| |
|

This overlay will guide you through the buttons:

कथं महे असुरायाब्रवीरिह कथं पित्रे हरये त्वेषनृम्णः ।पृश्निं वरुण दक्षिणां ददावान् पुनर्मघ त्वं मनसाचिकित्सीः ॥१॥
कथम् महे असुराय अब्रवीः इह कथम् पित्रे हरये त्वेष-नृम्णः ।पृश्निम् वरुण दक्षिणाम् ददावान् पुनर्मघ त्वम् मनसा अचिकित्सीः ॥१॥
katham mahe asurāya abravīḥ iha katham pitre haraye tveṣa-nṛmṇaḥ .pṛśnim varuṇa dakṣiṇām dadāvān punarmagha tvam manasā acikitsīḥ ..1..

न कामेन पुनर्मघो भवामि सं चक्षे कं पृश्निमेतामुपाजे ।केन नु त्वमथर्वन् काव्येन केन जातेनासि जातवेदाः ॥२॥
न कामेन पुनर्मघः भवामि सम् चक्षे कम् पृश्निम् एताम् उपाजे ।केन नु त्वम् अथर्वन् काव्येन केन जातेन असि जातवेदाः ॥२॥
na kāmena punarmaghaḥ bhavāmi sam cakṣe kam pṛśnim etām upāje .kena nu tvam atharvan kāvyena kena jātena asi jātavedāḥ ..2..

सत्यमहं गभीरः काव्येन सत्यं जातेनास्मि जातवेदाः ।न मे दासो नार्यो महित्वा व्रतं मीमाय यदहं धरिष्ये ॥३॥
सत्यम् अहम् गभीरः काव्येन सत्यम् जातेन अस्मि जातवेदाः ।न मे दासः न अर्यः महित्वा व्रतम् मीमाय यत् अहम् धरिष्ये ॥३॥
satyam aham gabhīraḥ kāvyena satyam jātena asmi jātavedāḥ .na me dāsaḥ na aryaḥ mahitvā vratam mīmāya yat aham dhariṣye ..3..

न त्वदन्यः कवितरो न मेधया धीरतरो वरुण स्वधावन् ।त्वं ता विश्वा भुवनानि वेत्थ स चिन् नु त्वज्जनो मायी बिभाय ॥४॥
न त्वत् अन्यः कवितरः न मेधया धीरतरः वरुण स्वधावन् ।त्वम् ता विश्वा भुवनानि वेत्थ स चित् नु त्वद्-जनः मायी बिभाय ॥४॥
na tvat anyaḥ kavitaraḥ na medhayā dhīrataraḥ varuṇa svadhāvan .tvam tā viśvā bhuvanāni vettha sa cit nu tvad-janaḥ māyī bibhāya ..4..

त्वं ह्यङ्ग वरुण स्वधावन् विश्वा वेत्थ जनिम सुप्रणीते ।किं रजस एना परो अन्यदस्त्येना किं परेणावरममुर ॥५॥
त्वम् हि अङ्ग वरुण स्वधावन् विश्वा वेत्थ जनिम सु प्रणीते ।किम् रजसः एना परस् अन्यत् अस्ति एना किम् परेण अवरम् अमुर ॥५॥
tvam hi aṅga varuṇa svadhāvan viśvā vettha janima su praṇīte .kim rajasaḥ enā paras anyat asti enā kim pareṇa avaram amura ..5..

एकं रजस एना परो अन्यदस्त्येना पर एकेन दुर्णशं चिदर्वाक्।तत्ते विद्वान् वरुण प्र ब्रवीम्यधोवचसः पणयो भवन्तु नीचैर्दासा उप सर्पन्तु भूमिम् ॥६॥
एकम् रजसः एना परस् अन्यत् अस्ति एना परस् एकेन दुर्णशम् चित् अर्वाक्।तत् ते विद्वान् वरुण प्र ब्रवीमि अधोवचसः पणयः भवन्तु नीचैस् दासाः उप सर्पन्तु भूमिम् ॥६॥
ekam rajasaḥ enā paras anyat asti enā paras ekena durṇaśam cit arvāk.tat te vidvān varuṇa pra bravīmi adhovacasaḥ paṇayaḥ bhavantu nīcais dāsāḥ upa sarpantu bhūmim ..6..

