| |
|

This overlay will guide you through the buttons:

पर्वताद्दिवो योनेरङ्गादङ्गात्समाभृतम् ।शेपो गर्भस्य रेतोधाः सरौ पर्णमिवा दधत्॥१॥
पर्वतात् दिवः योनेः अङ्गात् अङ्गात् समाभृतम् ।शेपः गर्भस्य रेतः-धाः सरौ पर्णम् इव आ दधत्॥१॥
parvatāt divaḥ yoneḥ aṅgāt aṅgāt samābhṛtam .śepaḥ garbhasya retaḥ-dhāḥ sarau parṇam iva ā dadhat..1..

यथेयं पृथिवी मही भूतानां गर्भमादधे ।एवा दधामि ते गर्भं तस्मै त्वामवसे हुवे ॥२॥
यथा इयम् पृथिवी मही भूतानाम् गर्भम् आदधे ।एव आ दधामि ते गर्भम् तस्मै त्वाम् अवसे हुवे ॥२॥
yathā iyam pṛthivī mahī bhūtānām garbham ādadhe .eva ā dadhāmi te garbham tasmai tvām avase huve ..2..

गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।गर्भं ते अश्विनोभा धत्तां पुष्करस्रजा ॥३॥
गर्भम् धेहि सिनीवालि गर्भम् धेहि सरस्वति ।गर्भम् ते अश्विना उभा आ धत्ताम् पुष्करस्रजा ॥३॥
garbham dhehi sinīvāli garbham dhehi sarasvati .garbham te aśvinā ubhā ā dhattām puṣkarasrajā ..3..

गर्भं ते मित्रावरुणौ गर्भं देवो बृहस्पतिः ।गर्भं त इन्द्रश्चाग्निश्च गर्भं धाता दधातु ते ॥४॥
गर्भम् ते मित्रावरुणौ गर्भम् देवः बृहस्पतिः ।गर्भम् ते इन्द्रः च अग्निः च गर्भम् धाता दधातु ते ॥४॥
garbham te mitrāvaruṇau garbham devaḥ bṛhaspatiḥ .garbham te indraḥ ca agniḥ ca garbham dhātā dadhātu te ..4..

विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥५॥
विष्णुः योनिम् कल्पयतु त्वष्टा रूपाणि पिंशतु ।आ सिञ्चतु प्रजापतिः धाता गर्भम् दधातु ते ॥५॥
viṣṇuḥ yonim kalpayatu tvaṣṭā rūpāṇi piṃśatu .ā siñcatu prajāpatiḥ dhātā garbham dadhātu te ..5..

यद्वेद राजा वरुणो यद्वा देवी सरस्वती ।यदिन्द्रो वृत्रहा वेद तद्गर्भकरणं पिब ॥६॥
यत् वेद राजा वरुणः यत् वा देवी सरस्वती ।यत् इन्द्रः वृत्र-हा वेद तत् गर्भ-करणम् पिब ॥६॥
yat veda rājā varuṇaḥ yat vā devī sarasvatī .yat indraḥ vṛtra-hā veda tat garbha-karaṇam piba ..6..

गर्भो अस्योषधीनां गर्भो वनस्पतीनाम् ।गर्भो विश्वस्य भूतस्य सो अग्ने गर्भमेह धाः ॥७॥
गर्भः असि ओषधीनाम् गर्भः वनस्पतीनाम् ।गर्भः विश्वस्य भूतस्य सः अग्ने गर्भम् आ इह धाः ॥७॥
garbhaḥ asi oṣadhīnām garbhaḥ vanaspatīnām .garbhaḥ viśvasya bhūtasya saḥ agne garbham ā iha dhāḥ ..7..

अधि स्कन्द वीरयस्व गर्भमा धेहि योन्याम् ।वृषासि वृष्ण्यावन् प्रजायै त्वा नयामसि ॥८॥
अधि स्कन्द वीरयस्व गर्भम् आ धेहि योन्याम् ।वृषा असि वृष्ण्यावन् प्रजायै त्वा नयामसि ॥८॥
adhi skanda vīrayasva garbham ā dhehi yonyām .vṛṣā asi vṛṣṇyāvan prajāyai tvā nayāmasi ..8..

वि जिहीष्व बार्हत्सामे गर्भस्ते योनिमा शयाम् ।अदुष्टे देवाः पुत्रं सोमपा उभयाविनम् ॥९॥
वि जिहीष्व बार्हत्सामे गर्भः ते योनिम् आ शयाम् ।अदुष्टे देवाः पुत्रम् सोम-पाः उभयाविनम् ॥९॥
vi jihīṣva bārhatsāme garbhaḥ te yonim ā śayām .aduṣṭe devāḥ putram soma-pāḥ ubhayāvinam ..9..

धातः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥१०॥
धातर् श्रेष्ठेन रूपेण अस्याः नार्याः गवीन्योः ।पुमांसम् पुत्रम् आ धेहि दशमे मासि सूतवे ॥१०॥
dhātar śreṣṭhena rūpeṇa asyāḥ nāryāḥ gavīnyoḥ .pumāṃsam putram ā dhehi daśame māsi sūtave ..10..

त्वष्टः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥११॥
त्वष्टर् श्रेष्ठेन रूपेण अस्याः नार्याः गवीन्योः ।पुमांसम् पुत्रम् आ धेहि दशमे मासि सूतवे ॥११॥
tvaṣṭar śreṣṭhena rūpeṇa asyāḥ nāryāḥ gavīnyoḥ .pumāṃsam putram ā dhehi daśame māsi sūtave ..11..

सवितः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥१२॥
सवितर् श्रेष्ठेन रूपेण अस्याः नार्याः गवीन्योः ।पुमांसम् पुत्रम् आ धेहि दशमे मासि सूतवे ॥१२॥
savitar śreṣṭhena rūpeṇa asyāḥ nāryāḥ gavīnyoḥ .pumāṃsam putram ā dhehi daśame māsi sūtave ..12..

प्रजापते श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥१३॥
प्रजापते श्रेष्ठेन रूपेण अस्याः नार्याः गवीन्योः ।पुमांसम् पुत्रमा आ धेहि दशमे मासि सूतवे ॥१३॥
prajāpate śreṣṭhena rūpeṇa asyāḥ nāryāḥ gavīnyoḥ .pumāṃsam putramā ā dhehi daśame māsi sūtave ..13..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In