| |
|

This overlay will guide you through the buttons:

रात्री माता नभः पितार्यमा ते पितामहः ।सिलाची नाम वा असि सा देवानामसि स्वसा ॥१॥
रात्री माता नभः पिता अर्यमा ते पितामहः ।सिलाची नाम वै असि सा देवानाम् असि स्वसा ॥१॥
rātrī mātā nabhaḥ pitā aryamā te pitāmahaḥ .silācī nāma vai asi sā devānām asi svasā ..1..

यस्त्वा पिबति जीवति त्रायसे पुरुषं त्वम् ।भर्त्री हि शश्वतामसि जनानां च न्यञ्चनी ॥२॥
यः त्वा पिबति जीवति त्रायसे पुरुषम् त्वम् ।भर्त्री हि शश्वताम् असि जनानाम् च न्यञ्चनी ॥२॥
yaḥ tvā pibati jīvati trāyase puruṣam tvam .bhartrī hi śaśvatām asi janānām ca nyañcanī ..2..

वृक्षंवृक्षमा रोहसि वृषण्यन्तीव कन्यला ।जयन्ती प्रत्यातिष्ठन्ती स्परणी नाम वा असि ॥३॥
वृक्षम् वृक्षम् आ रोहसि वृषण्यन्ती इव कन्यला ।जयन्ती प्रत्यातिष्ठन्ती स्परणी नाम वै असि ॥३॥
vṛkṣam vṛkṣam ā rohasi vṛṣaṇyantī iva kanyalā .jayantī pratyātiṣṭhantī sparaṇī nāma vai asi ..3..

यद्दण्डेन यदिष्वा यद्वारुर्हरसा कृतम् ।तस्य त्वमसि निष्कृतिः सेमं निष्कृधि पूरुषम् ॥४॥
यत् दण्डेन यत् इष्वा यत् वा अरुः हरसा कृतम् ।तस्य त्वम् असि निष्कृतिः सा इमम् निष्कृधि पूरुषम् ॥४॥
yat daṇḍena yat iṣvā yat vā aruḥ harasā kṛtam .tasya tvam asi niṣkṛtiḥ sā imam niṣkṛdhi pūruṣam ..4..

भद्रात्प्लक्षान् निस्तिष्ठस्यश्वत्थात्खदिराद्धवात्।भद्रान् न्यग्रोधात्पर्णात्सा न एह्यरुन्धति ॥५॥
भद्रात् प्लक्षात् निस्तिष्ठसि अश्वत्थात् खदिरात् हवात्।भद्रात् न्यग्रोधात् पर्णात् सा नः एहि अरुन्धति ॥५॥
bhadrāt plakṣāt nistiṣṭhasi aśvatthāt khadirāt havāt.bhadrāt nyagrodhāt parṇāt sā naḥ ehi arundhati ..5..

हिरण्यवर्णे सुभगे सूर्यवर्णे वपुष्टमे ।रुतं गच्छासि निष्कृते निष्कृतिर्नाम वा असि ॥६॥
हिरण्य-वर्णे सुभगे सूर्य-वर्णे वपुष्टमे ।रुतम् गच्छासि निष्कृते निष्कृतिः नाम वै असि ॥६॥
hiraṇya-varṇe subhage sūrya-varṇe vapuṣṭame .rutam gacchāsi niṣkṛte niṣkṛtiḥ nāma vai asi ..6..

हिरण्यवर्णे सुभगे शुष्मे लोमशवक्षणे ।अपामसि स्वसा लाक्षे वातो हात्मा बभूव ते ॥७॥
हिरण्य-वर्णे सुभगे शुष्मे लोमश-वक्षणे ।अपामसि स्वसा लाक्षे वातः ह आत्मा बभूव ते ॥७॥
hiraṇya-varṇe subhage śuṣme lomaśa-vakṣaṇe .apāmasi svasā lākṣe vātaḥ ha ātmā babhūva te ..7..

सिलाची नाम कानीनोऽजबभ्रु पिता तव ।अश्वो यमस्य यः श्यावस्तस्य हास्नास्युक्षिता ॥८॥
सिलाची नाम कानीनः अजबभ्रु पिता तव ।अश्वः यमस्य यः श्यावः तस्य हास्ना असि उक्षिता ॥८॥
silācī nāma kānīnaḥ ajababhru pitā tava .aśvaḥ yamasya yaḥ śyāvaḥ tasya hāsnā asi ukṣitā ..8..

अश्वस्यास्नः संपतिता सा वृक्षामभि सिष्यदे ।सरा पतत्रिणी भूत्वा सा न एह्यरुन्धति ॥९॥
अश्वस्य अस्नः संपतिता सा वृक्षाम् अभि सिष्यदे ।सरा पतत्रिणी भूत्वा सा नः एहि अरुन्धति ॥९॥
aśvasya asnaḥ saṃpatitā sā vṛkṣām abhi siṣyade .sarā patatriṇī bhūtvā sā naḥ ehi arundhati ..9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In