| |
|

This overlay will guide you through the buttons:

ओते मे द्यावापृथिवी ओता देवी सरस्वती ।ओतौ म इन्द्रश्चाग्निश्च क्रिमिं जम्भयतामिति ॥१॥
ओते मे द्यावापृथिवी ओता देवी सरस्वती ।ओतौ मे इन्द्रः च अग्निः च क्रिमिम् जम्भयताम् इति ॥१॥
ote me dyāvāpṛthivī otā devī sarasvatī .otau me indraḥ ca agniḥ ca krimim jambhayatām iti ..1..

अस्येन्द्र कुमारस्य क्रिमीन् धनपते जहि ।हता विश्वा अरातय उग्रेण वचसा मम ॥२॥
अस्य इन्द्र कुमारस्य क्रिमीन् धन-पते जहि ।हताः विश्वाः अरातयः उग्रेण वचसा मम ॥२॥
asya indra kumārasya krimīn dhana-pate jahi .hatāḥ viśvāḥ arātayaḥ ugreṇa vacasā mama ..2..

यो अक्ष्यौ परिसर्पति यो नासे परिसर्पति ।दतां यो मध्यं गच्छति तं क्रिमिं जम्भयामसि ॥३॥
यः अक्ष्यौ परिसर्पति यः नासे परिसर्पति ।दताम् यः मध्यम् गच्छति तम् क्रिमिम् जम्भयामसि ॥३॥
yaḥ akṣyau parisarpati yaḥ nāse parisarpati .datām yaḥ madhyam gacchati tam krimim jambhayāmasi ..3..

सरूपौ द्वौ विरूपौ द्वौ कृष्णौ द्वौ रोहितौ द्वौ ।बभ्रुश्च बभ्रुकर्णश्च गृध्रः कोकश्च ते हताः ॥४॥
सरूपौ द्वौ विरूपौ द्वौ कृष्णौ द्वौ रोहितौ द्वौ ।बभ्रुः च बभ्रु-कर्णः च गृध्रः कोकः च ते हताः ॥४॥
sarūpau dvau virūpau dvau kṛṣṇau dvau rohitau dvau .babhruḥ ca babhru-karṇaḥ ca gṛdhraḥ kokaḥ ca te hatāḥ ..4..

ये क्रिमयः शितिकक्षा ये कृष्णाः शितिबाहवः ।ये के च विश्वरूपास्तान् क्रिमीन् जम्भयामसि ॥५॥
ये क्रिमयः शिति-कक्षाः ये कृष्णाः शिति-बाहवः ।ये के च विश्व-रूपाः तान् क्रिमीन् जम्भयामसि ॥५॥
ye krimayaḥ śiti-kakṣāḥ ye kṛṣṇāḥ śiti-bāhavaḥ .ye ke ca viśva-rūpāḥ tān krimīn jambhayāmasi ..5..

उत्पुरस्तात्सूर्य एति विश्वदृष्टो अदृष्टहा ।दृष्टांश्च घ्नन्न् अदृष्टांश्च सर्वांश्च प्रमृणन् क्रिमीन् ॥६॥
उद् पुरस्तात् सूर्यः एति विश्व-दृष्टः अदृष्ट-हा ।दृष्टान् च घ्नन् अदृष्टान् च सर्वान् च प्रमृणन् क्रिमीन् ॥६॥
ud purastāt sūryaḥ eti viśva-dṛṣṭaḥ adṛṣṭa-hā .dṛṣṭān ca ghnan adṛṣṭān ca sarvān ca pramṛṇan krimīn ..6..

येवाषासः कष्कषास एजत्काः शिपवित्नुकाः ।दृष्टश्च हन्यतां क्रिमिरुतादृष्टश्च हन्यताम् ॥७॥
येवाषासः कष्कषासः एजत्काः शिपवित्नुकाः ।दृष्टः च हन्यताम् क्रिमिः उत अदृष्टः च हन्यताम् ॥७॥
yevāṣāsaḥ kaṣkaṣāsaḥ ejatkāḥ śipavitnukāḥ .dṛṣṭaḥ ca hanyatām krimiḥ uta adṛṣṭaḥ ca hanyatām ..7..

हतो येवाषः क्रिमीणां हतो नदनिमोत ।सर्वान् नि मष्मषाकरं दृषदा खल्वामिव ॥८॥
हतः येवाषः क्रिमीणाम् हतः नदनिमा उत ।सर्वान् नि मष्मषा अकरम् दृषदा खल्वाम् इव ॥८॥
hataḥ yevāṣaḥ krimīṇām hataḥ nadanimā uta .sarvān ni maṣmaṣā akaram dṛṣadā khalvām iva ..8..

त्रिशीर्षाणं त्रिककुदं क्रिमिं सारङ्गमर्जुनम् ।शृणाम्यस्य पृष्टीरपि वृश्चामि यच्छिरः ॥९॥
त्रि-शीर्षाणम् त्रि-ककुदम् क्रिमिम् सारङ्गम् अर्जुनम् ।शृणामि अस्य पृष्टीः अपि वृश्चामि यत् शिरः ॥९॥
tri-śīrṣāṇam tri-kakudam krimim sāraṅgam arjunam .śṛṇāmi asya pṛṣṭīḥ api vṛścāmi yat śiraḥ ..9..

अत्रिवद्वः क्रिमयो हन्मि कण्ववज्जमदग्निवत्।अगस्त्यस्य ब्रह्मणा सं पिनष्म्यहं क्रिमीन् ॥१०॥
अत्रि-वत् वः क्रिमयः हन्मि कण्व-वत् जमदग्नि-वत्।अगस्त्यस्य ब्रह्मणा सम् पिनष्मि अहम् क्रिमीन् ॥१०॥
atri-vat vaḥ krimayaḥ hanmi kaṇva-vat jamadagni-vat.agastyasya brahmaṇā sam pinaṣmi aham krimīn ..10..

हतो राजा क्रिमीणामुतैषां स्थपतिर्हतः ।हतो हतमाता क्रिमिर्हतभ्राता हतस्वसा ॥११॥
हतः राजा क्रिमीणाम् उत एषाम् स्थपतिः हतः ।हतः हत-माता क्रिमिः हत-भ्राता हत-स्वसा ॥११॥
hataḥ rājā krimīṇām uta eṣām sthapatiḥ hataḥ .hataḥ hata-mātā krimiḥ hata-bhrātā hata-svasā ..11..

हतासो अस्य वेशसो हतासः परिवेशसः ।अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः ॥१२॥
हतासः अस्य वेशसः हतासः परिवेशसः ।अथ उ ये क्षुल्लकाः इव सर्वे ते क्रिमयः हताः ॥१२॥
hatāsaḥ asya veśasaḥ hatāsaḥ pariveśasaḥ .atha u ye kṣullakāḥ iva sarve te krimayaḥ hatāḥ ..12..

सर्वेषां च क्रिमीणां सर्वासां च क्रिमीनाम् ।भिनद्म्यश्मना शिरो दहाम्यग्निना मुखम् ॥१३॥
सर्वेषाम् च क्रिमीणाम् सर्वासाम् च क्रिमीनाम् ।भिनद्मि अश्मना शिरः दहामि अग्निना मुखम् ॥१३॥
sarveṣām ca krimīṇām sarvāsām ca krimīnām .bhinadmi aśmanā śiraḥ dahāmi agninā mukham ..13..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In