| |
|

This overlay will guide you through the buttons:

भूतो भूतेषु पय आ दधाति स भूतानामधिपतिर्बभूव ।तस्य मृत्युश्चरति राजसूयं स राजा अनु मन्यतामिदम् ॥१॥
भूतः भूतेषु पयः आ दधाति स भूतानाम् अधिपतिः बभूव ।तस्य मृत्युः चरति राजसूयम् स राजा अनु मन्यताम् इदम् ॥१॥
bhūtaḥ bhūteṣu payaḥ ā dadhāti sa bhūtānām adhipatiḥ babhūva .tasya mṛtyuḥ carati rājasūyam sa rājā anu manyatām idam ..1..

अभि प्रेहि माप वेन उग्रश्चेत्ता सपत्नहा ।आ तिष्ठ मित्रवर्धन तुभ्यं देवा अधि ब्रुवन् ॥२॥
अभि प्रेहि मा अप वेनः उग्रः चेत्ता सपत्न-हा ।आ तिष्ठ मित्र-वर्धन तुभ्यम् देवाः अधि ब्रुवन् ॥२॥
abhi prehi mā apa venaḥ ugraḥ cettā sapatna-hā .ā tiṣṭha mitra-vardhana tubhyam devāḥ adhi bruvan ..2..

आतिष्ठन्तं परि विश्वे अभूषं छ्रियं वसानश्चरति स्वरोचिः ।महत्तद्वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ ॥३॥
आतिष्ठन्तम् परि विश्वे अभूषम् छ्रियम् वसानः चरति स्व-रोचिः ।महत् तत् वृष्णः असुरस्य नाम आ विश्व-रूपः अमृतानि तस्थौ ॥३॥
ātiṣṭhantam pari viśve abhūṣam chriyam vasānaḥ carati sva-rociḥ .mahat tat vṛṣṇaḥ asurasya nāma ā viśva-rūpaḥ amṛtāni tasthau ..3..

व्याघ्रो अधि वैयाघ्रे वि क्रमस्व दिशो महीः ।विशस्त्वा सर्वा वाञ्छन्त्वापो दिव्याः पयस्वतीः ॥४॥
व्याघ्रः अधि वैयाघ्रे वि क्रमस्व दिशः महीः ।विशः त्वा सर्वाः वाञ्छन्तु आपः दिव्याः पयस्वतीः ॥४॥
vyāghraḥ adhi vaiyāghre vi kramasva diśaḥ mahīḥ .viśaḥ tvā sarvāḥ vāñchantu āpaḥ divyāḥ payasvatīḥ ..4..

या आपो दिव्याः पयसा मदन्त्यन्तरिक्ष उत वा पृथिव्याम् ।तासां त्वा सर्वासामपामभि षिञ्चामि वर्चसा ॥५॥
याः आपः दिव्याः पयसा मदन्ति अन्तरिक्षे उत वा पृथिव्याम् ।तासाम् त्वा सर्वासाम् अपाम् अभि सिञ्चामि वर्चसा ॥५॥
yāḥ āpaḥ divyāḥ payasā madanti antarikṣe uta vā pṛthivyām .tāsām tvā sarvāsām apām abhi siñcāmi varcasā ..5..

अभि त्वा वर्चसासिचन्न् आपो दिव्याः पयस्वतीः ।यथासो मित्रवर्धनस्तथा त्वा सविता करत्॥६॥
अभि त्वा वर्चसा असिचन् आपः दिव्याः पयस्वतीः ।यथा असः मित्र-वर्धनः तथा त्वा सविता करत्॥६॥
abhi tvā varcasā asican āpaḥ divyāḥ payasvatīḥ .yathā asaḥ mitra-vardhanaḥ tathā tvā savitā karat..6..

एना व्याघ्रं परिषस्वजानाः सिंहं हिन्वन्ति महते सौभगाय ।समुद्रं न सुभुवस्तस्थिवांसं मर्मृज्यन्ते द्वीपिनमप्स्वन्तः ॥७॥
एना व्याघ्रम् परिषस्वजानाः सिंहम् हिन्वन्ति महते सौभगाय ।समुद्रम् न सुभुवः तस्थिवांसम् मर्मृज्यन्ते द्वीपिनम् अप्सु अन्तर् ॥७॥
enā vyāghram pariṣasvajānāḥ siṃham hinvanti mahate saubhagāya .samudram na subhuvaḥ tasthivāṃsam marmṛjyante dvīpinam apsu antar ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In