| |
|

This overlay will guide you through the buttons:

यां ते चक्रुरामे पात्रे यां चक्रुर्मिश्रधान्ये ।आमे मांसे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥१॥
याम् ते चक्रुः आमे पात्रे याम् चक्रुः मिश्र-धान्ये ।आमे मांसे कृत्याम् याम् चक्रुः पुनर् प्रति हरामि ताम् ॥१॥
yām te cakruḥ āme pātre yām cakruḥ miśra-dhānye .āme māṃse kṛtyām yām cakruḥ punar prati harāmi tām ..1..

यां ते चक्रुः कृकवाकावजे वा यां कुरीरिणि ।अव्यां ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥२॥
याम् ते चक्रुः कृकवाका-वजे वा याम् कुरीरिणि ।अव्याम् ते कृत्याम् याम् चक्रुः पुनर् प्रति हरामि ताम् ॥२॥
yām te cakruḥ kṛkavākā-vaje vā yām kurīriṇi .avyām te kṛtyām yām cakruḥ punar prati harāmi tām ..2..

यां ते चक्रुरेकशफे पशूनामुभयादति ।गर्दभे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥३॥
याम् ते चक्रुः एकशफे पशूनाम् उभयादति ।गर्दभे कृत्याम् याम् चक्रुः पुनर् प्रति हरामि ताम् ॥३॥
yām te cakruḥ ekaśaphe paśūnām ubhayādati .gardabhe kṛtyām yām cakruḥ punar prati harāmi tām ..3..

यां ते चक्रुरमूलायां वलगं वा नराच्याम् ।क्षेत्रे ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥४॥
याम् ते चक्रुः अमूलायाम् वलगम् वा नराच्याम् ।क्षेत्रे ते कृत्याम् याम् चक्रुः पुनर् प्रति हरामि ताम् ॥४॥
yām te cakruḥ amūlāyām valagam vā narācyām .kṣetre te kṛtyām yām cakruḥ punar prati harāmi tām ..4..

यां ते चक्रुर्गार्हपत्ये पूर्वाग्नावुत दुश्चितः ।शालायां कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥५॥
याम् ते चक्रुः गार्हपत्ये पूर्व-अग्नौ उत दुश्चितः ।शालायाम् कृत्याम् याम् चक्रुः पुनर् प्रति हरामि ताम् ॥५॥
yām te cakruḥ gārhapatye pūrva-agnau uta duścitaḥ .śālāyām kṛtyām yām cakruḥ punar prati harāmi tām ..5..

यां ते चक्रुः सभायां यां चक्रुरधिदेवने ।अक्षेषु कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥६॥
याम् ते चक्रुः सभायाम् याम् चक्रुः अधिदेवने ।अक्षेषु कृत्याम् याम् चक्रुः पुनर् प्रति हरामि ताम् ॥६॥
yām te cakruḥ sabhāyām yām cakruḥ adhidevane .akṣeṣu kṛtyām yām cakruḥ punar prati harāmi tām ..6..

यां ते चक्रुः सेनायां यां चक्रुरिष्वायुधे ।दुन्दुभौ कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥७॥
याम् ते चक्रुः सेनायाम् याम् चक्रुः इषु-आयुधे ।दुन्दुभौ कृत्याम् याम् चक्रुः पुनर् प्रति हरामि ताम् ॥७॥
yām te cakruḥ senāyām yām cakruḥ iṣu-āyudhe .dundubhau kṛtyām yām cakruḥ punar prati harāmi tām ..7..

यां ते कृत्यां कूपेऽवदधुः श्मशाने वा निचख्नुः ।सद्मनि कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥८॥
याम् ते कृत्याम् कूपे अवदधुः श्मशाने वा निचख्नुः ।सद्मनि कृत्याम् याम् चक्रुः पुनर् प्रति हरामि ताम् ॥८॥
yām te kṛtyām kūpe avadadhuḥ śmaśāne vā nicakhnuḥ .sadmani kṛtyām yām cakruḥ punar prati harāmi tām ..8..

यां ते चक्रुः पुरुषास्थे अग्नौ संकसुके च याम् ।म्रोकं निर्दाहं क्रव्यादं पुनः प्रति हरामि ताम् ॥९॥
याम् ते चक्रुः पुरुष-अस्थे अग्नौ संकसुके च याम् ।म्रोकम् निर्दाहम् क्रव्यादम् पुनर् प्रति हरामि ताम् ॥९॥
yām te cakruḥ puruṣa-asthe agnau saṃkasuke ca yām .mrokam nirdāham kravyādam punar prati harāmi tām ..9..

अपथेना जभारैनां तां पथेतः प्र हिण्मसि ।अधीरो मर्याधीरेभ्यः सं जभाराचित्त्या ॥१०॥
अपथेन जभार एनाम् ताम् पथा इतस् प्र हिन्मसि ।अधीरः मर्य अधीरेभ्यः सम् जभार अचित्त्या ॥१०॥
apathena jabhāra enām tām pathā itas pra hinmasi .adhīraḥ marya adhīrebhyaḥ sam jabhāra acittyā ..10..

यश्चकार न शशाक कर्तुं शश्रे पादमङ्गुरिम् ।चकार भद्रमस्मभ्यमभगो भगवद्भ्यः ॥११॥
यः चकार न शशाक कर्तुम् शश्रे पादम् अङ्गुरिम् ।चकार भद्रम् अस्मभ्यम् अभगः भगवद्भ्यः ॥११॥
yaḥ cakāra na śaśāka kartum śaśre pādam aṅgurim .cakāra bhadram asmabhyam abhagaḥ bhagavadbhyaḥ ..11..

कृत्याकृतं वलगिनं मूलिनं शपथेय्यम् ।इन्द्रस्तं हन्तु महता वधेनाग्निर्विध्यत्वस्तया ॥१२॥
कृत्या-कृतम् वलगिनम् मूलिनम् शपथेय्यम् ।इन्द्रः तम् हन्तु महता वधेन अग्निः विध्यतु अस्तया ॥१२॥
kṛtyā-kṛtam valaginam mūlinam śapatheyyam .indraḥ tam hantu mahatā vadhena agniḥ vidhyatu astayā ..12..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In