| |
|

This overlay will guide you through the buttons:

सुपर्णस्त्वान्वविन्दत्सूकरस्त्वाखनन् नसा ।दिप्सौषधे त्वं दिप्सन्तमव कृत्याकृतं जहि ॥१॥
सुपर्णः त्वा अन्वविन्दत् सूकरः त्वा अखनत् नसा ।दिप्स औषधे त्वम् दिप्सन्तम् अव कृत्या-कृतम् जहि ॥१॥
suparṇaḥ tvā anvavindat sūkaraḥ tvā akhanat nasā .dipsa auṣadhe tvam dipsantam ava kṛtyā-kṛtam jahi ..1..

अव जहि यातुधानान् अव कृत्याकृतं जहि ।अथो यो अस्मान् दिप्सति तमु त्वं जह्योषधे ॥२॥
अव जहि यातुधानान् अव कृत्या-कृतम् जहि ।अथ उ यः अस्मान् दिप्सति तम् उ त्वम् जहि ओषधे ॥२॥
ava jahi yātudhānān ava kṛtyā-kṛtam jahi .atha u yaḥ asmān dipsati tam u tvam jahi oṣadhe ..2..

रिश्यस्येव परीशासं परिकृत्य परि त्वचः ।कृत्यां कृत्याकृते देवा निष्कमिव प्रति मुञ्चत ॥३॥
रिश्यस्य इव परीशासम् परिकृत्य परि त्वचः ।कृत्याम् कृत्या-कृते देवाः निष्कम् इव प्रति मुञ्चत ॥३॥
riśyasya iva parīśāsam parikṛtya pari tvacaḥ .kṛtyām kṛtyā-kṛte devāḥ niṣkam iva prati muñcata ..3..

पुनः कृत्यां कृत्याकृते हस्तगृह्य परा णय ।समक्षमस्मा आ धेहि यथा कृत्याकृतं हनत्॥४॥
पुनर् कृत्याम् कृत्या-कृते हस्त-गृह्य परा नय ।समक्षम् अस्मै आ धेहि यथा कृत्या-कृतम् हनत्॥४॥
punar kṛtyām kṛtyā-kṛte hasta-gṛhya parā naya .samakṣam asmai ā dhehi yathā kṛtyā-kṛtam hanat..4..

कृत्याः सन्तु कृत्याकृते शपथः शपथीयते ।सुखो रथ इव वर्ततां कृत्या कृत्याकृतं पुनः ॥५॥
कृत्याः सन्तु कृत्या-कृते शपथः शपथीयते ।सुखः रथः इव वर्तताम् कृत्या कृत्या-कृतम् पुनर् ॥५॥
kṛtyāḥ santu kṛtyā-kṛte śapathaḥ śapathīyate .sukhaḥ rathaḥ iva vartatām kṛtyā kṛtyā-kṛtam punar ..5..

यदि स्त्री यदि वा पुमान् कृत्यां चकार पाप्मने ।तामु तस्मै नयामस्यश्वमिवाश्वाभिधान्या ॥६॥
यदि स्त्री यदि वा पुमान् कृत्याम् चकार पाप्मने ।ताम् उ तस्मै नयामसि अश्वम् इव अश्व-अभिधान्या ॥६॥
yadi strī yadi vā pumān kṛtyām cakāra pāpmane .tām u tasmai nayāmasi aśvam iva aśva-abhidhānyā ..6..

यदि वासि देवकृता यदि वा पुरुषैः कृता ।तां त्वा पुनर्णयामसीन्द्रेण सयुजा वयम् ॥७॥
यदि वा असि देव-कृता यदि वा पुरुषैः कृता ।ताम् त्वा पुनर् नयामसि इन्द्रेण सयुजा वयम् ॥७॥
yadi vā asi deva-kṛtā yadi vā puruṣaiḥ kṛtā .tām tvā punar nayāmasi indreṇa sayujā vayam ..7..

अग्ने पृतनाषाट्पृतनाः सहस्व ।पुनः कृत्यां कृत्याकृते प्रतिहरणेन हरामसि ॥८॥
अग्ने पृतनाषाह् पृतनाः सहस्व ।पुनर् कृत्याम् कृत्या-कृते प्रतिहरणेन हरामसि ॥८॥
agne pṛtanāṣāh pṛtanāḥ sahasva .punar kṛtyām kṛtyā-kṛte pratiharaṇena harāmasi ..8..

कृतव्यधनि विध्य तं यश्चकार तमिज्जहि ।न त्वामचक्रुषे वयं वधाय सं शिशीमहि ॥९॥
कृतव्यधनि विध्य तम् यः चकार तम् इद् जहि ।न त्वाम् अ चक्रुषे वयम् वधाय सम् शिशीमहि ॥९॥
kṛtavyadhani vidhya tam yaḥ cakāra tam id jahi .na tvām a cakruṣe vayam vadhāya sam śiśīmahi ..9..

पुत्र इव पितरं गच्छ स्वज इवाभिष्ठितो दश ।बन्धमिवावक्रामी गच्छ कृत्ये कृत्याकृतं पुनः ॥१०॥
पुत्रः इव पितरम् गच्छ स्वजः इव अभिष्ठितः दश ।बन्धम् इव अवक्रामी गच्छ कृत्ये कृत्या-कृतम् पुनर् ॥१०॥
putraḥ iva pitaram gaccha svajaḥ iva abhiṣṭhitaḥ daśa .bandham iva avakrāmī gaccha kṛtye kṛtyā-kṛtam punar ..10..

उदेणीव वारण्यभिस्कन्दं मृगीव ।कृत्या कर्तारमृच्छतु ॥११॥
उदेणी इव वा अरणी अभिस्कन्दम् मृगी इव ।कृत्या कर्तारम् ऋच्छतु ॥११॥
udeṇī iva vā araṇī abhiskandam mṛgī iva .kṛtyā kartāram ṛcchatu ..11..

इष्वा ऋजीयः पततु द्यावापृथिवी तं प्रति ।सा तं मृगमिव गृह्णातु कृत्या कृत्याकृतं पुनः ॥१२॥
इष्वाः ऋजीयः पततु द्यावापृथिवी तम् प्रति ।सा तम् मृगम् इव गृह्णातु कृत्या कृत्या-कृतम् पुनर् ॥१२॥
iṣvāḥ ṛjīyaḥ patatu dyāvāpṛthivī tam prati .sā tam mṛgam iva gṛhṇātu kṛtyā kṛtyā-kṛtam punar ..12..

अग्निरिवैतु प्रतिकूलमनुकूलमिवोदकम् ।सुखो रथ इव वर्ततां कृत्या कृत्याकृतं पुनः ॥१३॥
अग्निः इव एतु प्रतिकूलम् अनुकूलम् इव उदकम् ।सुखः रथः इव वर्तताम् कृत्या कृत्या-कृतम् पुनर् ॥१३॥
agniḥ iva etu pratikūlam anukūlam iva udakam .sukhaḥ rathaḥ iva vartatām kṛtyā kṛtyā-kṛtam punar ..13..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In