| |
|

This overlay will guide you through the buttons:

उद्भिन्दतीं संजयन्तीमप्सरां साधुदेविनीम् ।ग्लहे कृतानि कृण्वानामप्सरां तामिह हुवे ॥१॥
उद्भिन्दतीम् संजयन्तीम् अप्सराम् साधु-देविनीम् ।ग्लहे कृतानि कृण्वानाम् अप्सराम् ताम् इह हुवे ॥१॥
udbhindatīm saṃjayantīm apsarām sādhu-devinīm .glahe kṛtāni kṛṇvānām apsarām tām iha huve ..1..

विचिन्वतीमाकिरन्तीमप्सरां साधुदेविनीम् ।ग्लहे कृतानि गृह्णानामप्सरां तामिह हुवे ॥२॥
विचिन्वतीम् आकिरन्तीम् अप्सराम् साधु-देविनीम् ।ग्लहे कृतानि गृह्णानाम् अप्सराम् ताम् इह हुवे ॥२॥
vicinvatīm ākirantīm apsarām sādhu-devinīm .glahe kṛtāni gṛhṇānām apsarām tām iha huve ..2..

यायैः परिनृत्यत्याददाना कृतं ग्लहात्।सा नः कृतानि सीषती प्रहामाप्नोतु मायया ।सा नः पयस्वत्यैतु मा नो जैषुरिदं धनम् ॥३॥
परिनृत्यति आददाना कृतम् ग्लहात्।सा नः कृतानि सीषती प्रहाम् आप्नोतु मायया ।सा नः पयस्वती ऐतु मा नः जैषुः इदम् धनम् ॥३॥
parinṛtyati ādadānā kṛtam glahāt.sā naḥ kṛtāni sīṣatī prahām āpnotu māyayā .sā naḥ payasvatī aitu mā naḥ jaiṣuḥ idam dhanam ..3..

या अक्षेषु प्रमोदन्ते शुचं क्रोधं च बिभ्रती ।आनन्दिनीं प्रमोदिनीमप्सरां तामिह हुवे ॥४॥
याः अक्षेषु प्रमोदन्ते शुचम् क्रोधम् च बिभ्रती ।आनन्दिनीम् प्रमोदिनीम् अप्सराम् ताम् इह हुवे ॥४॥
yāḥ akṣeṣu pramodante śucam krodham ca bibhratī .ānandinīm pramodinīm apsarām tām iha huve ..4..

सूर्यस्य रश्मीन् अनु याः सञ्चरन्ति मरीचीर्वा या अनुसञ्चरन्ति ।यासामृषभो दूरतो वाजिनीवान्त्सद्यः सर्वान् लोकान् पर्येति रक्षन् ।स न ऐतु होममिमं जुषाणोऽन्तरिक्षेण सह वाजिनीवान् ॥५॥
सूर्यस्य रश्मीन् अनु याः सञ्चरन्ति मरीचीः वा याः अनुसञ्चरन्ति ।यासाम् ऋषभः दूरतस् वाजिनीवान् सद्यस् सर्वान् लोकान् पर्येति रक्षन् ।स नः ऐतु होमम् इमम् जुषाणः अन्तरिक्षेण सह वाजिनीवान् ॥५॥
sūryasya raśmīn anu yāḥ sañcaranti marīcīḥ vā yāḥ anusañcaranti .yāsām ṛṣabhaḥ dūratas vājinīvān sadyas sarvān lokān paryeti rakṣan .sa naḥ aitu homam imam juṣāṇaḥ antarikṣeṇa saha vājinīvān ..5..

अन्तरिक्षेण सह वाजिनीवन् कर्कीं वत्सामिह रक्ष वाजिन् ।इमे ते स्तोका बहुला एह्यर्वाङियं ते कर्कीह ते मनोऽस्तु ॥६॥
अन्तरिक्षेण सह वाजिनीवन् कर्कीम् वत्साम् इह रक्ष वाजिन् ।इमे ते स्तोकाः बहुलाः एहि अर्वाङ् इयम् ते कर्की इह ते मनः अस्तु ॥६॥
antarikṣeṇa saha vājinīvan karkīm vatsām iha rakṣa vājin .ime te stokāḥ bahulāḥ ehi arvāṅ iyam te karkī iha te manaḥ astu ..6..

अन्तरिक्षेण सह वाजिनीवन् कर्कीं वत्सामिह रक्ष वाजिन् ।अयं घासो अयं व्रज इह वत्सां नि बध्नीमः ।यथानाम व ईश्महे स्वाहा ॥७॥
अन्तरिक्षेण सह वाजिनीवन् कर्कीम् वत्साम् इह रक्ष वाजिन् ।अयम् घासः अयम् व्रजः इह वत्साम् नि बध्नीमः ।यथानाम वः ईश्महे स्वाहा ॥७॥
antarikṣeṇa saha vājinīvan karkīm vatsām iha rakṣa vājin .ayam ghāsaḥ ayam vrajaḥ iha vatsām ni badhnīmaḥ .yathānāma vaḥ īśmahe svāhā ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In