्त्रैणम् एषाम् ॥२॥
anasthāḥ pūtāḥ pavanena śuddhāḥ śucayaḥ śucim api yanti lokam .na eṣām śiśnam pra dahati jātavedāḥ svarge loke bahu straiṇam eṣām ..2..

विष्टारिणमोदनं ये पचन्ति नैनान् अवर्तिः सचते कदा चन ।आस्ते यम उप याति देवान्त्सं गन्धर्वैर्मदते सोम्येभिः ॥३॥
विष्टारिणम् ओदनम् ये पचन्ति न एनान् अवर्तिः सचते कदा चन ।आस्ते यमः उप याति देवान् सम् गन्धर्वैः मदते सोम्येभिः ॥३॥
viṣṭāriṇam odanam ye pacanti na enān avartiḥ sacate kadā cana .āste yamaḥ upa yāti devān sam gandharvaiḥ madate somyebhiḥ ..3..

विष्टारिणमोदनं ये पचन्ति नैनान् यमः परि मुष्णाति रेतः ।रथी ह भूत्वा रथयान ईयते पक्षी ह भूत्वाति दिवः समेति ॥४॥
विष्टारिणम् ओदनम् ये पचन्ति न एनान् यमः परि मुष्णाति रेतः ।रथी ह भूत्वा रथ-यानः ईयते पक्षी ह भूत्वा अति दिवः समेति ॥४॥
viṣṭāriṇam odanam ye pacanti na enān yamaḥ pari muṣṇāti retaḥ .rathī ha bhūtvā ratha-yānaḥ īyate pakṣī ha bhūtvā ati divaḥ sameti ..4..

एष यज्ञानां विततो वहिष्ठो विष्टारिणं पक्त्वा दिवमा विवेश ।आण्डीकं कुमुदं सं तनोति बिसं शालूकं शफको मुलाली ।एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥५॥
एष यज्ञानाम् विततः वहिष्ठः विष्टारिणम् पक्त्वा दिवम् आ विवेश ।आण्डीकम् कुमुदम् सम् तनोति बिसम् शालूकम् शफकः मुलाली ।एताः त्वा धाराः उप यन्तु सर्वाः स्वर्गे लोके मधुमत् पिन्वमानाः उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥५॥
eṣa yajñānām vitataḥ vahiṣṭhaḥ viṣṭāriṇam paktvā divam ā viveśa .āṇḍīkam kumudam sam tanoti bisam śālūkam śaphakaḥ mulālī .etāḥ tvā dhārāḥ upa yantu sarvāḥ svarge loke madhumat pinvamānāḥ upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ ..5..

घृतह्रदा मधुकूलाः सुरोदकाः क्षीरेण पूर्णा उदकेन दध्ना ।एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥६॥
घृत-ह्रदाः मधु-कूलाः सुरा-उदकाः क्षीरेण पूर्णाः उदकेन दध्ना ।एताः त्वा धाराः उप यन्तु सर्वाः स्वर्गे लोके मधुमत् पिन्वमानाः उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥६॥
ghṛta-hradāḥ madhu-kūlāḥ surā-udakāḥ kṣīreṇa pūrṇāḥ udakena dadhnā .etāḥ tvā dhārāḥ upa yantu sarvāḥ svarge loke madhumat pinvamānāḥ upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ ..6..

चतुरः कुम्भांश्चतुर्धा ददामि क्षीरेण पूर्नामुदकेन दध्ना ।एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥७॥
चतुरः कुम्भान् चतुर्धा ददामि क्षीरेण पूः नाम् उदकेन दध्ना ।एताः त्वा धाराः उप यन्तु सर्वाः स्वर्गे लोके मधुमत् पिन्वमानाः उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥७॥
caturaḥ kumbhān caturdhā dadāmi kṣīreṇa pūḥ nām udakena dadhnā .etāḥ tvā dhārāḥ upa yantu sarvāḥ svarge loke madhumat pinvamānāḥ upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ ..7..

इममोदनं नि दधे ब्राह्मणेषु विष्टारिणं लोकजितं स्वर्गम् ।स मे मा क्षेष्ट स्वधया पिन्वमानो विश्वरूपा धेनुः कामदुघा मे अस्तु ॥८॥
इमम् ओदनम् नि दधे ब्राह्मणेषु विष्टारिणम् लोक-जितम् स्वर्गम् ।स मे मा क्षेष्ट स्वधया पिन्वमानः विश्व-रूपा धेनुः कामदुघा मे अस्तु ॥८॥
imam odanam ni dadhe brāhmaṇeṣu viṣṭāriṇam loka-jitam svargam .sa me mā kṣeṣṭa svadhayā pinvamānaḥ viśva-rūpā dhenuḥ kāmadughā me astu ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In