त्वं ह्यङ्ग वरुण ब्रवीषि पुनर्मघेष्ववद्यानि भूरि ।मो षु पणींरभ्येतावतो भून् मा त्वा वोचन्न् अराधसं जनासः ॥७॥
त्वम् हि अङ्ग वरुण ब्रवीषि पुनर्मघेषु अवद्यानि भूरि ।मा उ सु भूत् मा त्वा वोचन् अराधसम् जनासः ॥७॥
tvam hi aṅga varuṇa bravīṣi punarmagheṣu avadyāni bhūri .mā u su bhūt mā tvā vocan arādhasam janāsaḥ ..7..

मा मा वोचन्न् अराधसं जनासः पुनस्ते पृश्निं जरितर्ददामि ।स्तोत्रं मे विश्वमा याहि शचीभिरन्तर्विश्वासु मानुषीषु दिक्षु ॥८॥
मा मा वोचन् अराधसम् जनासः पुनर् ते पृश्निम् जरितर् ददामि ।स्तोत्रम् मे विश्वम् आ याहि शचीभिः अन्तर् विश्वासु मानुषीषु दिक्षु ॥८॥
mā mā vocan arādhasam janāsaḥ punar te pṛśnim jaritar dadāmi .stotram me viśvam ā yāhi śacībhiḥ antar viśvāsu mānuṣīṣu dikṣu ..8..

आ ते स्तोत्राण्युद्यतानि यन्त्वन्तर्विश्वासु मानुषीषु दिक्षु ।देहि नु मे यन् मे अदत्तो असि युज्यो मे सप्तपदः सखासि ॥९॥
आ ते स्तोत्राणि उद्यतानि यन्तु अन्तर् विश्वासु मानुषीषु दिक्षु ।देहि नु मे यत् मे अ दत्तः असि युज्यः मे सप्त-पदः सखा असि ॥९॥
ā te stotrāṇi udyatāni yantu antar viśvāsu mānuṣīṣu dikṣu .dehi nu me yat me a dattaḥ asi yujyaḥ me sapta-padaḥ sakhā asi ..9..

समा नौ बन्धुर्वरुण समा जा वेदाहं तद्यन् नावेषा समा जा ।ददामि तद्यत्ते अदत्तो अस्मि युज्यस्ते सप्तपदः सखास्मि ॥१०॥
समाः नौ बन्धुः वरुण समाः जाः वेद अहम् तत् यत् नौ ईषा समा जा ।ददामि तत् यत् ते अ दत्तः अस्मि युज्यः ते सप्त-पदः सखा अस्मि ॥१०॥
samāḥ nau bandhuḥ varuṇa samāḥ jāḥ veda aham tat yat nau īṣā samā jā .dadāmi tat yat te a dattaḥ asmi yujyaḥ te sapta-padaḥ sakhā asmi ..10..

देवो देवाय गृणते वयोधा विप्रो विप्राय स्तुवते सुमेधाः ।अजीजनो हि वरुण स्वधावन्न् अथर्वाणं पितरं देवबन्धुम् ।तस्मा उ राधः कृणुहि सुप्रशस्तं सखा नो असि परमं च बन्धुः ॥११॥
देवः देवाय गृणते वयः-धाः विप्रः विप्राय स्तुवते सुमेधाः ।अजीजनः हि वरुण स्वधावन् अथर्वाणम् पितरम् देव-बन्धुम् ।तस्मै उ राधः कृणुहि सु प्रशस्तम् सखा नः असि परमम् च बन्धुः ॥११॥
devaḥ devāya gṛṇate vayaḥ-dhāḥ vipraḥ viprāya stuvate sumedhāḥ .ajījanaḥ hi varuṇa svadhāvan atharvāṇam pitaram deva-bandhum .tasmai u rādhaḥ kṛṇuhi su praśastam sakhā naḥ asi paramam ca bandhuḥ ..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In