| |
|

This overlay will guide you through the buttons:

अतिमात्रमवर्धन्त नोदिव दिवमस्पृशन् ।भृगुं हिंसित्वा सृञ्जया वैतहव्याः पराभवन् ॥१॥
अतिमात्रम् अवर्धन्त न उदिव दिवम् अस्पृशन् ।भृगुम् हिंसित्वा सृञ्जयाः वैतहव्याः पराभवन् ॥१॥
atimātram avardhanta na udiva divam aspṛśan .bhṛgum hiṃsitvā sṛñjayāḥ vaitahavyāḥ parābhavan ..1..

ये बृहत्सामानमाङ्गिरसमार्पयन् ब्राह्मणं जनाः ।पेत्वस्तेषामुभयादमविस्तोकान्यावयत्॥२॥
ये बृहत्सामानम् आङ्गिरसम् आर्पयन् ब्राह्मणम् जनाः ।पेत्वः तेषाम् उभय-अदम-विस्तोकान् यावयत्॥२॥
ye bṛhatsāmānam āṅgirasam ārpayan brāhmaṇam janāḥ .petvaḥ teṣām ubhaya-adama-vistokān yāvayat..2..

ये ब्राह्मणं प्रत्यष्ठीवन् ये वास्मिञ्छुल्कमीषिरे ।अस्नस्ते मध्ये कुल्यायाः केशान् खादन्त आसते ॥३॥
ये ब्राह्मणम् प्रत्यष्ठीवन् ये वा अस्मिन् शुल्कम् ईषिरे ।अस्नस्ते मध्ये कुल्यायाः केशान् खादन्तः आसते ॥३॥
ye brāhmaṇam pratyaṣṭhīvan ye vā asmin śulkam īṣire .asnaste madhye kulyāyāḥ keśān khādantaḥ āsate ..3..

ब्रह्मगवी पच्यमाना यावत्साभि विजङ्गहे ।तेजो राष्ट्रस्य निर्हन्ति न वीरो जायते वृषा ॥४॥
ब्रह्म-गवी पच्यमाना यावत् सा अभि विजङ्गहे ।तेजः राष्ट्रस्य निर्हन्ति न वीरः जायते वृषा ॥४॥
brahma-gavī pacyamānā yāvat sā abhi vijaṅgahe .tejaḥ rāṣṭrasya nirhanti na vīraḥ jāyate vṛṣā ..4..

क्रूरमस्या आशसनं तृष्टं पिशितमस्यते ।क्षीरं यदस्याः पीयते तद्वै पितृषु किल्बिषम् ॥५॥
क्रूरम् अस्याः आशसनम् तृष्टम् पिशितम् अस्यते ।क्षीरम् यत् अस्याः पीयते तत् वै पितृषु किल्बिषम् ॥५॥
krūram asyāḥ āśasanam tṛṣṭam piśitam asyate .kṣīram yat asyāḥ pīyate tat vai pitṛṣu kilbiṣam ..5..

उग्रो राजा मन्यमानो ब्राह्मणं यो जिघत्सति ।परा तत्सिच्यते राष्ट्रं ब्राह्मणो यत्र जीयते ॥६॥
उग्रः राजा मन्यमानः ब्राह्मणम् यः जिघत्सति ।परा तत् सिच्यते राष्ट्रम् ब्राह्मणः यत्र जीयते ॥६॥
ugraḥ rājā manyamānaḥ brāhmaṇam yaḥ jighatsati .parā tat sicyate rāṣṭram brāhmaṇaḥ yatra jīyate ..6..

अष्टापदी चतुरक्षी चतुःश्रोत्रा चतुर्हनुः ।द्व्यास्या द्विजिह्वा भूत्वा सा राष्ट्रमव धूनुते ब्रह्मज्यस्य ॥७॥
अष्टापदी चतुर्-अक्षी चतुर्-श्रोत्रा चतुर्-हनुः ।द्वि-आस्या द्वि-जिह्वा भूत्वा सा राष्ट्रम् अव धूनुते ब्रह्मज्यस्य ॥७॥
aṣṭāpadī catur-akṣī catur-śrotrā catur-hanuḥ .dvi-āsyā dvi-jihvā bhūtvā sā rāṣṭram ava dhūnute brahmajyasya ..7..

