| |
|

This overlay will guide you through the buttons:

नैतां ते देवा अददुस्तुभ्यं नृपते अत्तवे ।मा ब्राह्मणस्य राजन्य गां जिघत्सो अनाद्याम् ॥१॥
न एताम् ते देवाः अददुः तुभ्यम् नृपते अत्तवे ।मा ब्राह्मणस्य राजन्य गाम् जिघत्सः अनाद्याम् ॥१॥
na etām te devāḥ adaduḥ tubhyam nṛpate attave .mā brāhmaṇasya rājanya gām jighatsaḥ anādyām ..1..

अक्षद्रुग्धो राजन्यः पाप आत्मपराजितः ।स ब्राह्मणस्य गामद्यादद्य जीवानि मा श्वः ॥२॥
अक्ष-द्रुग्धः राजन्यः पापः आत्म-पराजितः ।स ब्राह्मणस्य गाम् अद्यात् अद्य जीवानि मा श्वस् ॥२॥
akṣa-drugdhaḥ rājanyaḥ pāpaḥ ātma-parājitaḥ .sa brāhmaṇasya gām adyāt adya jīvāni mā śvas ..2..

आविष्टिताघविषा पृदाकूरिव चर्मणा ।सा ब्राह्मणस्य राजन्य तृष्टैषा गौरनाद्या ॥३॥
आविष्टिता अघ-विषा पृदाकूः इव चर्मणा ।सा ब्राह्मणस्य राजन्य तृष्टा एषा गौः अनाद्या ॥३॥
āviṣṭitā agha-viṣā pṛdākūḥ iva carmaṇā .sā brāhmaṇasya rājanya tṛṣṭā eṣā gauḥ anādyā ..3..

निर्वै क्षत्रं नयति हन्ति वर्चोऽग्निरिवारब्धो वि दुनोति सर्वम् ।यो ब्राह्मणं मन्यते अन्नमेव स विषस्य पिबति तैमातस्य ॥४॥
निः वै क्षत्रम् नयति हन्ति वर्चः अग्निः इव आरब्धः वि दुनोति सर्वम् ।यः ब्राह्मणम् मन्यते अन्नम् एव स विषस्य पिबति तैमातस्य ॥४॥
niḥ vai kṣatram nayati hanti varcaḥ agniḥ iva ārabdhaḥ vi dunoti sarvam .yaḥ brāhmaṇam manyate annam eva sa viṣasya pibati taimātasya ..4..

य एनं हन्ति मृदुं मन्यमानो देवपीयुर्धनकामो न चित्तात्।सं तस्येन्द्रो हृदयेऽग्निमिन्धे उभे एनं द्विष्टो नभसी चरन्तम् ॥५॥
यः एनम् हन्ति मृदुम् मन्यमानः देव-पीयुः धन-कामः न चित्तात्।सम् तस्य इन्द्रः हृदये अग्निम् इन्धे उभे एनम् द्विष्टः नभसी चरन्तम् ॥५॥
yaḥ enam hanti mṛdum manyamānaḥ deva-pīyuḥ dhana-kāmaḥ na cittāt.sam tasya indraḥ hṛdaye agnim indhe ubhe enam dviṣṭaḥ nabhasī carantam ..5..

न ब्राह्मणो हिंसितव्योऽग्निः प्रियतनोरिव ।सोमो ह्यस्य दायाद इन्द्रो अस्याभिशस्तिपाः ॥६॥
न ब्राह्मणः हिंसितव्यः अग्निः प्रिय-तनोः इव ।सोमः हि अस्य दायादः इन्द्रः अस्य अभिशस्ति-पाः ॥६॥
na brāhmaṇaḥ hiṃsitavyaḥ agniḥ priya-tanoḥ iva .somaḥ hi asya dāyādaḥ indraḥ asya abhiśasti-pāḥ ..6..

शतापाष्ठां नि गिरति तां न शक्नोति निःखिदम् ।अन्नं यो ब्रह्मणां मल्वः स्वाद्वद्मीति मन्यते ॥७॥
शत-अपाष्ठाम् नि गिरति ताम् न शक्नोति निःखिदम् ।अन्नम् यः ब्रह्मणाम् मल्वः स्वादु अद्मि इति मन्यते ॥७॥
śata-apāṣṭhām ni girati tām na śaknoti niḥkhidam .annam yaḥ brahmaṇām malvaḥ svādu admi iti manyate ..7..

