| |
|

This overlay will guide you through the buttons:

सविता प्रसवानामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१॥
सविता प्रसवानाम् अधिपतिः स मा अवतु ।अस्मिन् ब्रह्मणि अस्मिन् कर्मणि अस्याम् पुरोधायाम् अस्याम् प्रतिष्ठायाम् अस्याम् ।चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिषि अस्याम् देव-हूत्याम् स्वाहा ॥१॥
savitā prasavānām adhipatiḥ sa mā avatu .asmin brahmaṇi asmin karmaṇi asyām purodhāyām asyām pratiṣṭhāyām asyām .cittyām asyām ākūtyām asyām āśiṣi asyām deva-hūtyām svāhā ..1..

अग्निर्वनस्पतीनामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥२॥
अग्निः वनस्पतीनाम् अधिपतिः स मा अवतु ।अस्मिन् ब्रह्मणि अस्मिन् कर्मणि अस्याम् पुरोधायाम् अस्याम् प्रतिष्ठायाम् अस्याम् ।चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिषि अस्याम् देव-हूत्याम् स्वाहा ॥२॥
agniḥ vanaspatīnām adhipatiḥ sa mā avatu .asmin brahmaṇi asmin karmaṇi asyām purodhāyām asyām pratiṣṭhāyām asyām .cittyām asyām ākūtyām asyām āśiṣi asyām deva-hūtyām svāhā ..2..

द्यावापृथिवी दातॄणामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥३॥
द्यावापृथिवी दातॄणाम् अधिपतिः स मा अवतु ।अस्मिन् ब्रह्मणि अस्मिन् कर्मणि अस्याम् पुरोधायाम् अस्याम् प्रतिष्ठायाम् अस्याम् ।चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिषि अस्याम् देव-हूत्याम् स्वाहा ॥३॥
dyāvāpṛthivī dātṝṇām adhipatiḥ sa mā avatu .asmin brahmaṇi asmin karmaṇi asyām purodhāyām asyām pratiṣṭhāyām asyām .cittyām asyām ākūtyām asyām āśiṣi asyām deva-hūtyām svāhā ..3..

वरुणोऽपामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥४॥
वरुणः अपाम् अधिपतिः स मा अवतु ।अस्मिन् ब्रह्मणि अस्मिन् कर्मणि अस्याम् पुरोधायाम् अस्याम् प्रतिष्ठायाम् अस्याम् ।चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिषि अस्याम् देव-हूत्याम् स्वाहा ॥४॥
varuṇaḥ apām adhipatiḥ sa mā avatu .asmin brahmaṇi asmin karmaṇi asyām purodhāyām asyām pratiṣṭhāyām asyām .cittyām asyām ākūtyām asyām āśiṣi asyām deva-hūtyām svāhā ..4..

मित्रावरुणौ वृष्ट्याधिपती तौ मावताम् ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥५॥
मित्रावरुणौ वृष्ट्याः अधिपती तौ मा अवताम् ।अस्मिन् ब्रह्मणि अस्मिन् कर्मणि अस्याम् पुरोधायाम् अस्याम् प्रतिष्ठायाम् अस्याम् ।चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिषि अस्याम् देव-हूत्याम् स्वाहा ॥५॥
mitrāvaruṇau vṛṣṭyāḥ adhipatī tau mā avatām .asmin brahmaṇi asmin karmaṇi asyām purodhāyām asyām pratiṣṭhāyām asyām .cittyām asyām ākūtyām asyām āśiṣi asyām deva-hūtyām svāhā ..5..

मरुतः पर्वतानामधिपतयस्ते मावन्तु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥६॥
मरुतः पर्वतानाम् अधिपतयः ते मा अवन्तु ।अस्मिन् ब्रह्मणि अस्मिन् कर्मणि अस्याम् पुरोधायाम् अस्याम् प्रतिष्ठायाम् अस्याम् ।चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिषि अस्याम् देव-हूत्याम् स्वाहा ॥६॥
marutaḥ parvatānām adhipatayaḥ te mā avantu .asmin brahmaṇi asmin karmaṇi asyām purodhāyām asyām pratiṣṭhāyām asyām .cittyām asyām ākūtyām asyām āśiṣi asyām deva-hūtyām svāhā ..6..

