| |
|

This overlay will guide you through the buttons:

पुरस्ताद्युक्तो वह जातवेदोऽग्ने विद्धि क्रियमाणं यथेदम् ।त्वं भिषग्भेषजस्यासि कर्ता त्वया गामश्वं पुरुषं सनेम ॥१॥
पुरस्तात् युक्तः वह जातवेदः अग्ने विद्धि क्रियमाणम् यथा इदम् ।त्वम् भिषज् भेषजस्य असि कर्ता त्वया गाम् अश्वम् पुरुषम् सनेम ॥१॥
purastāt yuktaḥ vaha jātavedaḥ agne viddhi kriyamāṇam yathā idam .tvam bhiṣaj bheṣajasya asi kartā tvayā gām aśvam puruṣam sanema ..1..

तथा तदग्ने कृणु जातवेदो विश्वेभिर्देवैः सह संविदानः ।यो नो दिदेव यतमो जघास यथा सो अस्य परिधिष्पताति ॥२॥
तथा तत् अग्ने कृणु जातवेदः विश्वेभिः देवैः सह संविदानः ।यः नः दिदेव यतमः जघास यथा सः अस्य परिधिष्पताति ॥२॥
tathā tat agne kṛṇu jātavedaḥ viśvebhiḥ devaiḥ saha saṃvidānaḥ .yaḥ naḥ dideva yatamaḥ jaghāsa yathā saḥ asya paridhiṣpatāti ..2..

यथा सो अस्य परिधिष्पताति तथा तदग्ने कृणु जातवेदः ।विश्वेभिर्देवैर्सह संविदानः ॥३॥
यथा सः अस्य तथा तत् अग्ने कृणु जातवेदः ।विश्वेभिः देवैः सह संविदानः ॥३॥
yathā saḥ asya tathā tat agne kṛṇu jātavedaḥ .viśvebhiḥ devaiḥ saha saṃvidānaḥ ..3..

अक्ष्यौ नि विध्य हृदयं नि विध्य जिह्वां नि तृन्द्धि प्र दतो मृणीहि ।पिशाचो अस्य यतमो जघासाग्ने यविष्ठ प्रति शृणीहि ॥४॥
अक्ष्यौ नि विध्य हृदयम् नि विध्य जिह्वाम् नि तृन्द्धि प्र दतः मृणीहि ।पिशाचः अस्य यतमः जघास अग्ने यविष्ठ प्रति शृणीहि ॥४॥
akṣyau ni vidhya hṛdayam ni vidhya jihvām ni tṛnddhi pra dataḥ mṛṇīhi .piśācaḥ asya yatamaḥ jaghāsa agne yaviṣṭha prati śṛṇīhi ..4..

यदस्य हृतं विहृतं यत्पराभृतमात्मनो जग्धं यतमत्पिशाचैः ।तदग्ने विद्वान् पुनरा भर त्वं शरीरे मांसमसुमेरयामः ॥५॥
यत् अस्य हृतम् विहृतम् यत् पराभृतम् आत्मनः जग्धम् यतमत् पिशाचैः ।तत् अग्ने विद्वान् पुनर् आ भर त्वम् शरीरे मांसम् असुम् एरयामः ॥५॥
yat asya hṛtam vihṛtam yat parābhṛtam ātmanaḥ jagdham yatamat piśācaiḥ .tat agne vidvān punar ā bhara tvam śarīre māṃsam asum erayāmaḥ ..5..

आमे सुपक्वे शबले विपक्वे यो मा पिशाचो अशने ददम्भ ।तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥६॥
आमे सु पक्वे शबले विपक्वे यः मा पिशाचः अशने ददम्भ ।तद्-आत्मना प्रजया पिशाचाः वि यातयन्ताम् अगदः अयम् अस्तु ॥६॥
āme su pakve śabale vipakve yaḥ mā piśācaḥ aśane dadambha .tad-ātmanā prajayā piśācāḥ vi yātayantām agadaḥ ayam astu ..6..

क्षीरे मा मन्थे यतमो ददम्भाकृष्टपच्ये अशने धान्ये यः ।तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥७॥
क्षीरे मा मन्थे यतमः ददम्भ अकृष्टपच्ये अशने धान्ये यः ।तद्-आत्मना प्रजया पिशाचाः वि यातयन्ताम् अगदः अयम् अस्तु ॥७॥
kṣīre mā manthe yatamaḥ dadambha akṛṣṭapacye aśane dhānye yaḥ .tad-ātmanā prajayā piśācāḥ vi yātayantām agadaḥ ayam astu ..7..

