| |
|

This overlay will guide you through the buttons:

सहस्रशृङ्गो वृषभो यः समुद्रादुदाचरत्।तेना सहस्येना वयं नि जनान्त्स्वापयामसि ॥१॥
सहस्र-शृङ्गः वृषभः यः समुद्रात् उदाचरत्।तेन सहस्येन वयम् नि जनान् स्वापयामसि ॥१॥
sahasra-śṛṅgaḥ vṛṣabhaḥ yaḥ samudrāt udācarat.tena sahasyena vayam ni janān svāpayāmasi ..1..

न भूमिं वातो अति वाति नाति पश्यति कश्चन ।स्त्रियश्च सर्वाः स्वापय शुनश्चेन्द्रसखा चरन् ॥२॥
न भूमिम् वातः अति वाति न अति पश्यति कश्चन ।स्त्रियः च सर्वाः स्वापय शुनः च इन्द्र-सखा चरन् ॥२॥
na bhūmim vātaḥ ati vāti na ati paśyati kaścana .striyaḥ ca sarvāḥ svāpaya śunaḥ ca indra-sakhā caran ..2..

प्रोष्ठेशयास्तल्पेशया नारीर्या वह्यशीवरीः ।स्त्रियो याः पुण्यगन्धयस्ताः सर्वाः स्वापयामसि ॥३॥
प्रोष्ठेशयाः तल्पेशयाः नारीः याः वह्य-शीवरीः ।स्त्रियः याः पुण्य-गन्धयः ताः सर्वाः स्वापयामसि ॥३॥
proṣṭheśayāḥ talpeśayāḥ nārīḥ yāḥ vahya-śīvarīḥ .striyaḥ yāḥ puṇya-gandhayaḥ tāḥ sarvāḥ svāpayāmasi ..3..

एजदेजदजग्रभं चक्षुः प्राणमजग्रभम् ।अङ्गान्यजग्रभं सर्वा रात्रीणामतिशर्वरे ॥४॥
एजत् एजत् अजग्रभम् चक्षुः प्राणम् अजग्रभम् ।अङ्गानि अजग्रभम् सर्वाः रात्रीणाम् अतिशर्वरे ॥४॥
ejat ejat ajagrabham cakṣuḥ prāṇam ajagrabham .aṅgāni ajagrabham sarvāḥ rātrīṇām atiśarvare ..4..

य आस्ते यश्चरति यश्च तिष्ठन् विपश्यति ।तेषां सं दध्मो अक्षीणि यथेदं हर्म्यं तथा ॥५॥
यः आस्ते यः चरति यः च तिष्ठन् विपश्यति ।तेषाम् सम् दध्मः अक्षीणि यथा इदम् हर्म्यम् तथा ॥५॥
yaḥ āste yaḥ carati yaḥ ca tiṣṭhan vipaśyati .teṣām sam dadhmaḥ akṣīṇi yathā idam harmyam tathā ..5..

स्वप्तु माता स्वप्तु पिता स्वप्तु श्वा स्वप्तु विश्पतिः ।स्वपन्त्वस्यै ज्ञातयः स्वप्त्वयमभितो जनः ॥६॥
स्वप्तु माता स्वप्तु पिता स्वप्तु श्वा स्वप्तु विश्पतिः ।स्वपन्तु अस्यै ज्ञातयः स्वप्तु अयम् अभितस् जनः ॥६॥
svaptu mātā svaptu pitā svaptu śvā svaptu viśpatiḥ .svapantu asyai jñātayaḥ svaptu ayam abhitas janaḥ ..6..

स्वप्न स्वप्नाभिकरणेन सर्वं नि स्वापया जनम् ।ओत्सूर्यमन्यान्त्स्वापयाव्युषं जागृतादहमिन्द्र इवारिष्टो अक्षितः ॥७॥
स्वप्न स्वप्न-अभिकरणेन सर्वम् नि स्वापय जनम् ।आ उत्सूर्यम् अन्यान् स्वापय आव्युषम् जागृतात् अहम् इन्द्रः इव अरिष्टः अक्षितः ॥७॥
svapna svapna-abhikaraṇena sarvam ni svāpaya janam .ā utsūryam anyān svāpaya āvyuṣam jāgṛtāt aham indraḥ iva ariṣṭaḥ akṣitaḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In