सोमो वीरुधामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥७॥
सोमः वीरुधाम् अधिपतिः स मा अवतु ।अस्मिन् ब्रह्मणि अस्मिन् कर्मणि अस्याम् पुरोधायाम् अस्याम् प्रतिष्ठायाम् अस्याम् ।चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिषि अस्याम् देव-हूत्याम् स्वाहा ॥७॥
somaḥ vīrudhām adhipatiḥ sa mā avatu .asmin brahmaṇi asmin karmaṇi asyām purodhāyām asyām pratiṣṭhāyām asyām .cittyām asyām ākūtyām asyām āśiṣi asyām deva-hūtyām svāhā ..7..

वायुरन्तरिक्षस्याधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥८॥
वायुः अन्तरिक्षस्य अधिपतिः स मा अवतु ।अस्मिन् ब्रह्मणि अस्मिन् कर्मणि अस्याम् पुरोधायाम् अस्याम् प्रतिष्ठायाम् अस्याम् ।चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिषि अस्याम् देव-हूत्याम् स्वाहा ॥८॥
vāyuḥ antarikṣasya adhipatiḥ sa mā avatu .asmin brahmaṇi asmin karmaṇi asyām purodhāyām asyām pratiṣṭhāyām asyām .cittyām asyām ākūtyām asyām āśiṣi asyām deva-hūtyām svāhā ..8..

सूर्यश्चक्षुषामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥९॥
सूर्यः चक्षुषाम् अधिपतिः स मा अवतु ।अस्मिन् ब्रह्मणि अस्मिन् कर्मणि अस्याम् पुरोधायाम् अस्याम् प्रतिष्ठायाम् अस्याम् ।चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिषि अस्याम् देव-हूत्याम् स्वाहा ॥९॥
sūryaḥ cakṣuṣām adhipatiḥ sa mā avatu .asmin brahmaṇi asmin karmaṇi asyām purodhāyām asyām pratiṣṭhāyām asyām .cittyām asyām ākūtyām asyām āśiṣi asyām deva-hūtyām svāhā ..9..

चन्द्रमा नक्षत्राणामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१०॥
चन्द्रमाः नक्षत्राणाम् अधिपतिः स मा अवतु ।अस्मिन् ब्रह्मणि अस्मिन् कर्मणि अस्याम् पुरोधायाम् अस्याम् प्रतिष्ठायाम् अस्याम् ।चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिषि अस्याम् देव-हूत्याम् स्वाहा ॥१०॥
candramāḥ nakṣatrāṇām adhipatiḥ sa mā avatu .asmin brahmaṇi asmin karmaṇi asyām purodhāyām asyām pratiṣṭhāyām asyām .cittyām asyām ākūtyām asyām āśiṣi asyām deva-hūtyām svāhā ..10..

इन्द्रो दिवोऽधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥११॥
इन्द्रः दिवः अधिपतिः स मा अवतु ।अस्मिन् ब्रह्मणि अस्मिन् कर्मणि अस्याम् पुरोधायाम् अस्याम् प्रतिष्ठायाम् अस्याम् ।चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिषि अस्याम् देव-हूत्याम् स्वाहा ॥११॥
indraḥ divaḥ adhipatiḥ sa mā avatu .asmin brahmaṇi asmin karmaṇi asyām purodhāyām asyām pratiṣṭhāyām asyām .cittyām asyām ākūtyām asyām āśiṣi asyām deva-hūtyām svāhā ..11..

