| |
|

This overlay will guide you through the buttons:

एका च मे दश च मेऽपवक्तार ओषधे ।ऋतजात ऋतावरि मधु मे मधुला करः ॥१॥
एका च मे दश च मे अपवक्तारः ओषधे ।ऋत-जाते ऋतावरि मधु मे मधुला करः ॥१॥
ekā ca me daśa ca me apavaktāraḥ oṣadhe .ṛta-jāte ṛtāvari madhu me madhulā karaḥ ..1..

द्वे च मे विंशतिश्च मेऽपवक्तार ओषधे ।ऋतजात ऋतावरि मधु मे मधुला करः ॥२॥
द्वे च मे विंशतिः च मे अपवक्तारः ओषधे ।ऋत-जाते ऋतावरि मधु मे मधुला करः ॥२॥
dve ca me viṃśatiḥ ca me apavaktāraḥ oṣadhe .ṛta-jāte ṛtāvari madhu me madhulā karaḥ ..2..

तिस्रश्च मे त्रिंशच्च मेऽपवक्तार ओषधे ।ऋतजात ऋतावरि मधु मे मधुला करः ॥३॥
तिस्रः च मे त्रिंशत् च मे अपवक्तारः ओषधे ।ऋत-जाते ऋतावरि मधु मे मधुला करः ॥३॥
tisraḥ ca me triṃśat ca me apavaktāraḥ oṣadhe .ṛta-jāte ṛtāvari madhu me madhulā karaḥ ..3..

चतस्रश्च मे चत्वारिंशच्च मेऽपवक्तार ओषधे ।ऋतजात ऋतावरि मधु मे मधुला करः ॥४॥
चतस्रः च मे चत्वारिंशत् च मे अपवक्तारः ओषधे ।ऋत-जाते ऋतावरि मधु मे मधुला करः ॥४॥
catasraḥ ca me catvāriṃśat ca me apavaktāraḥ oṣadhe .ṛta-jāte ṛtāvari madhu me madhulā karaḥ ..4..

पञ्च च मे पञ्चाशच्च मेऽपवक्तार ओषधे ।ऋतजात ऋतावरि मधु मे मधुला करः ॥५॥
पञ्च च मे पञ्चाशत् च मे अपवक्तारः ओषधे ।ऋत-जाते ऋतावरि मधु मे मधुला करः ॥५॥
pañca ca me pañcāśat ca me apavaktāraḥ oṣadhe .ṛta-jāte ṛtāvari madhu me madhulā karaḥ ..5..

षट्च मे षष्टिश्च मेऽपवक्तार ओषधे ।ऋतजात ऋतावरि मधु मे मधुला करः ॥६॥
षष् च मे षष्टिः च मे अपवक्तारः ओषधे ।ऋत-जाते ऋतावरि मधु मे मधुला करः ॥६॥
ṣaṣ ca me ṣaṣṭiḥ ca me apavaktāraḥ oṣadhe .ṛta-jāte ṛtāvari madhu me madhulā karaḥ ..6..

सप्त च मे सप्ततिश्च मेऽपवक्तार ओषधे ।ऋतजात ऋतावरि मधु मे मधुला करः ॥७॥
सप्त च मे सप्ततिः च मे अपवक्तारः ओषधे ।ऋत-जाते ऋतावरि मधु मे मधुला करः ॥७॥
sapta ca me saptatiḥ ca me apavaktāraḥ oṣadhe .ṛta-jāte ṛtāvari madhu me madhulā karaḥ ..7..

अष्ट च मेऽशीतिश्च मेऽपवक्तार ओषधे ।ऋतजात ऋतावरि मधु मे मधुला करः ॥८॥
अष्ट च मे अशीतिः च मे अपवक्तारः ओषधे ।ऋत-जाते ऋतावरि मधु मे मधुला करः ॥८॥
aṣṭa ca me aśītiḥ ca me apavaktāraḥ oṣadhe .ṛta-jāte ṛtāvari madhu me madhulā karaḥ ..8..

नव च मे नवतिश्च मेऽपवक्तार ओषधे ।ऋतजात ऋतावरि मधु मे मधुला करः ॥९॥
नव च मे नवतिः च मे अपवक्तारः ओषधे ।ऋत-जाते ऋतावरि मधु मे मधुला करः ॥९॥
nava ca me navatiḥ ca me apavaktāraḥ oṣadhe .ṛta-jāte ṛtāvari madhu me madhulā karaḥ ..9..

दश च मे शतं च मेऽपवक्तार ओषधे ।ऋतजात ऋतावरि मधु मे मधुला करः ॥१०॥
दश च मे शतम् च मे अपवक्तारः ओषधे ।ऋत-जाते ऋतावरि मधु मे मधुला करः ॥१०॥
daśa ca me śatam ca me apavaktāraḥ oṣadhe .ṛta-jāte ṛtāvari madhu me madhulā karaḥ ..10..

शतं च मे सहस्रं चापवक्तार ओषधे ।ऋतजात ऋतावरि मधु मे मधुला करः ॥११॥
शतम् च मे सहस्रम् च अपवक्तारः ओषधे ।ऋत-जाते ऋतावरि मधु मे मधुला करः ॥११॥
śatam ca me sahasram ca apavaktāraḥ oṣadhe .ṛta-jāte ṛtāvari madhu me madhulā karaḥ ..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In