| |
|

This overlay will guide you through the buttons:

समिद्धो अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः ।आ च वह मित्रमहश्चिकित्वान् त्वं दूतः कविरसि प्रचेताः ॥१॥
समिद्धः अद्य मनुषः दुरोणे देवः देवान् यजसि जातवेदः ।आ च वह मित्र-महस् चिकित्वान् त्वम् दूतः कविः असि प्रचेताः ॥१॥
samiddhaḥ adya manuṣaḥ duroṇe devaḥ devān yajasi jātavedaḥ .ā ca vaha mitra-mahas cikitvān tvam dūtaḥ kaviḥ asi pracetāḥ ..1..

तनूनपात्पथ ऋतस्य यानान् मध्वा समञ्जन्त्स्वदया सुजिह्व ।मन्मानि धीभिरुत यज्ञमृन्धन् देवत्रा च कृणुह्यध्वरं नः ॥२॥
तनूनपात् पथः ऋतस्य यानान् मध्वा समञ्जन् स्वदय सुजिह्व ।मन्मानि धीभिः उत यज्ञम् ऋन्धन् देवत्रा च कृणुहि अध्वरम् नः ॥२॥
tanūnapāt pathaḥ ṛtasya yānān madhvā samañjan svadaya sujihva .manmāni dhībhiḥ uta yajñam ṛndhan devatrā ca kṛṇuhi adhvaram naḥ ..2..

आजुह्वान ईड्यो बन्द्यश्चा याह्यग्ने वसुभिः सजोषाः ।त्वं देवानामसि यह्व होता स एनान् यक्षीषितो यजीयान् ॥३॥
आजुह्वानः ईड्यः बन्द्यः च आ याहि अग्ने वसुभिः सजोषाः ।त्वम् देवानाम् असि यह्व होता सः एनान् यक्षि इषितः यजीयान् ॥३॥
ājuhvānaḥ īḍyaḥ bandyaḥ ca ā yāhi agne vasubhiḥ sajoṣāḥ .tvam devānām asi yahva hotā saḥ enān yakṣi iṣitaḥ yajīyān ..3..

प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यते अग्रे अह्नाम् ।व्यु प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ॥४॥
प्राचीनम् बर्हिः प्रदिशा पृथिव्याः वस्तोः अस्याः वृज्यते अग्रे अह्नाम् ।व्यु प्रथते वितरम् वरीयः देवेभ्यः अदितये स्योनम् ॥४॥
prācīnam barhiḥ pradiśā pṛthivyāḥ vastoḥ asyāḥ vṛjyate agre ahnām .vyu prathate vitaram varīyaḥ devebhyaḥ aditaye syonam ..4..

व्यचस्वतीरुर्विया वि श्रयन्तां पतिभ्यो न जनयः शुम्भमानाः ।देवीर्द्वारो बृहतीर्विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ॥५॥
व्यचस्वतीः उर्विया वि श्रयन्ताम् पतिभ्यः न जनयः शुम्भमानाः ।देवीः द्वारः बृहतीः विश्वमिन्वाः देवेभ्यः भवत सु प्रायणाः ॥५॥
vyacasvatīḥ urviyā vi śrayantām patibhyaḥ na janayaḥ śumbhamānāḥ .devīḥ dvāraḥ bṛhatīḥ viśvaminvāḥ devebhyaḥ bhavata su prāyaṇāḥ ..5..

आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ ।दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ॥६॥
आ यजते उपाके उषासानक्ता सदताम् नि योनौ ।दिव्ये योषणे बृहती सु रुक्मे अधि श्रियम् शुक्रपिशम् दधाने ॥६॥
ā yajate upāke uṣāsānaktā sadatām ni yonau .divye yoṣaṇe bṛhatī su rukme adhi śriyam śukrapiśam dadhāne ..6..

दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै ।प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ॥७॥
दैव्या होतारा प्रथमा सु वाचा मिमाना यज्ञम् मनुषः यजध्यै ।प्रचोदयन्ता विदथेषु कारू प्राचीनम् ज्योतिः प्रदिशा दिशन्ता ॥७॥
daivyā hotārā prathamā su vācā mimānā yajñam manuṣaḥ yajadhyai .pracodayantā vidatheṣu kārū prācīnam jyotiḥ pradiśā diśantā ..7..

आ नो यज्ञं भारती तूयमेत्विडा मनुष्वदिह चेतयन्ती ।तिस्रो देवीर्बर्हिरेदं स्योनं सरस्वतीः स्वपसः सदन्ताम् ॥८॥
आ नः यज्ञम् भारती तूयम् एतु इडा मनुष्वत् इह चेतयन्ती ।तिस्रः देवीः बर्हिः आ इदम् स्योनम् सरस्वतीः सु अपसः सदन्ताम् ॥८॥
ā naḥ yajñam bhāratī tūyam etu iḍā manuṣvat iha cetayantī .tisraḥ devīḥ barhiḥ ā idam syonam sarasvatīḥ su apasaḥ sadantām ..8..

य इमे द्यावापृथिवी जनित्री रूपैरपिंशद्भुवनानि विश्वा ।तमद्य होतरिषितो यजीयान् देवं त्वष्टारमिह यक्षि विद्वान् ॥९॥
यः इमे द्यावापृथिवी जनित्री रूपैः अपिंशत् भुवनानि विश्वा ।तम् अद्य होतर् इषितः यजीयान् देवम् त्वष्टारम् इह यक्षि विद्वान् ॥९॥
yaḥ ime dyāvāpṛthivī janitrī rūpaiḥ apiṃśat bhuvanāni viśvā .tam adya hotar iṣitaḥ yajīyān devam tvaṣṭāram iha yakṣi vidvān ..9..

उपावसृज त्मन्या समञ्जन् देवानां पाथ ऋतुथा हवींषि ।वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यं मधुना घृतेन ॥१०॥
उप अवसृज त्मन्या समञ्जन् देवानाम् पाथः ऋतुथा हवींषि ।वनस्पतिः शमिता देवः अग्निः स्वदन्तु हव्यम् मधुना घृतेन ॥१०॥
upa avasṛja tmanyā samañjan devānām pāthaḥ ṛtuthā havīṃṣi .vanaspatiḥ śamitā devaḥ agniḥ svadantu havyam madhunā ghṛtena ..10..

सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः ।अस्य होतुः प्रशिष्यृतस्य वाचि स्वाहाकृतं हविरदन्तु देवाः ॥११॥
सद्यस् जातः व्यमिमीत यज्ञम् अग्निः देवानाम् अभवत् पुरोगाः ।अस्य होतुः प्रशिष्य-ऋतस्य वाचि स्वाहाकृतम् हविः अदन्तु देवाः ॥११॥
sadyas jātaḥ vyamimīta yajñam agniḥ devānām abhavat purogāḥ .asya hotuḥ praśiṣya-ṛtasya vāci svāhākṛtam haviḥ adantu devāḥ ..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In