जिह्वा ज्या भवति कुल्मलं वाङ्नाडीका दन्तास्तपसाभिदिग्धाः ।तेभिर्ब्रह्मा विध्यति देवपीयून् हृद्बलैर्धनुर्भिर्देवजूतैः ॥८॥
जिह्वा ज्या भवति कुल्मलम् वाच् नाडीकाः दन्ताः तपसा अभिदिग्धाः ।तेभिः ब्रह्मा विध्यति देव-पीयून् हृद्-बलैः धनुर्भिः देव-जूतैः ॥८॥
jihvā jyā bhavati kulmalam vāc nāḍīkāḥ dantāḥ tapasā abhidigdhāḥ .tebhiḥ brahmā vidhyati deva-pīyūn hṛd-balaiḥ dhanurbhiḥ deva-jūtaiḥ ..8..

तीक्ष्णेषवो ब्राह्मणा हेतिमन्तो यामस्यन्ति शरव्यां न सा मृषा ।अनुहाय तपसा मन्युना चोत दुरादव भिन्दन्त्येनम् ॥९॥
तीक्ष्ण-इषवः ब्राह्मणाः हेतिमन्तः याम् अस्यन्ति शरव्याम् न सा मृषा ।अनुहाय तपसा मन्युना च उत दुरादव भिन्दन्ति एनम् ॥९॥
tīkṣṇa-iṣavaḥ brāhmaṇāḥ hetimantaḥ yām asyanti śaravyām na sā mṛṣā .anuhāya tapasā manyunā ca uta durādava bhindanti enam ..9..

ये सहस्रमराजन्न् आसन् दशशता उत ।ते ब्राह्मणस्य गां जग्ध्वा वैतहव्याः पराभवन् ॥१०॥
ये सहस्रम् अराजन् आसन् दश-शताः उत ।ते ब्राह्मणस्य गाम् जग्ध्वा वैतहव्याः पराभवन् ॥१०॥
ye sahasram arājan āsan daśa-śatāḥ uta .te brāhmaṇasya gām jagdhvā vaitahavyāḥ parābhavan ..10..

गौरेव तान् हन्यमाना वैतहव्यामवातिरत्।ये केसरप्राबन्धायाश्चरमाजामपेचिरन् ॥११॥
गौः एव तान् हन्यमाना वैतहव्याम् अवातिरत्।ये केसरप्राबन्धायाः चरम-अजाम् अपेचिरन् ॥११॥
gauḥ eva tān hanyamānā vaitahavyām avātirat.ye kesaraprābandhāyāḥ carama-ajām apeciran ..11..

एकशतं ता जनता या भूमिर्व्यधूनुत ।प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन् ॥१२॥
एकशतम् ताः जनताः याः भूमिः व्यधूनुत ।प्रजाम् हिंसित्वा ब्राह्मणीम् असंभव्यम् पराभवन् ॥१२॥
ekaśatam tāḥ janatāḥ yāḥ bhūmiḥ vyadhūnuta .prajām hiṃsitvā brāhmaṇīm asaṃbhavyam parābhavan ..12..

देवपीयुश्चरति मर्त्येषु गरगीर्णो भवत्यस्थिभूयान् ।यो ब्राह्मणं देवबन्धुं हिनस्ति न स पितृयाणमप्येति लोकम् ॥१३॥
देव-पीयुः चरति मर्त्येषु गर-गीर्णः भवति अस्थि-भूयान् ।यः ब्राह्मणम् देव-बन्धुम् हिनस्ति न स पितृयाणम् अप्येति लोकम् ॥१३॥
deva-pīyuḥ carati martyeṣu gara-gīrṇaḥ bhavati asthi-bhūyān .yaḥ brāhmaṇam deva-bandhum hinasti na sa pitṛyāṇam apyeti lokam ..13..

अग्निर्वै नः पदवायः सोमो दायाद उच्यते ।हन्ताभिशस्तेन्द्रस्तथा तद्वेधसो विदुः ॥१४॥
अग्निः वै नः पदवायः सोमः दायादः उच्यते ।हन्ता अभिशस्ता इन्द्रः तथा तत् वेधसः विदुः ॥१४॥
agniḥ vai naḥ padavāyaḥ somaḥ dāyādaḥ ucyate .hantā abhiśastā indraḥ tathā tat vedhasaḥ viduḥ ..14..

इषुरिव दिग्धा नृपते पृदाकूरिव गोपते ।सा ब्राह्मणस्येषुर्घोरा तया विध्यति पीयतः ॥१५॥
इषुः इव दिग्धा नृपते पृदाकूः इव गोपते ।सा ब्राह्मणस्य इषुः घोरा तया विध्यति पीयतः ॥१५॥
iṣuḥ iva digdhā nṛpate pṛdākūḥ iva gopate .sā brāhmaṇasya iṣuḥ ghorā tayā vidhyati pīyataḥ ..15..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In