| |
|

This overlay will guide you through the buttons:

उच्चैर्घोषो दुन्दुभिः सत्वनायन् वानस्पत्यः संभृत उसृइयाभिः ।वाचं क्षुणुवानो दमयन्त्सपत्नान्त्सिंह इव जेष्यन्न् अभि तंस्तनीहि ॥१॥
उच्चैर्घोषः दुन्दुभिः सत्वनायन् वानस्पत्यः संभृतः उसृइयाभिः ।वाचम् क्षुणुवानः दमयन् सपत्नान् सिंहः इव जेष्यन् अभि तंस्तनीहि ॥१॥
uccairghoṣaḥ dundubhiḥ satvanāyan vānaspatyaḥ saṃbhṛtaḥ usṛiyābhiḥ .vācam kṣuṇuvānaḥ damayan sapatnān siṃhaḥ iva jeṣyan abhi taṃstanīhi ..1..

सिंह इवास्तानीद्द्रुवयो विबद्धोऽभिक्रन्दन्न् ऋषभो वासितामिव ।वृषा त्वं वध्रयस्ते सपत्ना ऐन्द्रस्ते शुष्मो अभिमातिषाहः ॥२॥
सिंहः इव अस्तानीत् द्रुवयः विबद्धः अभिक्रन्दन् ऋषभः वाशिताम् इव ।वृषा त्वम् वध्रयः ते सपत्नाः ऐन्द्रः ते शुष्मः अभिमातिषाहः ॥२॥
siṃhaḥ iva astānīt druvayaḥ vibaddhaḥ abhikrandan ṛṣabhaḥ vāśitām iva .vṛṣā tvam vadhrayaḥ te sapatnāḥ aindraḥ te śuṣmaḥ abhimātiṣāhaḥ ..2..

वृषेव यूथे सहसा विदानो गव्यन्न् अभि रुव संधनाजित्।शुचा विध्य हृदयं परेषां हित्वा ग्रामान् प्रच्युता यन्तु शत्रवः ॥३॥
वृषा इव यूथे सहसा विदानः गव्यन् अभि रुव संधनाजित्।शुचा विध्य हृदयम् परेषाम् हित्वा ग्रामान् प्रच्युताः यन्तु शत्रवः ॥३॥
vṛṣā iva yūthe sahasā vidānaḥ gavyan abhi ruva saṃdhanājit.śucā vidhya hṛdayam pareṣām hitvā grāmān pracyutāḥ yantu śatravaḥ ..3..

संजयन् पृतना ऊर्ध्वमायुर्गृह्या गृह्णानो बहुधा वि चक्ष्व ।दैवीं वाचं दुन्दुभ आ गुरस्व वेधाः शत्रूणामुप भरस्व वेदः ॥४॥
संजयन् पृतनाः ऊर्ध्वम् आयुः-गृह्याः गृह्णानः बहुधा वि चक्ष्व ।दैवीम् वाचम् दुन्दुभे आ गुरस्व वेधाः शत्रूणाम् उप भरस्व वेदः ॥४॥
saṃjayan pṛtanāḥ ūrdhvam āyuḥ-gṛhyāḥ gṛhṇānaḥ bahudhā vi cakṣva .daivīm vācam dundubhe ā gurasva vedhāḥ śatrūṇām upa bharasva vedaḥ ..4..

दुन्दुभेर्वाचं प्रयतां वदन्तीमाशृण्वती नाथिता घोषबुद्धा ।नारी पुत्रं धावतु हस्तगृह्यामित्री भीता समरे वधानाम् ॥५॥
दुन्दुभेः वाचम् प्रयताम् वदन्तीम् आशृण्वती नाथिता घोष-बुद्धा ।नारी पुत्रम् धावतु हस्त-गृह्य आमित्री भीता समरे वधानाम् ॥५॥
dundubheḥ vācam prayatām vadantīm āśṛṇvatī nāthitā ghoṣa-buddhā .nārī putram dhāvatu hasta-gṛhya āmitrī bhītā samare vadhānām ..5..

पूर्वो दुन्दुभे प्र वदासि वाचं भूम्याः पृष्ठे वद रोचमानः ।अमित्रसेनामभिजञ्जभानो द्युमद्वद दुन्दुभे सूनृतावत्॥६॥
पूर्वः दुन्दुभे प्र वदासि वाचम् भूम्याः पृष्ठे वद रोचमानः ।अमित्र-सेनाम् अभिजञ्जभानः द्युमत् वद दुन्दुभे सूनृतावत्॥६॥
pūrvaḥ dundubhe pra vadāsi vācam bhūmyāḥ pṛṣṭhe vada rocamānaḥ .amitra-senām abhijañjabhānaḥ dyumat vada dundubhe sūnṛtāvat..6..

