| |
|

This overlay will guide you through the buttons:

तेऽवदन् प्रथमा ब्रह्मकिल्बिषेऽकूपारः सलिलो मातरिश्वा ।वीडुहरास्तप उग्रं मयोभूरापो देवीः प्रथमजा ऋतस्य ॥१॥
ते अवदन् प्रथमाः ब्रह्म-किल्बिषे अकूपारः सलिलः मातरिश्वा ।वीडु-हराः तपः उग्रम् मयः-भूः आपः देवीः प्रथम-जाः ऋतस्य ॥१॥
te avadan prathamāḥ brahma-kilbiṣe akūpāraḥ salilaḥ mātariśvā .vīḍu-harāḥ tapaḥ ugram mayaḥ-bhūḥ āpaḥ devīḥ prathama-jāḥ ṛtasya ..1..

सोमो राजा प्रथमो ब्रह्मजायां पुनः प्रायच्छदहृणीयमानः ।अन्वर्तिता वरुणो मित्र आसीदग्निर्होता हस्तगृह्या निनाय ॥२॥
सोमः राजा प्रथमः ब्रह्म-जायाम् पुनर् प्रायच्छत् अ हृणीयमानः ।अन्वर्तिता वरुणः मित्रः आसीत् अग्निः होता हस्त-गृह्य आ निनाय ॥२॥
somaḥ rājā prathamaḥ brahma-jāyām punar prāyacchat a hṛṇīyamānaḥ .anvartitā varuṇaḥ mitraḥ āsīt agniḥ hotā hasta-gṛhya ā nināya ..2..

हस्तेनैव ग्राह्य आधिरस्या ब्रह्मजायेति चेदवोचत्।न दूताय प्रहेया तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य ॥३॥
हस्तेन एव ग्राह्यः आधिः अस्याः ब्रह्म-जाया इति चेद् अवोचत्।न दूताय प्रहेया तस्थे एषा तथा राष्ट्रम् गुपितम् क्षत्रियस्य ॥३॥
hastena eva grāhyaḥ ādhiḥ asyāḥ brahma-jāyā iti ced avocat.na dūtāya praheyā tasthe eṣā tathā rāṣṭram gupitam kṣatriyasya ..3..

यामाहुस्तारकैषा विकेशीति दुच्छुनां ग्राममवपद्यमानाम् ।सा ब्रह्मजाया वि दुनोति राष्ट्रं यत्र प्रापादि शश उल्कुषीमान् ॥४॥
याम् आहुः तारका एषा विकेशी इति दुच्छुनाम् ग्रामम् अवपद्यमानाम् ।सा ब्रह्म-जाया वि दुनोति राष्ट्रम् यत्र प्रापादि शशः उल्कुषीमान् ॥४॥
yām āhuḥ tārakā eṣā vikeśī iti ducchunām grāmam avapadyamānām .sā brahma-jāyā vi dunoti rāṣṭram yatra prāpādi śaśaḥ ulkuṣīmān ..4..

ब्रह्मचारी चरति वेविषद्विषः स देवानां भवत्येकमङ्गम् ।तेन जायामन्वविन्दद्बृहस्पतिः सोमेन नीतां जुह्वं न देवाः ॥५॥
ब्रह्मचारी चरति वेविषत्-द्विषः स देवानाम् भवति एकम् अङ्गम् ।तेन जायाम् अन्वविन्दत् बृहस्पतिः सोमेन नीताम् जुह्वम् न देवाः ॥५॥
brahmacārī carati veviṣat-dviṣaḥ sa devānām bhavati ekam aṅgam .tena jāyām anvavindat bṛhaspatiḥ somena nītām juhvam na devāḥ ..5..

देवा वा एतस्यामवदन्त पूर्वे सप्तऋषयस्तपसा ये निषेदुः ।भीमा जाया ब्राह्मणस्यापनीता दुर्धां दधाति परमे व्योमन् ॥६॥
देवाः वै एतस्याम् अवदन्त पूर्वे सप्त ऋषयः तपसा ये निषेदुः ।भीमा जाया ब्राह्मणस्य अपनीता दुर्धाम् दधाति परमे व्योमन् ॥६॥
devāḥ vai etasyām avadanta pūrve sapta ṛṣayaḥ tapasā ye niṣeduḥ .bhīmā jāyā brāhmaṇasya apanītā durdhām dadhāti parame vyoman ..6..

ये गर्भा अवपद्यन्ते जगद्यच्चापलुप्यते ।वीरा ये तृह्यन्ते मिथो ब्रह्मजाया हिनस्ति तान् ॥७॥
ये गर्भाः अवपद्यन्ते जगत् यत् च अपलुप्यते ।वीराः ये तृह्यन्ते मिथस् ब्रह्म-जाया हिनस्ति तान् ॥७॥
ye garbhāḥ avapadyante jagat yat ca apalupyate .vīrāḥ ye tṛhyante mithas brahma-jāyā hinasti tān ..7..

उत यत्पतयो दश स्त्रियाः पूर्वे अब्राह्मणाः ।ब्रह्मा चेद्धस्तमग्रहीत्स एव पतिरेकधा ॥८॥
उत यद्-पतयः दश स्त्रियाः पूर्वे अ ब्राह्मणाः ।ब्रह्मा चेद् हस्तम् अग्रहीत् सः एव पतिः एकधा ॥८॥
uta yad-patayaḥ daśa striyāḥ pūrve a brāhmaṇāḥ .brahmā ced hastam agrahīt saḥ eva patiḥ ekadhā ..8..

