| |
|

This overlay will guide you through the buttons:

आवतस्त आवतः परावतस्त आवतः ।इहैव भव मा नु गा मा पूर्वान् अनु गाः पितॄन् असुं बध्नामि ते दृढम् ॥१॥
आवतः ते आवतः परावतः ते आवतः ।इह एव भव मा नु गाः मा पूर्वान् अनु गाः पितॄन् असुम् बध्नामि ते दृढम् ॥१॥
āvataḥ te āvataḥ parāvataḥ te āvataḥ .iha eva bhava mā nu gāḥ mā pūrvān anu gāḥ pitṝn asum badhnāmi te dṛḍham ..1..

यत्त्वाभिचेरुः पुरुषः स्वो यदरणो जनः ।उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥२॥
यत् त्वा अभिचेरुः पुरुषः स्वः यद्-अरणः जनः ।उन्मोचन-प्रमोचने उभे वाचा वदामि ते ॥२॥
yat tvā abhiceruḥ puruṣaḥ svaḥ yad-araṇaḥ janaḥ .unmocana-pramocane ubhe vācā vadāmi te ..2..

यद्दुद्रोहिथ शेपिषे स्त्रियै पुंसे अचित्त्या ।उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥३॥
यत् दुद्रोहिथ शेपिषे स्त्रियै पुंसे अचित्त्या ।उन्मोचन-प्रमोचने उभे वाचा वदामि ते ॥३॥
yat dudrohitha śepiṣe striyai puṃse acittyā .unmocana-pramocane ubhe vācā vadāmi te ..3..

यतेनसो मातृकृताच्छेषे पितृकृताच्च यत्।उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥४॥
यत-इनसः मातृ-कृतात् शेषे पितृ-कृतात् च यत्।उन्मोचन-प्रमोचने उभे वाचा वदामि ते ॥४॥
yata-inasaḥ mātṛ-kṛtāt śeṣe pitṛ-kṛtāt ca yat.unmocana-pramocane ubhe vācā vadāmi te ..4..

यत्ते माता यत्ते पिता जमिर्भ्राता च सर्जतः ।प्रत्यक्सेवस्व भेषजं जरदष्टिं कृणोमि त्वा ॥५॥
यत् ते माता यत् ते पिता जमिः भ्राता च सर्जतः ।प्रत्यक् सेवस्व भेषजम् जरदष्टिम् कृणोमि त्वा ॥५॥
yat te mātā yat te pitā jamiḥ bhrātā ca sarjataḥ .pratyak sevasva bheṣajam jaradaṣṭim kṛṇomi tvā ..5..

इहैधि पुरुष सर्वेण मनसा सह ।दूतौ यमस्य मानु गा अधि जीवपुरा इहि ॥६॥
इह एधि पुरुष सर्वेण मनसा सह ।दूतौ यमस्य मा अनु गाः अधि जीव-पुरा इहि ॥६॥
iha edhi puruṣa sarveṇa manasā saha .dūtau yamasya mā anu gāḥ adhi jīva-purā ihi ..6..

अनुहूतः पुनरेहि विद्वान् उदयनं पथः ।आरोहणमाक्रमणं जीवतोजीवतोऽयनम् ॥७॥
अनुहूतः पुनर् एहि विद्वान् उदयनम् पथः ।आरोहणम् आक्रमणम् जीवतः जीवतः अयनम् ॥७॥
anuhūtaḥ punar ehi vidvān udayanam pathaḥ .ārohaṇam ākramaṇam jīvataḥ jīvataḥ ayanam ..7..

मा बिभेर्न मरिष्यसि जरदष्टिं कृणोमि त्वा ।निरवोचमहं यक्ष्ममङ्गेभ्यो अङ्गज्वरं तव ॥८॥
मा बिभेः न मरिष्यसि जरदष्टिम् कृणोमि त्वा ।निरवोचम् अहम् यक्ष्मम् अङ्गेभ्यः अङ्ग-ज्वरम् तव ॥८॥
mā bibheḥ na mariṣyasi jaradaṣṭim kṛṇomi tvā .niravocam aham yakṣmam aṅgebhyaḥ aṅga-jvaram tava ..8..

अङ्गभेदो अङ्गज्वरो यश्च ते हृदयामयः ।यक्ष्मः श्येन इव प्रापप्तद्वचा साढः परस्तराम् ॥९॥
अङ्ग-भेदः अङ्ग-ज्वरः यः च ते हृदय-आमयः ।यक्ष्मः श्येनः इव साढः परस्तराम् ॥९॥
aṅga-bhedaḥ aṅga-jvaraḥ yaḥ ca te hṛdaya-āmayaḥ .yakṣmaḥ śyenaḥ iva sāḍhaḥ parastarām ..9..

