| |
|

This overlay will guide you through the buttons:

त्वया पूर्वमथर्वाणो जघ्नू रक्षांस्योषधे ।त्वया जघान कश्यपस्त्वया कण्वो अगस्त्यः ॥१॥
त्वया पूर्वम् अथर्वाणः जघ्नुः रक्षांसि ओषधे ।त्वया जघान कश्यपः त्वया कण्वः अगस्त्यः ॥१॥
tvayā pūrvam atharvāṇaḥ jaghnuḥ rakṣāṃsi oṣadhe .tvayā jaghāna kaśyapaḥ tvayā kaṇvaḥ agastyaḥ ..1..

त्वया वयमप्सरसो गन्धर्वांस्चातयामहे ।अजशृङ्ग्यज रक्षः सर्वान् गन्धेन नाशय ॥२॥
त्वया वयम् अप्सरसः गन्धर्वान् चातयामहे ।अजशृङ्गि अज रक्षः सर्वान् गन्धेन नाशय ॥२॥
tvayā vayam apsarasaḥ gandharvān cātayāmahe .ajaśṛṅgi aja rakṣaḥ sarvān gandhena nāśaya ..2..

नदीं यन्त्वप्सरसोऽपां तारमवश्वसम् ।गुल्गुलूः पीला नलद्यौक्षगन्धिः प्रमन्दनी ।तत्परेताप्सरसः प्रतिबुद्धा अभूतन ॥३॥
नदीम् यन्तु अप्सरसः अपाम् तारम् अवश्वसम् । ।तत् परा इत अप्सरसः प्रतिबुद्धाः अभूतन ॥३॥
nadīm yantu apsarasaḥ apām tāram avaśvasam . .tat parā ita apsarasaḥ pratibuddhāḥ abhūtana ..3..

यत्राश्वत्था न्यग्रोधा महावृक्षाः शिखण्डिनः ।तत्परेताप्सरसः प्रतिबुद्धा अभूतन ॥४॥
यत्र अश्वत्थाः न्यग्रोधाः महा-वृक्षाः शिखण्डिनः ।तत् परा इत अप्सरसः प्रतिबुद्धाः अभूतन ॥४॥
yatra aśvatthāḥ nyagrodhāḥ mahā-vṛkṣāḥ śikhaṇḍinaḥ .tat parā ita apsarasaḥ pratibuddhāḥ abhūtana ..4..

यत्र वः प्रेङ्खा हरिता अर्जुना उत यत्राघाताः कर्कर्यः संवदन्ति ।तत्परेताप्सरसः प्रतिबुद्धा अभूतन ॥५॥
यत्र वः प्रेङ्खाः हरिताः अर्जुनाः उत यत्र आघाताः कर्कर्यः संवदन्ति ।तत् परा इत अप्सरसः प्रतिबुद्धाः अभूतन ॥५॥
yatra vaḥ preṅkhāḥ haritāḥ arjunāḥ uta yatra āghātāḥ karkaryaḥ saṃvadanti .tat parā ita apsarasaḥ pratibuddhāḥ abhūtana ..5..

एयमगन्न् ओषधीनां वीरुधां वीर्यावती ।अजशृङ्ग्यराटकी तीक्ष्णशृङ्गी व्यृषतु ॥६॥
आ इयम् अगन् ओषधीनाम् वीरुधाम् वीर्यावती ।अज-शृङ्गी अराटकी तीक्ष्ण-शृङ्गी व्यृषतु ॥६॥
ā iyam agan oṣadhīnām vīrudhām vīryāvatī .aja-śṛṅgī arāṭakī tīkṣṇa-śṛṅgī vyṛṣatu ..6..

आनृत्यतः शिखण्डिनो गन्धर्वस्याप्सरापतेः ।भिनद्मि मुष्कावपि यामि शेपः ॥७॥
आनृत्यतः शिखण्डिनः गन्धर्वस्य अप्सरा-पतेः ।भिनद्मि मुष्कौ अपि यामि शेपः ॥७॥
ānṛtyataḥ śikhaṇḍinaḥ gandharvasya apsarā-pateḥ .bhinadmi muṣkau api yāmi śepaḥ ..7..

भीमा इन्द्रस्य हेतयः शतमृष्टीरयस्मयीः ।ताभिर्हविरदान् गन्धर्वान् अवकादान् व्यृषतु ॥८॥
भीमाः इन्द्रस्य हेतयः शत-मृष्टीः अयस्मयीः ।ताभिः हविः-अदान् गन्धर्वान् अवक-आदान् व्यृषतु ॥८॥
bhīmāḥ indrasya hetayaḥ śata-mṛṣṭīḥ ayasmayīḥ .tābhiḥ haviḥ-adān gandharvān avaka-ādān vyṛṣatu ..8..

भीमा इन्द्रस्य हेतयः शतमृष्टीर्हिरण्ययीः ।ताभिर्हविरदान् गन्धर्वान् अवकादान् व्यृषतु ॥९॥
भीमाः इन्द्रस्य हेतयः शत-मृष्टीः हिरण्ययीः ।ताभिः हविः-अदान् गन्धर्वान् अवक-आदान् व्यृषतु ॥९॥
bhīmāḥ indrasya hetayaḥ śata-mṛṣṭīḥ hiraṇyayīḥ .tābhiḥ haviḥ-adān gandharvān avaka-ādān vyṛṣatu ..9..

अवकादान् अभिशोचान् अप्सु ज्योतय मामकान् ।पिशाचान्त्सर्वान् ओषधे प्र मृणीहि सहस्व च ॥१०॥
अवक-आदान् अभिशोचान् अप्सु ज्योतय मामकान् ।पिशाचान् सर्वान् ओषधे प्र मृणीहि सहस्व च ॥१०॥
avaka-ādān abhiśocān apsu jyotaya māmakān .piśācān sarvān oṣadhe pra mṛṇīhi sahasva ca ..10..

श्वेवैकः कपिरिवैकः कुमारः सर्वकेशकः ।प्रियो दृश इव भूत्वा गन्धर्वः सचते स्त्रियस्।तमितो नाशयामसि ब्रह्मणा वीर्यावता ॥११॥
श्वा इव एकः कपिः इव एकः कुमारः सर्व-केशकः ।प्रियः दृशः इव भूत्वा गन्धर्वः सचते स्त्रियः।तम् इतस् नाशयामसि ब्रह्मणा वीर्यावता ॥११॥
śvā iva ekaḥ kapiḥ iva ekaḥ kumāraḥ sarva-keśakaḥ .priyaḥ dṛśaḥ iva bhūtvā gandharvaḥ sacate striyaḥ.tam itas nāśayāmasi brahmaṇā vīryāvatā ..11..

जाया इद्वो अप्सरसो गन्धर्वाः पतयो यूयम् ।अप धावतामर्त्या मर्त्यान् मा सचध्वम् ॥१२॥
जायाः इद् वः अप्सरसः गन्धर्वाः पतयः यूयम् ।अप धावत अमर्त्याः मर्त्यान् मा सचध्वम् ॥१२॥
jāyāḥ id vaḥ apsarasaḥ gandharvāḥ patayaḥ yūyam .apa dhāvata amartyāḥ martyān mā sacadhvam ..12..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In