अपां मा पाने यतमो ददम्भ क्रव्याद्यातूनां शयने शयानम् ।तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥८॥
अपाम् मा पाने यतमः ददम्भ क्रव्याद्-यातूनाम् शयने शयानम् ।तद्-आत्मना प्रजया पिशाचाः वि यातयन्ताम् अगदः अयम् अस्तु ॥८॥
apām mā pāne yatamaḥ dadambha kravyād-yātūnām śayane śayānam .tad-ātmanā prajayā piśācāḥ vi yātayantām agadaḥ ayam astu ..8..

दिवा मा नक्तं यतमो ददम्भ क्रव्याद्यातूनां शयने शयानम् ।तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥९॥
दिवा मा नक्तम् यतमः ददम्भ क्रव्याद्-यातूनाम् शयने शयानम् ।तद्-आत्मना प्रजया पिशाचाः वि यातयन्ताम् अगदः अयम् अस्तु ॥९॥
divā mā naktam yatamaḥ dadambha kravyād-yātūnām śayane śayānam .tad-ātmanā prajayā piśācāḥ vi yātayantām agadaḥ ayam astu ..9..

क्रव्यादमग्ने रुधिरं पिशाचं मनोहनं जहि जातवेदः ।तमिन्द्रो वाजी वज्रेण हन्तु छिनत्तु सोमः शिरो अस्य धृष्णुः ॥१०॥
क्रव्यादम् अग्ने रुधिरम् पिशाचम् मनः-हनम् जहि जातवेदः ।तम् इन्द्रः वाजी वज्रेण हन्तु छिनत्तु सोमः शिरः अस्य धृष्णुः ॥१०॥
kravyādam agne rudhiram piśācam manaḥ-hanam jahi jātavedaḥ .tam indraḥ vājī vajreṇa hantu chinattu somaḥ śiraḥ asya dhṛṣṇuḥ ..10..

सनादग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासु जिग्युः ।सहमूरान् अनु दह क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥११॥
सनादग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासु जिग्युः ।सहमूरान् अनु दह क्रव्यादः मा ते हेत्याः मुक्षत दैव्यायाः ॥११॥
sanādagne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ .sahamūrān anu daha kravyādaḥ mā te hetyāḥ mukṣata daivyāyāḥ ..11..

समाहर जातवेदो यद्धृतं यत्पराभृतम् ।गात्राण्यस्य वर्धन्तामंशुरिवा प्यायतामयम् ॥१२॥
समाहर जातवेदः यत् हृतम् यत् पराभृतम् ।गात्राणि अस्य वर्धन्ताम् अंशुः इव प्यायताम् अयम् ॥१२॥
samāhara jātavedaḥ yat hṛtam yat parābhṛtam .gātrāṇi asya vardhantām aṃśuḥ iva pyāyatām ayam ..12..

सोमस्येव जातवेदो अंशुरा प्यायतामयम् ।अग्ने विरप्शिनं मेध्यमयक्ष्मं कृणु जीवतु ॥१३॥
सोमस्य इव जातवेदः अंशुः आ प्यायताम् अयम् ।अग्ने विरप्शिनम् मेध्यम् अयक्ष्मम् कृणु जीवतु ॥१३॥
somasya iva jātavedaḥ aṃśuḥ ā pyāyatām ayam .agne virapśinam medhyam ayakṣmam kṛṇu jīvatu ..13..

एतास्ते अग्ने समिधः पिशाचजम्भनीः ।तास्त्वं जुषस्व प्रति चैना गृहाण जातवेदः ॥१४॥
एताः ते अग्ने समिधः पिशाच-जम्भनीः ।ताः त्वम् जुषस्व प्रति च एनाः गृहाण जातवेदः ॥१४॥
etāḥ te agne samidhaḥ piśāca-jambhanīḥ .tāḥ tvam juṣasva prati ca enāḥ gṛhāṇa jātavedaḥ ..14..

तार्ष्टाघीरग्ने समिधः प्रति गृह्णाह्यर्चिषा ।जहातु क्रव्याद्रूपं यो अस्य मांसं जिहीर्षति ॥१५॥
तार्ष्टाघीः अग्ने समिधः प्रति गृह्णाहि अर्चिषा ।जहातु क्रव्याद्-रूपम् यः अस्य मांसम् जिहीर्षति ॥१५॥
tārṣṭāghīḥ agne samidhaḥ prati gṛhṇāhi arciṣā .jahātu kravyād-rūpam yaḥ asya māṃsam jihīrṣati ..15..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In