| |
|

This overlay will guide you through the buttons:

विहृदयं वैमनस्यं वदामित्रेषु दुन्दुभे ।विद्वेषं कश्मशं भयममित्रेषु नि दध्मस्यव एनान् दुन्दुभे जहि ॥१॥
विहृदयम् वैमनस्यम् वद अमित्रेषु दुन्दुभे ।विद्वेषम् कश्मशम् भयम् अमित्रेषु नि दध्मसि अवः एनान् दुन्दुभे जहि ॥१॥
vihṛdayam vaimanasyam vada amitreṣu dundubhe .vidveṣam kaśmaśam bhayam amitreṣu ni dadhmasi avaḥ enān dundubhe jahi ..1..

उद्वेपमाना मनसा चक्षुषा हृदयेन च ।धावन्तु बिभ्यतोऽमित्राः प्रत्रासेनाज्ये हुते ॥२॥
उद्वेपमानाः मनसा चक्षुषा हृदयेन च ।धावन्तु बिभ्यतः अमित्राः प्रत्रासेन आज्ये हुते ॥२॥
udvepamānāḥ manasā cakṣuṣā hṛdayena ca .dhāvantu bibhyataḥ amitrāḥ pratrāsena ājye hute ..2..

वानस्पत्यः संभृत उस्रियाभिर्विश्वगोत्र्यः ।प्रत्रासममित्रेभ्यो वदाज्येनाभिघारितः ॥३॥
वानस्पत्यः संभृतः उस्रियाभिः विश्व-गोत्र्यः ।प्रत्रासम् अमित्रेभ्यः वद आज्येन अभिघारितः ॥३॥
vānaspatyaḥ saṃbhṛtaḥ usriyābhiḥ viśva-gotryaḥ .pratrāsam amitrebhyaḥ vada ājyena abhighāritaḥ ..3..

यथा मृगाः संविजन्त आरण्याः पुरुषादधि ।एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥४॥
यथा मृगाः संविजन्ते आरण्याः पुरुषात् अधि ।एव त्वम् दुन्दुभे अमित्रान् अभि क्रन्द प्र त्रासय अथो चित्तानि मोहय ॥४॥
yathā mṛgāḥ saṃvijante āraṇyāḥ puruṣāt adhi .eva tvam dundubhe amitrān abhi kranda pra trāsaya atho cittāni mohaya ..4..

यथा वृकादजावयो धावन्ति बहु बिभ्यतीः ।एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥५॥
यथा वृकात् अज-अवयः धावन्ति बहु बिभ्यतीः ।एव त्वम् दुन्दुभे अमित्रान् अभि क्रन्द प्र त्रासय अथो चित्तानि मोहय ॥५॥
yathā vṛkāt aja-avayaḥ dhāvanti bahu bibhyatīḥ .eva tvam dundubhe amitrān abhi kranda pra trāsaya atho cittāni mohaya ..5..

यथा श्येनात्पतत्रिणः संविजन्ते अहर्दिवि सिंहस्य स्तनथोर्यथा ।एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥६॥
यथा श्येनात् पतत्रिणः संविजन्ते अहर्दिवि सिंहस्य स्तनथोः यथा ।एव त्वम् दुन्दुभे अमित्रान् अभि क्रन्द प्र त्रासय अथो चित्तानि मोहय ॥६॥
yathā śyenāt patatriṇaḥ saṃvijante ahardivi siṃhasya stanathoḥ yathā .eva tvam dundubhe amitrān abhi kranda pra trāsaya atho cittāni mohaya ..6..

परामित्रान् दुन्दुभिना हरिणस्याजिनेन च ।सर्वे देवा अतित्रसन् ये संग्रामस्येषते ॥७॥
परा अमित्रान् दुन्दुभिना हरिणस्य अजिनेन च ।सर्वे देवाः अतित्रसन् ये ॥७॥
parā amitrān dundubhinā hariṇasya ajinena ca .sarve devāḥ atitrasan ye ..7..

यैरिन्द्रः प्रक्रीडते पद्घोषैश्छायया सह ।तैरमित्रास्त्रसन्तु नोऽमी ये यन्त्यनीकशः ॥८॥
यैः इन्द्रः प्रक्रीडते पद्-घोषैः छायया सह ।तैः अमित्राः त्रसन्तु नः अमी ये यन्ति अनीकशस् ॥८॥
yaiḥ indraḥ prakrīḍate pad-ghoṣaiḥ chāyayā saha .taiḥ amitrāḥ trasantu naḥ amī ye yanti anīkaśas ..8..

ज्याघोषा दुन्दुभयोऽभि क्रोशन्तु या दिशः ।सेनाः पराजिता यतीरमित्राणामनीकशः ॥९॥
ज्या-घोषाः दुन्दुभयः अभि क्रोशन्तु याः दिशः ।सेनाः पराजिताः यतीः अमित्राणाम् अनीकशस् ॥९॥
jyā-ghoṣāḥ dundubhayaḥ abhi krośantu yāḥ diśaḥ .senāḥ parājitāḥ yatīḥ amitrāṇām anīkaśas ..9..

आदित्य चक्षुरा दत्स्व मरीचयोऽनु धावत ।पत्सङ्गिनीरा सजन्तु विगते बाहुवीर्ये ॥१०॥
आदित्य चक्षुः आ दत्स्व मरीचयः अनु धावत ।पत्सङ्गिनीः आ सजन्तु विगते बाहु-वीर्ये ॥१०॥
āditya cakṣuḥ ā datsva marīcayaḥ anu dhāvata .patsaṅginīḥ ā sajantu vigate bāhu-vīrye ..10..

यूयमुग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृनीत शत्रून् ।सोमो राजा वरुणो राजा महादेव उत मृत्युरिन्द्रः ॥११॥
यूयम् उग्राः मरुतः पृश्नि-मातरः इन्द्रेण युजा प्र मृनीत शत्रून् ।सोमः राजा वरुणः राजा महादेवः उत मृत्युः इन्द्रः ॥११॥
yūyam ugrāḥ marutaḥ pṛśni-mātaraḥ indreṇa yujā pra mṛnīta śatrūn .somaḥ rājā varuṇaḥ rājā mahādevaḥ uta mṛtyuḥ indraḥ ..11..

एता देवसेनाः सूर्यकेतवः सचेतसः ।अमित्रान् नो जयन्तु स्वाहा ॥१२॥
एताः देव-सेनाः सूर्य-केतवः सचेतसः ।अमित्रान् नः जयन्तु स्वाहा ॥१२॥
etāḥ deva-senāḥ sūrya-ketavaḥ sacetasaḥ .amitrān naḥ jayantu svāhā ..12..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In