| |
|

This overlay will guide you through the buttons:

ददिर्हि मह्यं वरुणो दिवः कविर्वचोभिरुग्रैर्नि रिणामि ते विषम् ।खातमखातमुत सक्तमग्रभमिरेव धन्वन् नि जजास ते विषम् ॥१॥
ददिः हि मह्यम् वरुणः दिवः कविः वचोभिः उग्रैः नि रिणामि ते विषम् ।खातम् अखातम् उत सक्तम् अग्रभमिः एव धन्वन् नि जजास ते विषम् ॥१॥
dadiḥ hi mahyam varuṇaḥ divaḥ kaviḥ vacobhiḥ ugraiḥ ni riṇāmi te viṣam .khātam akhātam uta saktam agrabhamiḥ eva dhanvan ni jajāsa te viṣam ..1..

यत्ते अपोदकं विषं तत्त एतास्वग्रभम् ।गृह्णामि ते मध्यममुत्तमं रसमुतावमं भियसा नेशदादु ते ॥२॥
यत् ते अपोदकम् विषम् तत् ते एतासु अग्रभम् ।गृह्णामि ते मध्यमम् उत्तमम् रसम् उत अवमम् भियसा ते ॥२॥
yat te apodakam viṣam tat te etāsu agrabham .gṛhṇāmi te madhyamam uttamam rasam uta avamam bhiyasā te ..2..

वृषा मे रवो नभसा न तन्यतुरुग्रेण ते वचसा बाध आदु ते ।अहं तमस्य नृभिरग्रभं रसं तमस इव ज्योतिरुदेतु सूर्यः ॥३॥
वृषा मे रवः नभसा न तन्यतुः उग्रेण ते वचसा बाधः आदु ते ।अहम् तमस्य नृभिः अग्रभम् रसम् तमसः इव ज्योतिः उदेतु सूर्यः ॥३॥
vṛṣā me ravaḥ nabhasā na tanyatuḥ ugreṇa te vacasā bādhaḥ ādu te .aham tamasya nṛbhiḥ agrabham rasam tamasaḥ iva jyotiḥ udetu sūryaḥ ..3..

चक्षुषा ते चक्षुर्हन्मि विषेण हन्मि ते विषम् ।अहे म्रियस्व मा जीवीः प्रत्यगभ्येतु त्वा विषम् ॥४॥
चक्षुषा ते चक्षुः हन्मि विषेण हन्मि ते विषम् ।अहे म्रियस्व मा जीवीः प्रत्यक् अभ्येतु त्वा विषम् ॥४॥
cakṣuṣā te cakṣuḥ hanmi viṣeṇa hanmi te viṣam .ahe mriyasva mā jīvīḥ pratyak abhyetu tvā viṣam ..4..

कैरात पृश्न उपतृण्य बभ्र आ मे शृणुतासिता अलीकाः ।मा मे सख्युः स्तामानमपि ष्ठाताश्रावयन्तो नि विषे रमध्वम् ॥५॥
कैरात पृश्ने उपतृण्य बभ्रो आ मे शृणुत असिताः अलीकाः ।मा मे सख्युः स्तामानम् अपि स्थात आ श्रावयन्तः नि विषे रमध्वम् ॥५॥
kairāta pṛśne upatṛṇya babhro ā me śṛṇuta asitāḥ alīkāḥ .mā me sakhyuḥ stāmānam api sthāta ā śrāvayantaḥ ni viṣe ramadhvam ..5..

असितस्य तैमातस्य बभ्रोरपोदकस्य च ।सात्रासाहस्याहं मन्योरव ज्यामिव धन्वनो वि मुञ्चामि रथामिव ॥६॥
असितस्य तैमातस्य बभ्रोः अपोदकस्य च ।सात्रासाहस्य अहम् मन्योः अव ज्याम् इव धन्वनः वि मुञ्चामि ॥६॥
asitasya taimātasya babhroḥ apodakasya ca .sātrāsāhasya aham manyoḥ ava jyām iva dhanvanaḥ vi muñcāmi ..6..

आलिगी च विलिगी च पिता च मता च ।विद्म वः सर्वतो बन्ध्वरसाः किं करिष्यथ ॥७॥
आलिगी च विलिगी च पिता च मता च ।विद्म वः सर्वतस् बन्धु-अरसाः किम् करिष्यथ ॥७॥
āligī ca viligī ca pitā ca matā ca .vidma vaḥ sarvatas bandhu-arasāḥ kim kariṣyatha ..7..

उरुगूलाया दुहिता जाता दास्यसिक्न्या ।प्रतङ्कं दद्रुषीणां सर्वासामरसं विषम् ॥८॥
उरुगूलायाः दुहिता जाता दास्यसिक्न्या ।प्रतङ्कम् दद्रुषीणाम् सर्वासाम् अरसम् विषम् ॥८॥
urugūlāyāḥ duhitā jātā dāsyasiknyā .prataṅkam dadruṣīṇām sarvāsām arasam viṣam ..8..

कर्णा श्वावित्तदब्रवीद्गिरेरवचरन्तिका ।याः काश्चेमाः खनित्रिमास्तासामरसतमं विषम् ॥९॥
कर्णा श्वाविध् तत् अब्रवीत् गिरेः अवचरन्तिका ।याः काः च इमाः खनित्रिमाः तासाम् अरसतमम् विषम् ॥९॥
karṇā śvāvidh tat abravīt gireḥ avacarantikā .yāḥ kāḥ ca imāḥ khanitrimāḥ tāsām arasatamam viṣam ..9..

ताबुवं न ताबुवं न घेत्त्वमसि ताबुवम् ।ताबुवेनारसं विषम् ॥१०॥
ताबुवम् न ताबुवम् न घ इद् त्वम् असि ताबुवम् ।विषम् ॥१०॥
tābuvam na tābuvam na gha id tvam asi tābuvam .viṣam ..10..

तस्तुवं न तस्तुवं न घेत्त्वमसि तस्तुवम् ।तस्तुवेनारसं विषम् ॥११॥
तस्तुवम् न तस्तुवम् न घ इद् त्वम् असि तस्तुवम् ।तस्तुवेन अरसम् विषम् ॥११॥
tastuvam na tastuvam na gha id tvam asi tastuvam .tastuvena arasam viṣam ..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In