| |
|

This overlay will guide you through the buttons:

एहि जीवं त्रायमाणं पर्वतस्यास्यक्ष्यम् ।विश्वेभिर्देवैर्दत्तं परिधिर्जीवनाय कम् ॥१॥
एहि जीवम् त्रायमाणम् पर्वतस्य अस्यक्ष्यम् ।विश्वेभिः देवैः दत्तम् परिधिः जीवनाय कम् ॥१॥
ehi jīvam trāyamāṇam parvatasya asyakṣyam .viśvebhiḥ devaiḥ dattam paridhiḥ jīvanāya kam ..1..

परिपाणं पुरुषाणां परिपाणं गवामसि ।अश्वानामर्वतां परिपाणाय तस्थिषे ॥२॥
परिपाणम् पुरुषाणाम् परिपाणम् गवाम् असि ।अश्वानाम् अर्वताम् परिपाणाय तस्थिषे ॥२॥
paripāṇam puruṣāṇām paripāṇam gavām asi .aśvānām arvatām paripāṇāya tasthiṣe ..2..

उतासि परिपाणं यातुजम्भनमाञ्जन ।उतामृतस्य त्वं वेत्थाथो असि जीवभोजनमथो हरितभेषजम् ॥३॥
उत असि परिपाणम् यातु-जम्भनम् आञ्जन ।उत अमृतस्य त्वम् वेत्थ अथो असि जीव-भोजनम् अथो हरित-भेषजम् ॥३॥
uta asi paripāṇam yātu-jambhanam āñjana .uta amṛtasya tvam vettha atho asi jīva-bhojanam atho harita-bheṣajam ..3..

यस्याञ्जन प्रसर्पस्यङ्गमङ्गं परुष्परुः ।ततो यक्ष्मं वि बाधस उग्रो मध्यमशीरिव ॥४॥
यस्य आञ्जन प्रसर्पसि अङ्गम् अङ्गम् परुः परुः ।ततस् यक्ष्मम् वि बाधसे उग्रः मध्यमशीः इव ॥४॥
yasya āñjana prasarpasi aṅgam aṅgam paruḥ paruḥ .tatas yakṣmam vi bādhase ugraḥ madhyamaśīḥ iva ..4..

नैनं प्राप्नोति शपथो न कृत्या नाभिशोचनम् ।नैनं विष्कन्धमश्नुते यस्त्वा बिभर्त्याञ्जन ॥५॥
न एनम् प्राप्नोति शपथः न कृत्या न अभिशोचनम् ।न एनम् विष्कन्धम् अश्नुते यः त्वा बिभर्ति आञ्जन ॥५॥
na enam prāpnoti śapathaḥ na kṛtyā na abhiśocanam .na enam viṣkandham aśnute yaḥ tvā bibharti āñjana ..5..

असन्मन्त्राद्दुष्वप्न्याद्दुष्कृताच्छमलादुत ।दुर्हार्दश्चक्षुषो घोरात्तस्मान् नः पाह्याञ्जन ॥६॥
असत्-मन्त्रात् दुष्वप्न्यात् दुष्कृतात् शमलात् उत ।दुर्हार्दः चक्षुषः घोरात् तस्मात् नः पाहि आञ्जन ॥६॥
asat-mantrāt duṣvapnyāt duṣkṛtāt śamalāt uta .durhārdaḥ cakṣuṣaḥ ghorāt tasmāt naḥ pāhi āñjana ..6..

इदं विद्वान् आञ्जन सत्यं वक्ष्यामि नानृतम् ।सनेयमश्वं गामहमात्मानं तव पूरुष ॥७॥
इदम् विद्वान् आञ्जन सत्यम् वक्ष्यामि न अनृतम् ।सनेयम् अश्वम् गाम् अहम् आत्मानम् तव पूरुष ॥७॥
idam vidvān āñjana satyam vakṣyāmi na anṛtam .saneyam aśvam gām aham ātmānam tava pūruṣa ..7..

त्रयो दासा आञ्जनस्य तक्मा बलास आदहिः ।वर्षिष्ठः पर्वतानां त्रिककुन् नाम ते पिता ॥८॥
त्रयः दासाः आञ्जनस्य तक्मा बलासः आदहिः ।वर्षिष्ठः पर्वतानाम् त्रिककुद् नाम ते पिता ॥८॥
trayaḥ dāsāḥ āñjanasya takmā balāsaḥ ādahiḥ .varṣiṣṭhaḥ parvatānām trikakud nāma te pitā ..8..

यदाञ्जनं त्रैककुदं जातं हिमवतस्परि ।यातूंश्च सर्वाञ्जम्भयत्सर्वाश्च यातुधान्यः ॥९॥
यदा अञ्जनम् त्रैककुदम् जातम् हिमवतः परि ।यातून् च सर्वान् जम्भयत् सर्वाः च यातुधान्यः ॥९॥
yadā añjanam traikakudam jātam himavataḥ pari .yātūn ca sarvān jambhayat sarvāḥ ca yātudhānyaḥ ..9..

यदि वासि त्रैककुदं यदि यामुनमुच्यसे ।उभे ते भद्रे नाम्नी ताभ्यां नः पाह्याञ्जन ॥१०॥
यदि वा असि त्रैककुदम् यदि यामुनम् उच्यसे ।उभे ते भद्रे नाम्नी ताभ्याम् नः पाहि आञ्जन ॥१०॥
yadi vā asi traikakudam yadi yāmunam ucyase .ubhe te bhadre nāmnī tābhyām naḥ pāhi āñjana ..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In