ऋषी बोधप्रतीबोधावस्वप्नो यश्च जागृविः ।तौ ते प्राणस्य गोप्तारौ दिवा नक्तं च जागृताम् ॥१०॥
ऋषी बोध-प्रतीबोधौ अस्वप्नः यः च जागृविः ।तौ ते प्राणस्य गोप्तारौ दिवा नक्तम् च जागृताम् ॥१०॥
ṛṣī bodha-pratībodhau asvapnaḥ yaḥ ca jāgṛviḥ .tau te prāṇasya goptārau divā naktam ca jāgṛtām ..10..

अयमग्निरुपसद्य इह सूर्य उदेतु ते ।उदेहि मृत्योर्गम्भीरात्कृष्णाच्चित्तमसस्परि ॥११॥
अयम् अग्निः उपसद्यः इह सूर्यः उदेतु ते ।उदेहि मृत्योः गम्भीरात् कृष्णात् चित्तम् असस्परि ॥११॥
ayam agniḥ upasadyaḥ iha sūryaḥ udetu te .udehi mṛtyoḥ gambhīrāt kṛṣṇāt cittam asaspari ..11..

नमो यमाय नमो अस्तु मृत्यवे नमः पितृभ्य उत ये नयन्ति ।उत्पारणस्य यो वेद तमग्निं पुरो दधेऽस्मा अरिष्टतातये ॥१२॥
नमः यमाय नमः अस्तु मृत्यवे नमः पितृभ्यः उत ये नयन्ति ।उत्पारणस्य यः वेद तम् अग्निम् पुरस् दधे अस्मै अरिष्टतातये ॥१२॥
namaḥ yamāya namaḥ astu mṛtyave namaḥ pitṛbhyaḥ uta ye nayanti .utpāraṇasya yaḥ veda tam agnim puras dadhe asmai ariṣṭatātaye ..12..

ऐतु प्राण ऐतु मन ऐतु चक्षुरथो बलम् ।शरीरमस्य सं विदां तत्पद्भ्यां प्रति तिष्ठतु ॥१३॥
ऐतु प्राण ऐतु मनः ऐतु चक्षुः अथो बलम् ।शरीरम् अस्य सम् तत् पद्भ्याम् प्रति तिष्ठतु ॥१३॥
aitu prāṇa aitu manaḥ aitu cakṣuḥ atho balam .śarīram asya sam tat padbhyām prati tiṣṭhatu ..13..

प्राणेनाग्ने चक्षुषा सं सृजेमं समीरय तन्वा सं बलेन ।वेत्थामृतस्य मा नु गान् मा नु भूमिगृहो भुवत्॥१४॥
प्राणेन अग्ने चक्षुषा सम् सृज इमम् समीरय तन्वा सम् बलेन ।वेत्थ अमृतस्य मा नु गात् मा नु भूमि-गृहः भुवत्॥१४॥
prāṇena agne cakṣuṣā sam sṛja imam samīraya tanvā sam balena .vettha amṛtasya mā nu gāt mā nu bhūmi-gṛhaḥ bhuvat..14..

मा ते प्राण उप दसन् मो अपानोऽपि धायि ते ।सूर्यस्त्वाधिपतिर्मृत्योरुदायच्छतु रश्मिभिः ॥१५॥
मा ते प्राणः उप दसत् मा उ अपानः अपि धायि ते ।सूर्यः त्वा अधिपतिः मृत्योः उदायच्छतु रश्मिभिः ॥१५॥
mā te prāṇaḥ upa dasat mā u apānaḥ api dhāyi te .sūryaḥ tvā adhipatiḥ mṛtyoḥ udāyacchatu raśmibhiḥ ..15..

इयमन्तर्वदति जिह्वा बद्धा पनिष्पदा ।त्वया यक्ष्मं निरवोचं शतं रोपीश्च तक्मनः ॥१६॥
इयम् अन्तर् वदति जिह्वा बद्धा पनिष्पदा ।त्वया यक्ष्मम् निरवोचम् शतम् रोपीः च तक्मनः ॥१६॥
iyam antar vadati jihvā baddhā paniṣpadā .tvayā yakṣmam niravocam śatam ropīḥ ca takmanaḥ ..16..

अयं लोकः प्रियतमो देवानामपराजितः ।यस्मै त्वमिह मृत्यवे दिष्टः पुरुष जज्ञिषे ।स च त्वानु ह्वयामसि मा पुरा जरसो मृथाः ॥१७॥
अयम् लोकः प्रियतमः देवानाम् अपराजितः ।यस्मै त्वम् इह मृत्यवे दिष्टः पुरुष जज्ञिषे ।स च त्वा अनु ह्वयामसि मा पुरा जरसः मृथाः ॥१७॥
ayam lokaḥ priyatamaḥ devānām aparājitaḥ .yasmai tvam iha mṛtyave diṣṭaḥ puruṣa jajñiṣe .sa ca tvā anu hvayāmasi mā purā jarasaḥ mṛthāḥ ..17..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In