| |
|

This overlay will guide you through the buttons:

यमोदनं प्रथमजा ऋतस्य प्रजापतिस्तपसा ब्रह्मणेऽपचत्।यो लोकानां विधृतिर्नाभिरेषात्तेनौदनेनाति तराणि मृत्युम् ॥१॥
यम-ओदनम् प्रथम-जाः ऋतस्य प्रजापतिः तपसा ब्रह्मणे अपचत्।यः लोकानाम् विधृतिः न अभिः एष अत्तेन ओदनेन अति तराणि मृत्युम् ॥१॥
yama-odanam prathama-jāḥ ṛtasya prajāpatiḥ tapasā brahmaṇe apacat.yaḥ lokānām vidhṛtiḥ na abhiḥ eṣa attena odanena ati tarāṇi mṛtyum ..1..

येनातरन् भूतकृतोऽति मृत्युं यमन्वविन्दन् तपसा श्रमेण ।यं पपाच ब्रह्मणे ब्रह्म पूर्वं तेनौदनेनाति तराणि मृत्युम् ॥२॥
येन अतरन् भूत-कृतः अति मृत्युम् यम् अन्वविन्दन् तपसा श्रमेण ।यम् पपाच ब्रह्मणे ब्रह्म पूर्वम् तेन ओदनेन अति तराणि मृत्युम् ॥२॥
yena ataran bhūta-kṛtaḥ ati mṛtyum yam anvavindan tapasā śrameṇa .yam papāca brahmaṇe brahma pūrvam tena odanena ati tarāṇi mṛtyum ..2..

यो दाधार पृथिवीं विश्वभोजसं यो अन्तरिक्षमापृणाद्रसेन ।यो अस्तभ्नाद्दिवमूर्ध्वो महिम्ना तेनौदनेनाति तराणि मृत्युम् ॥३॥
यः दाधार पृथिवीम् विश्व-भोजसम् यः अन्तरिक्षम् आपृणात् रसेन ।यः अस्तभ्नात् दिवम् ऊर्ध्वः महिम्ना तेन ओदनेन अति तराणि मृत्युम् ॥३॥
yaḥ dādhāra pṛthivīm viśva-bhojasam yaḥ antarikṣam āpṛṇāt rasena .yaḥ astabhnāt divam ūrdhvaḥ mahimnā tena odanena ati tarāṇi mṛtyum ..3..

यस्मान् मासा निर्मितास्त्रिंशदराः संवत्सरो यस्मान् निर्मितो द्वादशारः ।अहोरात्रा यं परियन्तो नापुस्तेनौदनेनाति तराणि मृत्युम् ॥४॥
यस्मात् मासाः निर्मिताः त्रिंशत्-अराः संवत्सरः यस्मात् निर्मितः द्वादश-अरः ।अहोरात्राः यम् परियन्तः न आपुः तेन ओदनेन अति तराणि मृत्युम् ॥४॥
yasmāt māsāḥ nirmitāḥ triṃśat-arāḥ saṃvatsaraḥ yasmāt nirmitaḥ dvādaśa-araḥ .ahorātrāḥ yam pariyantaḥ na āpuḥ tena odanena ati tarāṇi mṛtyum ..4..

यः प्राणदः प्राणदवान् बभूव यस्मै लोका घृतवन्तः क्षरन्ति ।ज्योतिष्मतीः प्रदिशो यस्य सर्वास्तेनौदनेनाति तराणि मृत्युम् ॥५॥
यः प्राण-दः बभूव यस्मै लोकाः घृतवन्तः क्षरन्ति ।ज्योतिष्मतीः प्रदिशः यस्य सर्वाः तेन ओदनेन अति तराणि मृत्युम् ॥५॥
yaḥ prāṇa-daḥ babhūva yasmai lokāḥ ghṛtavantaḥ kṣaranti .jyotiṣmatīḥ pradiśaḥ yasya sarvāḥ tena odanena ati tarāṇi mṛtyum ..5..

यस्मात्पक्वादमृतं संबभूव यो गायत्र्या अधिपतिर्बभूव ।यस्मिन् वेदा निहिता विश्वरूपास्तेनौदनेनाति तराणि मृत्युम् ॥६॥
यस्मात् पक्वात् अमृतम् संबभूव यः गायत्र्याः अधिपतिः बभूव ।यस्मिन् वेदाः निहिताः विश्व-रूपाः तेन ओदनेन अति तराणि मृत्युम् ॥६॥
yasmāt pakvāt amṛtam saṃbabhūva yaḥ gāyatryāḥ adhipatiḥ babhūva .yasmin vedāḥ nihitāḥ viśva-rūpāḥ tena odanena ati tarāṇi mṛtyum ..6..

अव बाधे द्विषन्तं देवपीयुं सपत्ना ये मेऽप ते भवन्तु ।ब्रह्मौदनं विश्वजितं पचामि शृण्वन्तु मे श्रद्दधानस्य देवाः ॥७॥
अव बाधे द्विषन्तम् देव-पीयुम् सपत्नाः ये मे अप ते भवन्तु ।ब्रह्मौदनम् विश्व-जितम् पचामि शृण्वन्तु मे श्रद्दधानस्य देवाः ॥७॥
ava bādhe dviṣantam deva-pīyum sapatnāḥ ye me apa te bhavantu .brahmaudanam viśva-jitam pacāmi śṛṇvantu me śraddadhānasya devāḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In