| |
|

This overlay will guide you through the buttons:

यो गिरिष्वजायथा वीरुधां बलवत्तमः ।कुष्ठेहि तक्मनाशन तक्मानं नाशयन्न् इतः ॥१॥
यः गिरिषु अजायथाः वीरुधाम् बलवत्तमः ।कुष्ठेहि तक्म-नाशन तक्मानम् नाशयन् इतस् ॥१॥
yaḥ giriṣu ajāyathāḥ vīrudhām balavattamaḥ .kuṣṭhehi takma-nāśana takmānam nāśayan itas ..1..

सुपर्णसुवने गिरौ जातं हिमवतस्परि ।धनैरभि श्रुत्वा यन्ति विदुर्हि तक्मनाशनम् ॥२॥
सुपर्ण-सुवने गिरौ जातम् हिमवतः परि ।धनैः अभि श्रुत्वा यन्ति विदुः हि तक्म-नाशनम् ॥२॥
suparṇa-suvane girau jātam himavataḥ pari .dhanaiḥ abhi śrutvā yanti viduḥ hi takma-nāśanam ..2..

अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि ।तत्रामृतस्य चक्षणं देवाः कुष्ठमवन्वत ॥३॥
अश्वत्थः देव-सदनः तृतीयस्याम् इतस् दिवि ।तत्र अमृतस्य चक्षणम् देवाः कुष्ठम् अवन्वत ॥३॥
aśvatthaḥ deva-sadanaḥ tṛtīyasyām itas divi .tatra amṛtasya cakṣaṇam devāḥ kuṣṭham avanvata ..3..

हिरण्ययी नौरचरद्धिरण्यबन्धना दिवि ।तत्रामृतस्य पुष्पं देवाः कुष्ठमवन्वत ॥४॥
हिरण्ययी नौः अचरत् हिरण्य-बन्धना दिवि ।तत्र अमृतस्य पुष्पम् देवाः कुष्ठम् अवन्वत ॥४॥
hiraṇyayī nauḥ acarat hiraṇya-bandhanā divi .tatra amṛtasya puṣpam devāḥ kuṣṭham avanvata ..4..

हिरण्ययाः पन्थान आसन्न् अरित्राणि हिरण्यया ।नावो हिरण्ययीरासन् याभिः कुष्ठं निरावहन् ॥५॥
हिरण्ययाः पन्थानः आसन् अरित्राणि हिरण्यया ।नावः हिरण्ययीः आसन् याभिः कुष्ठम् निरावहन् ॥५॥
hiraṇyayāḥ panthānaḥ āsan aritrāṇi hiraṇyayā .nāvaḥ hiraṇyayīḥ āsan yābhiḥ kuṣṭham nirāvahan ..5..

इमं मे कुष्ठ पूरुषं तमा वह तं निष्कुरु ।तमु मे अगदं कृधि ॥६॥
इमम् मे कुष्ठ पूरुषम् तम् आ वह तम् निष्कुरु ।तम् उ मे अगदम् कृधि ॥६॥
imam me kuṣṭha pūruṣam tam ā vaha tam niṣkuru .tam u me agadam kṛdhi ..6..

देवेभ्यो अधि जातोऽसि सोमस्यासि सखा हितः ।स प्राणाय व्यानाय चक्षुषे मे अस्मै मृड ॥७॥
देवेभ्यः अधि जातः असि सोमस्य असि सखा हितः ।स प्राणाय व्यानाय चक्षुषे मे अस्मै मृड ॥७॥
devebhyaḥ adhi jātaḥ asi somasya asi sakhā hitaḥ .sa prāṇāya vyānāya cakṣuṣe me asmai mṛḍa ..7..

उदङ्जातो हिमवतः स प्राच्यां नीयसे जनम् ।तत्र कुष्ठस्य नामान्युत्तमानि वि भेजिरे ॥८॥
उदङ् जातः हिमवतः स प्राच्याम् नीयसे जनम् ।तत्र कुष्ठस्य नामानि उत्तमानि वि भेजिरे ॥८॥
udaṅ jātaḥ himavataḥ sa prācyām nīyase janam .tatra kuṣṭhasya nāmāni uttamāni vi bhejire ..8..

उत्तमो नाम कुष्ठस्युत्तमो नाम ते पिता ।यक्ष्मं च सर्वं नाशय तक्मानं चारसं कृधि ॥९॥
उत्तमः नाम कुष्ठसि उत्तमः नाम ते पिता ।यक्ष्मम् च सर्वम् नाशय तक्मानम् च अरसम् कृधि ॥९॥
uttamaḥ nāma kuṣṭhasi uttamaḥ nāma te pitā .yakṣmam ca sarvam nāśaya takmānam ca arasam kṛdhi ..9..

शीर्षामयमुपहत्यामक्ष्योस्तन्वो रपः ।कुष्ठस्तत्सर्वं निष्करद्दैवं समह वृष्ण्यम् ॥१०॥
शीर्ष-आमयम् उपहत्याम् अक्ष्योः तन्वः रपः ।कुष्ठः तत् सर्वम् निष्करत् दैवम् समह वृष्ण्यम् ॥१०॥
śīrṣa-āmayam upahatyām akṣyoḥ tanvaḥ rapaḥ .kuṣṭhaḥ tat sarvam niṣkarat daivam samaha vṛṣṇyam ..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In