| |
|

This overlay will guide you through the buttons:

तान्त्सत्यौजाः प्र दहत्वग्निर्वैश्वानरो वृषा ।यो नो दुरस्याद्दिप्साच्चाथो यो नो अरातियात्॥१॥
तान् सत्य-ओजाः प्र दहतु अग्निः वैश्वानरः वृषा ।यः नः दुरस्यात् दिप्सात् च अथ उ यः नः अरातियात्॥१॥
tān satya-ojāḥ pra dahatu agniḥ vaiśvānaraḥ vṛṣā .yaḥ naḥ durasyāt dipsāt ca atha u yaḥ naḥ arātiyāt..1..

यो नो दिप्साददिप्सतो दिप्सतो यश्च दिप्सति ।वैश्वानरस्य दंष्ट्रयोरग्नेरपि दधामि तम् ॥२॥
यः नः दिप्सात् अ दिप्सतः दिप्सतः यः च दिप्सति ।वैश्वानरस्य दंष्ट्रयोः अग्नेः अपि दधामि तम् ॥२॥
yaḥ naḥ dipsāt a dipsataḥ dipsataḥ yaḥ ca dipsati .vaiśvānarasya daṃṣṭrayoḥ agneḥ api dadhāmi tam ..2..

य आगरे मृगयन्ते प्रतिक्रोशेऽमावास्ये ।क्रव्यादो अन्यान् दिप्सतः सर्वांस्तान्त्सहसा सहे ॥३॥
ये आगरे मृगयन्ते प्रतिक्रोशे अमावास्ये ।क्रव्य-अदः अन्यान् दिप्सतः सर्वान् तान् सहसा सहे ॥३॥
ye āgare mṛgayante pratikrośe amāvāsye .kravya-adaḥ anyān dipsataḥ sarvān tān sahasā sahe ..3..

सहे पिशाचान्त्सहसैषां द्रविणं ददे ।सर्वान् दुरस्यतो हन्मि सं म आकूतिर्ऋध्यताम् ॥४॥
सहे पिशाचान् सहसा एषाम् द्रविणम् ददे ।सर्वान् दुरस्यतः हन्मि सम् मे आकूतिः ऋध्यताम् ॥४॥
sahe piśācān sahasā eṣām draviṇam dade .sarvān durasyataḥ hanmi sam me ākūtiḥ ṛdhyatām ..4..

ये देवास्तेन हासन्ते सूर्येण मिमते जवम् ।नदीषु पर्वतेषु ये सं तैः पशुभिर्विदे ॥५॥
ये देवाः तेन ह आसन्ते सूर्येण मिमते जवम् ।नदीषु पर्वतेषु ये सम् तैः पशुभिः विदे ॥५॥
ye devāḥ tena ha āsante sūryeṇa mimate javam .nadīṣu parvateṣu ye sam taiḥ paśubhiḥ vide ..5..

तपनो अस्मि पिशाचानां व्याघ्रो गोमतामिव ।श्वानः सिंहमिव दृष्ट्वा ते न विन्दन्ते न्यञ्चनम् ॥६॥
तपनः अस्मि पिशाचानाम् व्याघ्रः गोमताम् इव ।श्वानः सिंहम् इव दृष्ट्वा ते न विन्दन्ते न्यञ्चनम् ॥६॥
tapanaḥ asmi piśācānām vyāghraḥ gomatām iva .śvānaḥ siṃham iva dṛṣṭvā te na vindante nyañcanam ..6..

न पिशाचैः सं शक्नोमि न स्तेनैः न वनर्गुभिः ।पिशाचास्तस्मान् नश्यन्ति यमहं ग्राममाविशे ॥७॥
न पिशाचैः सम् शक्नोमि न स्तेनैः न वनर्गुभिः ।पिशाचाः तस्मात् नश्यन्ति यम् अहम् ग्रामम् आविशे ॥७॥
na piśācaiḥ sam śaknomi na stenaiḥ na vanargubhiḥ .piśācāḥ tasmāt naśyanti yam aham grāmam āviśe ..7..

यं ग्राममाविशत इदमुग्रं सहो मम ।पिशाचास्तस्मान् नश्यन्ति न पापमुप जानते ॥८॥
यम् ग्रामम् आविशतः इदम् उग्रम् सहः मम ।पिशाचाः तस्मात् नश्यन्ति न पापम् उप जानते ॥८॥
yam grāmam āviśataḥ idam ugram sahaḥ mama .piśācāḥ tasmāt naśyanti na pāpam upa jānate ..8..

ये मा क्रोधयन्ति लपिता हस्तिनं मशका इव ।तान् अहं मन्ये दुर्हितान् जने अल्पशयून् इव ॥९॥
ये मा क्रोधयन्ति लपिताः हस्तिनम् मशकाः इव ।तान् अहम् मन्ये दुर्हितान् जने अल्प-शयून् इव ॥९॥
ye mā krodhayanti lapitāḥ hastinam maśakāḥ iva .tān aham manye durhitān jane alpa-śayūn iva ..9..

अभि तं निर्ऋतिर्धत्तामश्वमिव अश्वाभिधान्या ।मल्वो यो मह्यं क्रुध्यति स उ पाशान् न मुच्यते ॥१०॥
अभि तम् निरृतिः धत्ताम् अश्वम् इव अश्व-अभिधान्या ।मल्वः यः मह्यम् क्रुध्यति सः उ पाशात् न मुच्यते ॥१०॥
abhi tam nirṛtiḥ dhattām aśvam iva aśva-abhidhānyā .malvaḥ yaḥ mahyam krudhyati saḥ u pāśāt na mucyate ..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In