तद्वै राष्ट्रमा स्रवति नावं भिन्नामिवोदकम् ।ब्रह्माणं यत्र हिंसन्ति तद्राष्ट्रं हन्ति दुछुना ॥८॥
तत् वै राष्ट्रम् आ स्रवति नावम् भिन्नाम् इव उदकम् ।ब्रह्माणम् यत्र हिंसन्ति तत् राष्ट्रम् हन्ति दुछुना ॥८॥
tat vai rāṣṭram ā sravati nāvam bhinnām iva udakam .brahmāṇam yatra hiṃsanti tat rāṣṭram hanti duchunā ..8..

तं वृक्षा अप सेधन्ति छायां नो मोप गा इति ।यो ब्राह्मणस्य सद्धनमभि नारद मन्यते ॥९॥
तम् वृक्षाः अप सेधन्ति छायाम् नः मा उप गाः इति ।यः ब्राह्मणस्य सत्-धनम् अभि नारद मन्यते ॥९॥
tam vṛkṣāḥ apa sedhanti chāyām naḥ mā upa gāḥ iti .yaḥ brāhmaṇasya sat-dhanam abhi nārada manyate ..9..

विषमेतद्देवकृतं राजा वरुणोऽब्रवीत्।न ब्राह्मणस्य गां जग्ध्वा रास्त्रे जागार कश्चन ॥१०॥
विषम् एतत् देव-कृतम् राजा वरुणः अब्रवीत्।न ब्राह्मणस्य गाम् जग्ध्वा रास्त्रे जागार कश्चन ॥१०॥
viṣam etat deva-kṛtam rājā varuṇaḥ abravīt.na brāhmaṇasya gām jagdhvā rāstre jāgāra kaścana ..10..

नवैव ता नवतयो या भूमिर्व्यधूनुत ।प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन् ॥११॥
नव एव ताः नवतयः याः भूमिः व्यधूनुत ।प्रजाम् हिंसित्वा ब्राह्मणीम् असंभव्यम् पराभवन् ॥११॥
nava eva tāḥ navatayaḥ yāḥ bhūmiḥ vyadhūnuta .prajām hiṃsitvā brāhmaṇīm asaṃbhavyam parābhavan ..11..

यां मृतायानुबध्नन्ति कूद्यं पदयोपनीम् ।तद्वै ब्रह्मज्य ते देवा उपस्तरणमब्रुवन् ॥१२॥
याम् मृताय अनुबध्नन्ति कूद्यम् पद-योपनीम् ।तत् वै ब्रह्मज्य ते देवाः उपस्तरणम् अब्रुवन् ॥१२॥
yām mṛtāya anubadhnanti kūdyam pada-yopanīm .tat vai brahmajya te devāḥ upastaraṇam abruvan ..12..

अश्रूणि कृपमानस्य यानि जीतस्य वावृतुः ।तं वै ब्रह्मज्य ते देवा अपां भागमधारयन् ॥१३॥
अश्रूणि कृपमानस्य यानि जीतस्य वावृतुः ।तम् वै ब्रह्मज्य ते देवाः अपाम् भागम् अधारयन् ॥१३॥
aśrūṇi kṛpamānasya yāni jītasya vāvṛtuḥ .tam vai brahmajya te devāḥ apām bhāgam adhārayan ..13..

येन मृतं स्नपयन्ति श्मश्रूणि येनोन्दते ।तं वै ब्रह्मज्य ते देवा अपां भागमधारयन् ॥१४॥
येन मृतम् स्नपयन्ति श्मश्रूणि येन उन्दते ।तम् वै ब्रह्मज्य ते देवाः अपाम् भागम् अधारयन् ॥१४॥
yena mṛtam snapayanti śmaśrūṇi yena undate .tam vai brahmajya te devāḥ apām bhāgam adhārayan ..14..

न वर्षं मैत्रावरुणं ब्रह्मज्यमभि वर्षति ।नास्मै समितिः कल्पते न मित्रं नयते वशम् ॥१५॥
न वर्षम् मैत्रावरुणम् ब्रह्मज्यम् अभि वर्षति ।न अस्मै समितिः कल्पते न मित्रम् नयते वशम् ॥१५॥
na varṣam maitrāvaruṇam brahmajyam abhi varṣati .na asmai samitiḥ kalpate na mitram nayate vaśam ..15..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In