| |
|

This overlay will guide you through the buttons:

ये पुरस्ताज्जुह्वति जातवेदः प्राच्या दिशोऽभिदासन्त्यस्मान् ।अग्निमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥१॥
ये पुरस्तात् जुह्वति जातवेदः प्राच्याः दिशः अभिदासन्ति अस्मान् ।अग्निम् ऋत्वा ते पराञ्चः व्यथन्ताम् प्रत्यक् एनान् प्रतिसरेण हन्मि ॥१॥
ye purastāt juhvati jātavedaḥ prācyāḥ diśaḥ abhidāsanti asmān .agnim ṛtvā te parāñcaḥ vyathantām pratyak enān pratisareṇa hanmi ..1..

ये दक्षिणतो जुह्वति जातवेदो दक्षिणाया दिशोऽभिदासन्त्यस्मान् ।यममृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेना प्रतिसरेण हन्मि ॥२॥
ये दक्षिणतस् जुह्वति जातवेदः दक्षिणायाः दिशः अभिदासन्ति अस्मान् ।यमम् ऋत्वा ते पराञ्चः व्यथन्ताम् प्रत्यगेन प्रतिसरेण हन्मि ॥२॥
ye dakṣiṇatas juhvati jātavedaḥ dakṣiṇāyāḥ diśaḥ abhidāsanti asmān .yamam ṛtvā te parāñcaḥ vyathantām pratyagena pratisareṇa hanmi ..2..

ये पश्चाज्जुह्वति जातवेदः प्रतीच्या दिशोऽभिदासन्त्यस्मान् ।वरुणमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥३॥
ये पश्चात् जुह्वति जातवेदः प्रतीच्याः दिशः अभिदासन्ति अस्मान् ।वरुणम् ऋत्वा ते पराञ्चः व्यथन्ताम् प्रत्यक् एनान् प्रतिसरेण हन्मि ॥३॥
ye paścāt juhvati jātavedaḥ pratīcyāḥ diśaḥ abhidāsanti asmān .varuṇam ṛtvā te parāñcaḥ vyathantām pratyak enān pratisareṇa hanmi ..3..

य उत्तरतो जुह्वति जातवेद उदीच्या दिशोऽभिदासन्त्यस्मान् ।सोममृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥४॥
ये उत्तरतस् जुह्वति जातवेदः उदीच्याः दिशः अभिदासन्ति अस्मान् ।सोमम् ऋत्वा ते पराञ्चः व्यथन्ताम् प्रत्यक् एनान् प्रतिसरेण हन्मि ॥४॥
ye uttaratas juhvati jātavedaḥ udīcyāḥ diśaḥ abhidāsanti asmān .somam ṛtvā te parāñcaḥ vyathantām pratyak enān pratisareṇa hanmi ..4..

येऽधस्ताज्जुह्वति जातवेद उदीच्या दिशोऽभिदासन्त्यस्मान् ।भूमिमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥५॥
ये अधस्तात् जुह्वति जातवेदः उदीच्याः दिशः अभिदासन्ति अस्मान् ।भूमिम् ऋत्वा ते पराञ्चः व्यथन्ताम् प्रत्यक् एनान् प्रतिसरेण हन्मि ॥५॥
ye adhastāt juhvati jātavedaḥ udīcyāḥ diśaḥ abhidāsanti asmān .bhūmim ṛtvā te parāñcaḥ vyathantām pratyak enān pratisareṇa hanmi ..5..

येऽन्तरिक्षाज्जुह्वति जातवेदो व्यध्वाया दिशोऽभिदासन्त्यस्मान् ।वायुमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥६॥
ये अन्तरिक्षात् जुह्वति जातवेदः व्यध्वायाः दिशः अभिदासन्ति अस्मान् ।वायुम् ऋत्वा ते पराञ्चः व्यथन्ताम् प्रत्यक् एनान् प्रतिसरेण हन्मि ॥६॥
ye antarikṣāt juhvati jātavedaḥ vyadhvāyāḥ diśaḥ abhidāsanti asmān .vāyum ṛtvā te parāñcaḥ vyathantām pratyak enān pratisareṇa hanmi ..6..

य उपरिष्टाज्जुह्वति जातवेद ऊर्ध्वाया दिशोऽभिदासन्त्यस्मान् ।सूर्यमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥७॥
ये उपरिष्टात् जुह्वति जातवेदः ऊर्ध्वायाः दिशः अभिदासन्ति अस्मान् ।सूर्यम् ऋत्वा ते पराञ्चः व्यथन्ताम् प्रत्यक् एनान् प्रतिसरेण हन्मि ॥७॥
ye upariṣṭāt juhvati jātavedaḥ ūrdhvāyāḥ diśaḥ abhidāsanti asmān .sūryam ṛtvā te parāñcaḥ vyathantām pratyak enān pratisareṇa hanmi ..7..

ये दिशामन्तर्देशेभ्यो जुह्वति जातवेदः सर्वाभ्यो दिग्भ्योऽभिदासन्ति अस्मान् ।ब्रह्म र्त्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥८॥
ये दिशाम् अन्तर्देशेभ्यः जुह्वति जातवेदः सर्वाभ्यः दिग्भ्यः अभिदासन्ति अस्मान् ।ब्रह्म र्त्वा ते पराञ्चः व्यथन्ताम् प्रत्यक् एनान् प्रतिसरेण हन्मि ॥८॥
ye diśām antardeśebhyaḥ juhvati jātavedaḥ sarvābhyaḥ digbhyaḥ abhidāsanti asmān .brahma rtvā te parāñcaḥ vyathantām pratyak enān pratisareṇa hanmi ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In