मरुतां पिता पशूनामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१२॥
मरुताम् पिता पशूनाम् अधिपतिः स मा अवतु ।अस्मिन् ब्रह्मणि अस्मिन् कर्मणि अस्याम् पुरोधायाम् अस्याम् प्रतिष्ठायाम् अस्याम् ।चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिषि अस्याम् देव-हूत्याम् स्वाहा ॥१२॥
marutām pitā paśūnām adhipatiḥ sa mā avatu .asmin brahmaṇi asmin karmaṇi asyām purodhāyām asyām pratiṣṭhāyām asyām .cittyām asyām ākūtyām asyām āśiṣi asyām deva-hūtyām svāhā ..12..

मृत्युः प्रजानामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१३॥
मृत्युः प्रजानाम् अधिपतिः स मा अवतु ।अस्मिन् ब्रह्मणि अस्मिन् कर्मणि अस्याम् पुरोधायाम् अस्याम् प्रतिष्ठायाम् अस्याम् ।चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिषि अस्याम् देव-हूत्याम् स्वाहा ॥१३॥
mṛtyuḥ prajānām adhipatiḥ sa mā avatu .asmin brahmaṇi asmin karmaṇi asyām purodhāyām asyām pratiṣṭhāyām asyām .cittyām asyām ākūtyām asyām āśiṣi asyām deva-hūtyām svāhā ..13..

यमः पितॄणामधिपतिः स मावतु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१४॥
यमः पितॄणाम् अधिपतिः स मा अवतु ।अस्मिन् ब्रह्मणि अस्मिन् कर्मणि अस्याम् पुरोधायाम् अस्याम् प्रतिष्ठायाम् अस्याम् ।चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिषि अस्याम् देव-हूत्याम् स्वाहा ॥१४॥
yamaḥ pitṝṇām adhipatiḥ sa mā avatu .asmin brahmaṇi asmin karmaṇi asyām purodhāyām asyām pratiṣṭhāyām asyām .cittyām asyām ākūtyām asyām āśiṣi asyām deva-hūtyām svāhā ..14..

पितरः परे ते मावन्तु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१५॥
पितरः परे ते मा अवन्तु ।अस्मिन् ब्रह्मणि अस्मिन् कर्मणि अस्याम् पुरोधायाम् अस्याम् प्रतिष्ठायाम् अस्याम् ।चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिषि अस्याम् देव-हूत्याम् स्वाहा ॥१५॥
pitaraḥ pare te mā avantu .asmin brahmaṇi asmin karmaṇi asyām purodhāyām asyām pratiṣṭhāyām asyām .cittyām asyām ākūtyām asyām āśiṣi asyām deva-hūtyām svāhā ..15..

तता अवरे ते मावन्तु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिस्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१६॥
तताः अवरे ते मा अवन्तु ।अस्मिन् ब्रह्मणि अस्मिन् कर्मणि अस्याम् पुरोधायाम् अस्याम् प्रतिस्ठायाम् अस्याम् ।चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिषि अस्याम् देव-हूत्याम् स्वाहा ॥१६॥
tatāḥ avare te mā avantu .asmin brahmaṇi asmin karmaṇi asyām purodhāyām asyām pratisṭhāyām asyām .cittyām asyām ākūtyām asyām āśiṣi asyām deva-hūtyām svāhā ..16..

ततस्ततामहास्ते मावन्तु ।अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१७॥
ततस्ततामहाः ते मा अवन्तु ।अस्मिन् ब्रह्मणि अस्मिन् कर्मणि अस्याम् पुरोधायाम् अस्याम् प्रतिष्ठायाम् अस्याम् ।चित्त्याम् अस्याम् आकूत्याम् अस्याम् आशिषि अस्याम् देव-हूत्याम् स्वाहा ॥१७॥
tatastatāmahāḥ te mā avantu .asmin brahmaṇi asmin karmaṇi asyām purodhāyām asyām pratiṣṭhāyām asyām .cittyām asyām ākūtyām asyām āśiṣi asyām deva-hūtyām svāhā ..17..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In