| |
|

This overlay will guide you through the buttons:

अग्निस्तक्मानमप बाधतामितः सोमो ग्रावा वरुणः पूतदक्षाः ।वेदिर्बर्हिः समिधः शोशुचाना अप द्वेषांस्यमुया भवन्तु ॥१॥
अग्निः तक्मानम् अप बाधताम् इतस् सोमः ग्रावा वरुणः पूत-दक्षाः ।वेदिः बर्हिः समिधः शोशुचानाः अप द्वेषांसि अमुया भवन्तु ॥१॥
agniḥ takmānam apa bādhatām itas somaḥ grāvā varuṇaḥ pūta-dakṣāḥ .vediḥ barhiḥ samidhaḥ śośucānāḥ apa dveṣāṃsi amuyā bhavantu ..1..

अयं यो विश्वान् हरितान् कृणोष्युच्छोचयन्न् अग्निरिवाभिदुन्वन् ।अधा हि तक्मन्न् अरसो हि भूया अधा न्यङ्ङधरान् वा परेहि ॥२॥
अयम् यः विश्वान् हरितान् कृणोषि उच्छोचयन् अग्निः इव अभिदुन्वन् ।अधा हि तक्मन् अरसः हि भूयाः अधा न्यङ् अधरान् वा परेहि ॥२॥
ayam yaḥ viśvān haritān kṛṇoṣi ucchocayan agniḥ iva abhidunvan .adhā hi takman arasaḥ hi bhūyāḥ adhā nyaṅ adharān vā parehi ..2..

यः परुषः पारुषेयोऽवध्वंस इवारुणः ।तक्मानं विश्वधावीर्याधराञ्चं परा सुवा ॥३॥
यः परुषः पारुषेयः अवध्वंसः इव अरुणः ।तक्मानम् विश्वधा वीर्य-अधराञ्चम् परा सुव ॥३॥
yaḥ paruṣaḥ pāruṣeyaḥ avadhvaṃsaḥ iva aruṇaḥ .takmānam viśvadhā vīrya-adharāñcam parā suva ..3..

अधराञ्चं प्र हिणोमि नमः कृत्वा तक्मने ।शकम्भरस्य मुष्टिहा पुनरेतु महावृषान् ॥४॥
अधराञ्चम् प्र हिणोमि नमः कृत्वा तक्मने ।शकम्भरस्य मुष्टि-हा पुनर् एतु महावृषान् ॥४॥
adharāñcam pra hiṇomi namaḥ kṛtvā takmane .śakambharasya muṣṭi-hā punar etu mahāvṛṣān ..4..

ओको अस्य मूजवन्त ओको अस्य महावृषाः ।यावज्जातस्तक्मंस्तावान् असि बल्हिकेषु न्योचरः ॥५॥
ओकः अस्य मूजवन्तः ओकः अस्य महावृषाः ।यावत् जातः तक्मन् तावान् असि बल्हिकेषु न्योचरः ॥५॥
okaḥ asya mūjavantaḥ okaḥ asya mahāvṛṣāḥ .yāvat jātaḥ takman tāvān asi balhikeṣu nyocaraḥ ..5..

तक्मन् व्याल वि गद व्यङ्ग भूरि यावय ।दासीं निष्टक्वरीमिच्छ तां वज्रेण समर्पय ॥६॥
तक्मन् व्याल वि गद व्यङ्ग भूरि यावय ।दासीम् निष्टक्वरीम् इच्छ ताम् वज्रेण समर्पय ॥६॥
takman vyāla vi gada vyaṅga bhūri yāvaya .dāsīm niṣṭakvarīm iccha tām vajreṇa samarpaya ..6..

तक्मन् मूजवतो गच्छ बल्हिकान् वा परस्तराम् ।शूद्रामिच्छ प्रफर्व्यं तां तक्मन् वीव धूनुहि ॥७॥
तक्मन् मूजवतः गच्छ बल्हिकान् वा परस्तराम् ।शूद्राम् इच्छ प्रफर्व्यम् ताम् तक्मन् वि इव धूनुहि ॥७॥
takman mūjavataḥ gaccha balhikān vā parastarām .śūdrām iccha prapharvyam tām takman vi iva dhūnuhi ..7..