ब्राह्मण एव पतिर्न राजन्यो न वैश्यः ।तत्सूर्यः प्रब्रुवन्न् एति पञ्चभ्यो मानवेभ्यः ॥९॥
ब्राह्मणः एव पतिः न राजन्यः न वैश्यः ।तत् सूर्यः प्रब्रुवन् एति पञ्चभ्यः मानवेभ्यः ॥९॥
brāhmaṇaḥ eva patiḥ na rājanyaḥ na vaiśyaḥ .tat sūryaḥ prabruvan eti pañcabhyaḥ mānavebhyaḥ ..9..

पुनर्वै देवा अददुः पुनर्मनुष्या अददुः ।राजानः सत्यं गृह्णाना ब्रह्मजायां पुनर्ददुः ॥१०॥
पुनर् वै देवाः अददुः पुनर् मनुष्याः अददुः ।राजानः सत्यम् गृह्णानाः ब्रह्म-जायाम् पुनर् ददुः ॥१०॥
punar vai devāḥ adaduḥ punar manuṣyāḥ adaduḥ .rājānaḥ satyam gṛhṇānāḥ brahma-jāyām punar daduḥ ..10..

पुनर्दाय ब्रह्मजायां कृत्वा देवैर्निकिल्बिषम् ।ऊर्जं पृथिव्या भक्त्वोरुगायमुपासते ॥११॥
पुनर् दाय ब्रह्म-जायाम् कृत्वा देवैः निकिल्बिषम् ।ऊर्जम् पृथिव्याः भक्त्वा उरुगायम् उपासते ॥११॥
punar dāya brahma-jāyām kṛtvā devaiḥ nikilbiṣam .ūrjam pṛthivyāḥ bhaktvā urugāyam upāsate ..11..

नास्य जाया शतवाही कल्याणी तल्पमा शये ।यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१२॥
न अस्य जाया शतवाही कल्याणी शये ।यस्मिन् राष्ट्रे निरुध्यते ब्रह्म-जाया अचित्त्या ॥१२॥
na asya jāyā śatavāhī kalyāṇī śaye .yasmin rāṣṭre nirudhyate brahma-jāyā acittyā ..12..

न विकर्णः पृथुशिरास्तस्मिन् वेश्मनि जायते ।यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१३॥
न विकर्णः पृथु-शिराः तस्मिन् वेश्मनि जायते ।यस्मिन् राष्ट्रे निरुध्यते ब्रह्म-जाया अचित्त्या ॥१३॥
na vikarṇaḥ pṛthu-śirāḥ tasmin veśmani jāyate .yasmin rāṣṭre nirudhyate brahma-jāyā acittyā ..13..

नास्य क्षत्ता निष्कग्रीवः सूनानामेत्यग्रतः ।यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१४॥
न अस्य क्षत्ता निष्क-ग्रीवः सूनानाम् एति अग्रतस् ।यस्मिन् राष्ट्रे निरुध्यते ब्रह्म-जाया अचित्त्या ॥१४॥
na asya kṣattā niṣka-grīvaḥ sūnānām eti agratas .yasmin rāṣṭre nirudhyate brahma-jāyā acittyā ..14..

नास्य श्वेतः कृष्णकर्णो धुरि युक्तो महीयते ।यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१५॥
न अस्य श्वेतः कृष्ण-कर्णः धुरि युक्तः महीयते ।यस्मिन् राष्ट्रे निरुध्यते ब्रह्म-जाया अचित्त्या ॥१५॥
na asya śvetaḥ kṛṣṇa-karṇaḥ dhuri yuktaḥ mahīyate .yasmin rāṣṭre nirudhyate brahma-jāyā acittyā ..15..

नास्य क्षेत्रे पुष्करिणी नाण्डीकं जायते बिसम् ।यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१६॥
न अस्य क्षेत्रे पुष्करिणी न आण्डीकम् जायते बिसम् ।यस्मिन् राष्ट्रे निरुध्यते ब्रह्म-जाया अचित्त्या ॥१६॥
na asya kṣetre puṣkariṇī na āṇḍīkam jāyate bisam .yasmin rāṣṭre nirudhyate brahma-jāyā acittyā ..16..

नास्मै पृश्निं वि दुहन्ति येऽस्या दोहमुपासते ।यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१७॥
न अस्मै पृश्निम् वि दुहन्ति ये अस्याः दोहम् उपासते ।यस्मिन् राष्ट्रे निरुध्यते ब्रह्म-जाया अचित्त्या ॥१७॥
na asmai pṛśnim vi duhanti ye asyāḥ doham upāsate .yasmin rāṣṭre nirudhyate brahma-jāyā acittyā ..17..

नास्य धेनुः कल्याणी नानड्वान्त्सहते धुरम् ।विजानिर्यत्र ब्रह्मणो रात्रिं वसति पापया ॥१८॥
न अस्य धेनुः कल्याणी न अनड्वान् सहते धुरम् ।विजानिः यत्र ब्रह्मणः रात्रिम् वसति पापया ॥१८॥
na asya dhenuḥ kalyāṇī na anaḍvān sahate dhuram .vijāniḥ yatra brahmaṇaḥ rātrim vasati pāpayā ..18..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In