अन्तरेमे नभसी घोषो अस्तु पृथक्ते ध्वनयो यन्तु शीभम् ।अभि क्रन्द स्तनयोत्पिपानः श्लोककृन् मित्रतूर्याय स्वर्धी ॥७॥
अन्तरा इमे नभसी घोषः अस्तु पृथक् ते ध्वनयः यन्तु शीभम् ।अभि क्रन्द स्तनय उत्पिपानः श्लोक-कृत् मित्र-तूर्याय स्वर्धी ॥७॥
antarā ime nabhasī ghoṣaḥ astu pṛthak te dhvanayaḥ yantu śībham .abhi kranda stanaya utpipānaḥ śloka-kṛt mitra-tūryāya svardhī ..7..

धीभिः कृतः प्र वदाति वाचमुद्धर्षय सत्वनामायुधानि ।इन्द्रमेदी सत्वनो नि ह्वयस्व मित्रैरमित्रामव जङ्घनीहि ॥८॥
धीभिः कृतः प्र वदाति वाचम् उद् हर्षय सत्वनाम् आयुधानि ।इन्द्र-मेदी सत्वनः नि ह्वयस्व मित्रैः अमित्राम् अव जङ्घनीहि ॥८॥
dhībhiḥ kṛtaḥ pra vadāti vācam ud harṣaya satvanām āyudhāni .indra-medī satvanaḥ ni hvayasva mitraiḥ amitrām ava jaṅghanīhi ..8..

संक्रन्दनः प्रवदो धृष्णुषेणः प्रवेदकृद्बहुधा ग्रामघोषी ।श्रियो वन्वनो वयुनानि विद्वान् कीर्तिं बहुभ्यो वि हर द्विराजे ॥९॥
संक्रन्दनः प्रवदः धृष्णुषेणः प्रवेद-कृत् बहुधा ग्राम-घोषी ।श्रियः वयुनानि विद्वान् कीर्तिम् बहुभ्यः वि हर द्वि-राजे ॥९॥
saṃkrandanaḥ pravadaḥ dhṛṣṇuṣeṇaḥ praveda-kṛt bahudhā grāma-ghoṣī .śriyaḥ vayunāni vidvān kīrtim bahubhyaḥ vi hara dvi-rāje ..9..

श्रेयःकेतो वसुजित्सहीयान्त्संग्रामजित्संशितो ब्रह्मणासि ।अंशून् इव ग्रावाधिषवणे अद्रिर्गव्यन् दुन्दुभेऽधि नृत्य वेदः ॥१०॥
श्रेयः-केतो वसु-जित् सहीयान् संग्राम-जित् संशितः ब्रह्मणा असि ।अंशून् इव ग्रावा अधिषवणे अद्रिः गव्यन् दुन्दुभे अधि नृत्य वेदः ॥१०॥
śreyaḥ-keto vasu-jit sahīyān saṃgrāma-jit saṃśitaḥ brahmaṇā asi .aṃśūn iva grāvā adhiṣavaṇe adriḥ gavyan dundubhe adhi nṛtya vedaḥ ..10..

शत्रूषाण्नीषादभिमातिषाहो गवेषणः सहमान उद्भित्।वाग्वीव मन्त्रं प्र भरस्व वाचं सांग्रामजित्यायेषमुद्वदेह ॥११॥
शत्रूषाह् नीषाह् अभिमातिषाहः गवेषणः सहमानः उद्भिद्।वाग्वी इव मन्त्रम् प्र भरस्व वाचम् सांग्रामजित्याय इषम् उद्वद इह ॥११॥
śatrūṣāh nīṣāh abhimātiṣāhaḥ gaveṣaṇaḥ sahamānaḥ udbhid.vāgvī iva mantram pra bharasva vācam sāṃgrāmajityāya iṣam udvada iha ..11..

अच्युतच्युत्समदो गमिष्ठो मृधो जेता पुरएतायोध्यः ।इन्द्रेण गुप्तो विदथा निचिक्यद्धृद्द्योतनो द्विषतां याहि शीभम् ॥१२॥
अच्युत-च्युत्-समदः गमिष्ठः मृधः जेता पुरएता आयोध्यः ।इन्द्रेण गुप्तः विदथा निचिक्यत् हृद्-द्योतनः द्विषताम् याहि शीभम् ॥१२॥
acyuta-cyut-samadaḥ gamiṣṭhaḥ mṛdhaḥ jetā puraetā āyodhyaḥ .indreṇa guptaḥ vidathā nicikyat hṛd-dyotanaḥ dviṣatām yāhi śībham ..12..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In