| |
|

This overlay will guide you through the buttons:

ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तन्वं पुषेम ।मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम ॥१॥
मम अग्ने वर्चः विहवेषु अस्तु वयम् त्वा इन्धानाः तन्वम् पुषेम ।मह्यम् नमन्ताम् प्रदिशः चतस्रः त्वया अध्यक्षेण पृतनाः जयेम ॥१॥
mama agne varcaḥ vihaveṣu astu vayam tvā indhānāḥ tanvam puṣema .mahyam namantām pradiśaḥ catasraḥ tvayā adhyakṣeṇa pṛtanāḥ jayema ..1..

अग्ने मन्युं प्रतिनुदन् परेषां त्वं नो गोपाः परि पाहि विश्वतः ।अपाञ्चो यन्तु निवता दुरस्यवोऽमैषां चित्तं प्रबुधां वि नेशत्॥२॥
अग्ने मन्युम् प्रतिनुदन् परेषाम् त्वम् नः गोपाः परि पाहि विश्वतस् ।अपाञ्चः यन्तु निवता दुरस्यवः अमा एषाम् चित्तम् प्रबुधाम् वि नेशत्॥२॥
agne manyum pratinudan pareṣām tvam naḥ gopāḥ pari pāhi viśvatas .apāñcaḥ yantu nivatā durasyavaḥ amā eṣām cittam prabudhām vi neśat..2..

मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुरग्निः ।ममान्तरिक्षमुरुलोकमस्तु मह्यं वातः पवतां कामायास्मै ॥३॥
मम देवाः विहवे सन्तु सर्वे इन्द्रवन्तः मरुतः विष्णुः अग्निः ।मम अन्तरिक्षम् उरु-लोकम् अस्तु मह्यम् वातः पवताम् कामाय अस्मै ॥३॥
mama devāḥ vihave santu sarve indravantaḥ marutaḥ viṣṇuḥ agniḥ .mama antarikṣam uru-lokam astu mahyam vātaḥ pavatām kāmāya asmai ..3..

मह्यं यजन्तां मम यानीष्टाकूतिः सत्या मनसो मे अस्तु ।एनो मा नि गां कतमच्चनाहं विश्वे देवा अभि रक्षन्तु मेह ॥४॥
मह्यम् यजन्ताम् मम यानि इष्टा आकूतिः सत्या मनसः मे अस्तु ।एनः मा नि गाम् कतमत् चन अहम् विश्वे देवाः अभि रक्षन्तु मा इह ॥४॥
mahyam yajantām mama yāni iṣṭā ākūtiḥ satyā manasaḥ me astu .enaḥ mā ni gām katamat cana aham viśve devāḥ abhi rakṣantu mā iha ..4..

मयि देवा द्रविणमा यजन्तां मयि आशीरस्तु मयि देवहूतिः ।दैवाः होतारः सनिषन् न एतदरिष्टाः स्याम तन्वा सुवीराः ॥५॥
मयि देवाः द्रविणमाः यजन्ताम् मयि आशीः अस्तु मयि देव-हूतिः ।दैवाः होतारः सनिषन् नः एतद्-अरिष्टाः स्याम तन्वा सु वीराः ॥५॥
mayi devāḥ draviṇamāḥ yajantām mayi āśīḥ astu mayi deva-hūtiḥ .daivāḥ hotāraḥ saniṣan naḥ etad-ariṣṭāḥ syāma tanvā su vīrāḥ ..5..

दैवीः षडुर्वीरुरु नः कृणोत विश्वे देवास इह मादयध्वम् ।मा नो विददभिभा मो अशस्तिर्मा नो विदद्वृजिना द्वेष्या या ॥६॥
दैवीः षड् उर्वीः उरु नः कृणोत विश्वे देवासः इह मादयध्वम् ।मा नः विदत् अभिभा मा उ अशस्तिः मा नः विदत् वृजिना द्वेष्या या ॥६॥
daivīḥ ṣaḍ urvīḥ uru naḥ kṛṇota viśve devāsaḥ iha mādayadhvam .mā naḥ vidat abhibhā mā u aśastiḥ mā naḥ vidat vṛjinā dveṣyā yā ..6..

तिस्रो देवीर्महि नः शर्म यच्छत प्रजायै नस्तन्वे यच्च पुष्टम् ।मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन् ॥७॥
तिस्रः देवीः महि नः शर्म यच्छत प्रजायै नः तन्वे यत् च पुष्टम् ।मा हास्महि प्रजया मा तनूभिः मा रधाम द्विषते सोम राजन् ॥७॥
tisraḥ devīḥ mahi naḥ śarma yacchata prajāyai naḥ tanve yat ca puṣṭam .mā hāsmahi prajayā mā tanūbhiḥ mā radhāma dviṣate soma rājan ..7..

उरुव्यचा नो महिषः शर्म यच्छत्वस्मिन् हवे पुरुहूतः पुरुक्षु ।स नः प्रजायै हर्यश्व मृडेन्द्र मा नो रीरिषो मा परा दाः ॥८॥
उरु-व्यचाः नः महिषः शर्म यच्छतु अस्मिन् हवे पुरु-हूतः पुरुक्षु ।स नः प्रजायै हरि-अश्व मृड इन्द्र मा नः रीरिषः मा परा दाः ॥८॥
uru-vyacāḥ naḥ mahiṣaḥ śarma yacchatu asmin have puru-hūtaḥ purukṣu .sa naḥ prajāyai hari-aśva mṛḍa indra mā naḥ rīriṣaḥ mā parā dāḥ ..8..

धाता विधाता भुवनस्य यस्पतिर्देवः सविताभिमातिषाहः ।आदित्या रुद्रा अश्विनोभा देवाः पान्तु यजमानं निर्ऋथात्॥९॥
धाता विधाता भुवनस्य यस्पतिः देवः सविता अभिमातिषाहः ।आदित्याः रुद्राः अश्विना उभा देवाः पान्तु यजमानम् निरृथात्॥९॥
dhātā vidhātā bhuvanasya yaspatiḥ devaḥ savitā abhimātiṣāhaḥ .ādityāḥ rudrāḥ aśvinā ubhā devāḥ pāntu yajamānam nirṛthāt..9..

ये नः सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामव बाधामह एनान् ।आदित्या रुद्रा उपरिस्पृशो नो उग्रं चेत्तारमधिराजमक्रत ॥१०॥
ये नः सपत्नाः अप ते भवन्तु इन्द्र-अग्निभ्याम् अव बाधामहे एनान् ।आदित्याः रुद्राः उपरिस्पृशः नः उग्रम् चेत्तारम् अधिराजम् अक्रत ॥१०॥
ye naḥ sapatnāḥ apa te bhavantu indra-agnibhyām ava bādhāmahe enān .ādityāḥ rudrāḥ uparispṛśaḥ naḥ ugram cettāram adhirājam akrata ..10..

अर्वाञ्चमिन्द्रममुतो हवामहे यो गोजिद्धनजिदश्वजिद्यः ।इमं नो यज्ञं विहवे शृणोत्वस्माकमभूर्हर्यश्व मेदी ॥११॥
अर्वाञ्चम् इन्द्रम् अमुतस् हवामहे यः गो-जित् धन-जित् अश्व-जित् यः ।इमम् नः यज्ञम् विहवे शृणोतु अस्माकम् अभूः हरि-अश्व मेदी ॥११॥
arvāñcam indram amutas havāmahe yaḥ go-jit dhana-jit aśva-jit yaḥ .imam naḥ yajñam vihave śṛṇotu asmākam abhūḥ hari-aśva medī ..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In