महावृषान् मूजवतो बन्ध्वद्धि परेत्य ।प्रैतानि तक्मने ब्रूमो अन्यक्षेत्राणि वा इमा ॥८॥
महावृषान् मूजवतः बन्ध्वत् हि परेत्य ।प्र एतानि तक्मने ब्रूमः अन्य-क्षेत्राणि वै इमा ॥८॥
mahāvṛṣān mūjavataḥ bandhvat hi paretya .pra etāni takmane brūmaḥ anya-kṣetrāṇi vai imā ..8..

अन्यक्षेत्रे न रमसे वशी सन् मृडयासि नः ।अभूदु प्रार्थस्तक्मा स गमिष्यति बल्हिकान् ॥९॥
अन्य-क्षेत्रे न रमसे वशी सन् मृडयासि नः ।अभूत् उ प्रार्थः तक्मा स गमिष्यति बल्हिकान् ॥९॥
anya-kṣetre na ramase vaśī san mṛḍayāsi naḥ .abhūt u prārthaḥ takmā sa gamiṣyati balhikān ..9..

यत्त्वं शीतोऽथो रूरः सह कासावेपयः ।भीमास्ते तक्मन् हेतयस्ताभिः स्म परि वृङ्ग्धि नः ॥१०॥
यत् त्वम् शीतः अथो रूरः सह कासा अवेपयः ।भीमाः ते तक्मन् हेतयः ताभिः स्म परि वृङ्ग्धि नः ॥१०॥
yat tvam śītaḥ atho rūraḥ saha kāsā avepayaḥ .bhīmāḥ te takman hetayaḥ tābhiḥ sma pari vṛṅgdhi naḥ ..10..

मा स्मैतान्त्सखीन् कुरुथा बलासं कासमुद्युगम् ।मा स्मातोऽर्वाङैः पुनस्तत्त्वा तक्मन्न् उप ब्रुवे ॥११॥
मा स्मा एतान् सखीन् कुरुथाः बलासम् कासम् उद्युगम् ।मा स्मा अतस् अर्वाङैः पुनर् तत् त्वा तक्मन् उप ब्रुवे ॥११॥
mā smā etān sakhīn kuruthāḥ balāsam kāsam udyugam .mā smā atas arvāṅaiḥ punar tat tvā takman upa bruve ..11..

तक्मन् भ्रात्रा बलासेन स्वस्रा कासिकया सह ।पाप्मा भ्रातृव्येण सह गछामुमरणं जनम् ॥१२॥
तक्मन् भ्रात्रा बलासेन स्वस्रा कासिकया सह ।पाप्मा भ्रातृव्येण सह गच्छामु मरणम् जनम् ॥१२॥
takman bhrātrā balāsena svasrā kāsikayā saha .pāpmā bhrātṛvyeṇa saha gacchāmu maraṇam janam ..12..

तृतीयकं वितृतीयं सदन्दिमुत शारदम् ।तक्मानं शीतं रूरं ग्रैष्मं नाशय वार्षिकम् ॥१३॥
तृतीयकम् वितृतीयम् सदन्दिम् उत शारदम् ।तक्मानम् शीतम् रूरम् ग्रैष्मम् नाशय वार्षिकम् ॥१३॥
tṛtīyakam vitṛtīyam sadandim uta śāradam .takmānam śītam rūram graiṣmam nāśaya vārṣikam ..13..

गन्धारिभ्यो मूजवद्भ्योऽङ्गेभ्यो मगधेभ्यः ।प्रैष्यन् जनमिव शेवधिं तक्मानं परि दद्मसि ॥१४॥
गन्धारिभ्यः मूजवद्भ्यः अङ्गेभ्यः मगधेभ्यः ।प्रैष्यन् जनम् इव शेवधिम् तक्मानम् परि दद्मसि ॥१४॥
gandhāribhyaḥ mūjavadbhyaḥ aṅgebhyaḥ magadhebhyaḥ .praiṣyan janam iva śevadhim takmānam pari dadmasi ..14..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In